________________
३०६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
सम्भवात् , न चाभासाध्यासेऽपि तदपेक्षायामनवस्थापत्तिः, तस्यानादित्वात् , जन्याध्यास एव निरुपा. धिके सादृश्यापेक्षणात्, न चाज्ञानाध्यासेनैव सादृश्यापत्तिः सुवचा, जाड्येन हि सादृश्यं वाच्यम् , तच्च जडवादात्म्यापत्त्या; न चाज्ञानं तादात्म्येनाध्यस्तम्, किन्त्वहमज्ञ इति संसर्गेणाध्यस्तमिति, अतो. ऽनाद्याभासतादात्म्याध्यासेन जाड्यापत्त्या सादृश्ये सत्यहङ्काराध्यासो युज्यते । न चाभासे प्रमाणामावा, आदर्श मुखमिति स्पष्टं मुखान्तराभासात् , एकत्र क्लुप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायेनाज्ञानेऽपि
............ तद्रूपेणाहवारेण समं सादृश्यस्य सम्भवेन तद्वलाचैतन्य निरुपाधिकाहङ्काराध्यास उपपद्यतेतरामित्याह- आभासतादास्यापत्त्या चेति-अज्ञानगतचैतन्याभासतादात्म्यापत्त्या, जडात्मकाहङ्कारेण समं जडत्वलक्षणसाधारणधर्मवत्वेन सादृश्यापन्ने चैतन्येऽहङ्कारतादात्म्यारोपलक्षणाहवाराध्याससम्भवादित्यर्थः । नन्वनादिभूताज्ञाने चैतन्याभासोऽपि न वास्तविको वस्तुभूतस्य तस्याभावात् किन्त्वध्यस्त एवेति तदध्यासस्यापि निरुपाधिकाध्यासरूपत्वेन चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्य निमित्ततयाऽपेक्षणीयमतस्तत्सादृश्योपपत्तयेऽनादिभूताज्ञाने चैतन्याभासतादात्म्यापत्तिमूलकचैतन्याभासगतकिश्चित्साधारणधर्मवत्त्वं वाच्यमित्यनवस्थापत्तिरपरिहार्यत्याशय प्रतिक्षिपति-न चेति । आभासाध्यासेऽपि अनादिभूताज्ञाने चैतन्याभासाध्यासेऽपि । तदपेक्षायां चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्यापेक्षायाम् । अनवस्थापत्तिः अवतरणोपदर्शितप्रकारेणानवस्था प्रसज्यत इति । निषेधे हेतुमाह-तस्यानादित्वादिति- अनादिभूताज्ञाने चैतन्याभासाध्यासस्यानादित्वात् , अनादेने किञ्चिजन्यत्वमिति तत्र सादृश्यं निमित्ततया नापेक्षितमित्यर्थः । अनाद्यध्यासे सादृश्यस्य नापेक्षेत्येतत्स्पष्टप्रतिपत्तये स्वाह-जन्याध्यास एवेति- एक्कारेणाजन्येऽनाद्यध्यासे सादृश्यापेक्षणस्य व्यवच्छेदः । नन्वज्ञानमेवात्मन्यध्यस्तम्, अज्ञानाध्यासोऽपि चैतन्ये, सादृश्यमन्तरेण न सम्भवतीति जडस्वरूपेणाज्ञानेन चैतन्यस्य सादृश्यं जडत्वेनैव धर्मेणेत्येतावताऽपि जडत्वेनाहङ्कारेणापि समं चैतन्यस्य सादृश्यात् ततोऽहकाराध्यासो निरुपाधिकश्चैतन्ये सम्भवेदेवेति किमित्यनाद्यज्ञाने चैतन्यस्याभासः कल्पनीय इति अनादिभूताशाने चैतन्याभासस्यैवाभावान्न चैतन्याभासतादात्म्यापनं चैतन्य जीव इत्याशझं प्रतिक्षिपति-न चेति- अस्य सुवचेत्यनेनान्वयः । निषेधे हेतुमाह-जाड्येनेति। हि यतः, सादृश्यम् अहङ्कारेण समं चैतन्यस्य सारश्यम् । जाड्येन जाड्यात्मकधर्मेण । वाच्यं वक्तव्यम् । तश्च जाड्यं च। जडतादाम्यापत्त्या जडेन केनचित् सह तादात्म्यं कस्यचिजडस्य वा तादात्म्यं तदापत्त्या भवेदिति, अजडस्य चैतन्यस्य जाज्यं वस्तुतो नास्ति किन्तु जडतादात्म्यापत्त्या स्यादिति यावत् । ननु तदर्थमेवाज्ञानाध्यासः स्वीक्रियते, चैतन्ये अज्ञानाध्यासादेव जडत्वरूपाज्ञानतादात्म्यापत्तिश्चैतन्ये स्यादित्यत माह-न चेति-अस्या 'अध्यस्तम' इत्यनेनान्वयः, अज्ञानं चैतन्ये तादात्म्यैना. ध्यस्तं न चेत्यर्थः, अज्ञानस्य चैतन्ये तादात्म्येनाध्यासे सत्येवाज्ञानस्य जडत्वात् तत्तादात्म्यापनस्य चैतन्यस्यापि जडत्वापत्त्या जडत्वेनाहकारसादृश्यं तस्याहवाराध्यासप्रयोजकं भवेन चैवमित्याशयः। तत् किमज्ञानं चैतन्ये नाध्यस्तमेव ? तथा सत्यनध्यस्तस्य तस्य चैतन्यवद् वस्तुत्वेऽद्वैतवादो व्याहन्येतत्याशयेन पृच्छति-किन्विति । उत्तरयति- अहमक्ष इतीति-अहमज्ञ इत्याकारकवृत्तिरूपेण संसर्गेण चैतन्येऽज्ञानमध्यस्तमतोऽध्यस्तत्वादज्ञानस्य वस्तुत्वं नापतति नवा तथाध्यासतो जडत्वापत्तिश्चैतन्ये, ततो नाज्ञानाध्यासतोऽहाराध्यासप्रयोजकमहङ्कारसादृश्यं चैतन्ये घटत इत्यर्थः । अतोऽस्माद्धेतोः। अनाद्याभासतादात्म्याध्यासेनेति- अनादिभूताज्ञानेऽनादियश्चैतन्याभासस्तस्य चैतन्ये यस्तादात्म्याध्यासस्तेनेत्यर्थः । जाड्यापत्या चैतन्ये जाज्यापत्त्या। सादृश्ये सति जडत्वरूपसाधारणधर्मेण चैतन्येऽहकारस्य सादृश्ये सति । अहकाराध्यासो युज्यते चैतन्येऽहङ्काराध्या सो घटत इत्यर्थः । अनादिभूताज्ञाने चैतन्याभास इत्यत्र प्रमाणमेव नास्तीत्यपि नास्तीत्याह-न चेति। आदर्श यन्मुखं दृश्यते तद् प्रीवास्थमुखं न भवति किन्तु मुखान्तरमेवाभासत इति तद्दष्टान्तेनाज्ञानेऽपि यचैतन्यमवभासते तच्छुद्धचैतन्यं न भवति किन्तु चैतन्याभास एवेत्येवं चैतन्याद् भिन्नस्य चैतन्याभासस्य स्वीकारादित्याह- आदर्श मुखमितीति- ग्रीवास्थं यन्मुखं तस्य प्रीवैवाधारो न त्वादर्श इत्यादर्शाधिकरणतया प्रतीयमानं मुख स्पष्टं मुखान्तरमिति तस्य यथा मुखाभासत्वं तथा व्यापकीभूतं चैतन्यं स्वापेक्षयाऽव्यापके ऽज्ञाने नावस्थातुमर्हतीति अज्ञानाश्रिततया प्रतीयमानस्य चैतन्यस्य चैतन्यान्तरत्वमिति तस्य चैतन्याभासत्वमित्यर्थः । नन्वादशैं मुखान्तरं तथादर्शनात् क्लप्तं न स्वज्ञाने चैतन्याभास इत्यत आह- एकोति- एकत्र मुखे मुखान्तरकल्पनानिमित्ततया क्लप्तं युक्ति