________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
%3
निदिध्यासनं ३ चेति । श्रवणं नाम- वेदान्तानां शक्ति-तात्पर्यावधारणानुकूलो व्यापारः, श्रुतस्यार्थस्य युक्तिः सन्धान मननम् , विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् । एतेषां श्रवणं प्रधानम् , इतरे फलोपकार्याने, श्रोतव्यादिवाक्येषु प्राथमिकत्वात् श्रवणविधेरैवार्थवादिकफला कल्पनयेतरयोस्तत्क]ल्पनालेशनिवृत्तेः । श्रवणस्य तत्त्वज्ञाने प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकतया प्राधान्यम् , असति श्रवणे प्रामाणासंभावनया तत्त्वज्ञानानुदयात्, अत्यन्तानवगतार्थे गृहीतशहितात्पर्यकस्य शब्दस्यैव प्रमाजनकत्वात् तन्निर्वाहकस्य श्रवणस्य प्राधान्यमिति तात्पर्यम् । विधिश्चात्र नियमारूय एव दृष्टा, दृष्टार्थत्वात् , दृष्टस्यापि तत्त्वज्ञानोपयोगित्वात् । न च, नियमविधिस्थले फले ब्रह्मस्वरूपोपदेष्टारमाचार्यम् , अनुसृतः सन् । श्रवणादीत्यनेन किं प्राथमित्यपेक्षायामाह-श्रवणादिकं रिवति । श्रवणमनन-निदिध्यासनानां क्रमेण स्वरूपात्मकलक्षणमुपदर्शयति-श्रवणं नामेति । वेदान्तानां तत्त्वमसीत्यादिमहावाक्यानाम् । शक्तितात्पर्येति-तत्पदस्य मायावच्छिन्नचैतन्ये शकिः, स्वम्पदस्यान्तःकरणावच्छिन्नचैतन्ये शक्तिः, शक्यार्थयोर्निरुकविशिष्टचैतन्ययोरभेदेनान्वयोऽनुपपन इत्यन्वयानुपपत्त्या जहृदजहत्स्वार्थलक्षणया तत्वमसीति वाक्यं शुदचैतन्यमेवावबोधयतीति तस्य शुद्धचैतन्य एव तात्पर्यमित्येवं शकि-तात्पर्यावधारणानुकुलो य उपक्रमोपसंहारादिषटतात्पर्यलिङ्गान्वेषणलक्षणो व्यापारः श्रवणमित्यर्थः, उक्तस्वरूपस्य श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूपावेदकं च पद्यकदम्बकं पञ्चदश्यां यथा"अहं ब्रह्मेति वाक्यार्थबोधो यावद् दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥1॥ बाढं सन्ति पदाव्यस्य हेतवः श्रुत्यनेकता। असंभाव्यत्वमर्थस्य विपरीता च भावना ॥ २ ॥ शाखाभेदात् कामभेदाच्छूतं कर्मान्यथाऽन्यथा । एवमत्रापि मा शङ्कीत्यतः श्रवणमाचरेत् ।। ३ ।। वेदान्तानामशेषाणामादि-मध्याऽवसानतः । ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् ॥ ” इति । मननस्वरूपं प्रकटयति- श्रुतस्येति- श्रवणनिष्टङ्कितस्येत्यर्थः । यक्तितः प्रमाण-तर्कोपेतहेतुतः । सन्ध अनुमितिविषयीकरणम् , यस्य येन रूपेण श्रवणं तस्मिस्तपस्यानुमित्यात्मकं यज्ज्ञानं तन्मननमित्यर्थः। निदिध्यासनस्वरूपमावेदयति-विजातीयेति-- अनुमित्यात्मकं यदात्ममननं तद्विजातीयोऽन्यविषयकप्रत्यक्षादिरूपः प्रत्ययस्तस्य तिरस्कारेणअन्तराऽन्तराऽन्याशज्ञानजननतो यदात्मानुमितिप्रवाहस्य विच्छेदस्तत्परिहारेणेति यावत् , सजातीयप्रत्ययस्यात्मानुमितिप्रत्ययस्य प्रवाहीकरणं- प्रवाहरूपेणावस्थापनं निदिध्यासनमित्यर्थः । एतेषां श्रवण-मनन-निदिध्यासनानां मध्ये । श्रवणं श्रुतिप्रभवात्मज्ञानम् । प्रधानं आत्मसाक्षात्कारलक्षणात्मतत्त्वज्ञानात्मकफलवत्त्वान्मुख्यम्, इतरे मनन-निदिभ्यासने । फलोपकार्याने फलमात्मतत्त्वसाक्षात्कारलक्षणं तत्साधनं श्रवणमपि फलवत्त्वात् फलं तद्रूपं यदुपकार्य प्रधानत्वात् तस्याङ्गेतदुपकारके, फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवतीति नियमात् । कथं श्रवणस्यैव फलवत्त्वं येन तदत्वं मनननिदिध्यासनयोरित्यपेक्षायामाह-श्रोतव्यादिवाक्येष्विति- "आत्मा वाऽरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात् कर्तव्यः” [ ] इति वाक्येष्वित्यर्थः । प्राथमिकत्वात् प्रथम श्रूयमाणत्वात् । श्रवणविधेः श्रोतव्य इति विधेः । अर्थवादिकफलकल्पनया अर्थवादोक्तफलकल्पनया । इतरयोः मनन-निदिध्यासनविध्योः । तत्कल्पनाक्लेशनिवृत्तेः फलान्तरकल्पनाप्रयासामावात् । श्रवणस्य मनन-निदिध्यासनापेक्षया प्राधान्यं व्यवस्थापयति-श्रवणस्येति
अस्य प्राधान्यमित्यनेनान्वयः। कस्मिन् फले प्राधान्यमित्याकाङ्खायामाह-तत्त्वज्ञान इति । प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकत्वमेव श्रवणस्य व्यवस्थापयति-असति श्रवण इति । ननु श्रवणाभावेऽपि शब्दप्रमाणातिरिकप्रमाणदेव तत्त्वलानं भविष्यतीति कुतः प्रमाणासंभावनेत्यत आह- अत्यन्तानचगतार्थ इति । तन्निर्वाहकस्य प्रमाजनकशब्दस्वरूपनिर्वाहकस्य । “ विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ॥ तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ १ ॥” इति वचनाद् विधेस्वैविध्ये श्रवणविधिः किमेतेष्वित्यपेक्षयामाह-विधिश्चात्रेति- "दृष्टा दृष्टार्थत्वात् , दृष्टस्यापि" इत्यस्य स्थाने " दृष्टादृष्टार्थत्वात् , अदृष्टस्यापि" इति पाठो युक्तः, यथा ब्रीहिनवहन्तीत्यत्र नापूर्वविधिः, प्रमाणान्तराप्राप्तस्य प्रापको विधिरपूर्वविधिरित्युच्यते, तुषविमोकार्थ ब्रीहेरवहननं प्रत्यक्षादिप्रमाणेनैवोपलभ्यत इति तत् प्रमाणान्तरप्राप्तमेव, किन्तु