________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
३०५.
ma
धिष्ठानचैतन्यरूपस्य भानेऽप्यज्ञानोपहितचैतन्यरूपस्येश्वरस्याभानादज्ञानतास्फुरणे तदुपहितस्येश्वरस्य स्फुरणापत्तेः कर्तुमशक्यत्वात् , तस्यायोग्यत्वात् , नहि घटस्फुरणे घटोपहिताकाशादेरपि स्फुरणं केन. चिदापादयितुं शक्यत इति, तत्र विशेष्यस्यायोग्यत्वम् , अत्र तु विशेषण-विशेष्ययोर्योग्यत्वमित्यस्ति विशेष इति चेत् ? न- तथाप्युपहितत्वसम्बन्धगर्भत्वेनादृष्टवज्जीवत्वेनेवायोग्यताया धौव्यात् । ___ आभासवादिनो वार्तिकाचार्यास्तु- 'दर्पणादौ मुखान्तरोत्पत्ति स्वीकुर्वाणाश्चैतन्यस्यानादिभूताझाने अज्ञानादिरेवाभासः समस्ति, न स्वसौ जीवो जडत्वात् , अतस्तत्तादात्म्यापन्नं चैतन्यं जीवः' इत्याहुः । किमत्राभासाङ्गीकारे बीजमिति चेत् ? चैतन्ये अहङ्काराध्यासस्य निरुपाधिकस्येष्टत्वात् , निरुपाधिकाध्यासत्वावच्छेदेन च सादृश्यस्यापेक्षणात् , आभासतादात्म्यापत्या च सादृश्यापने चैतन्येऽहङ्काराध्यास. 'अज्ञाततास्फुरणे' इति पाठो युक्तः । तदुपहितस्य अज्ञाततोपहितस्य । नन्वज्ञातताऽपि भासते तपेण चैतन्यस्वरूपो जीवोऽपि भासते इति किमवशिष्टं यदभानादीश्वरस्यामानमित्यपेक्षायामाह-तस्यायोग्यत्वादिति-अज्ञाततोपहितचैतन्य. स्वरूपस्येश्वरस्यास्मदादिप्रत्यक्षायोग्यत्वादित्यर्थः । ईश्वरस्योपाधिभूतमज्ञानविषयत्वं योग्यत्वाद् भासते, ईश्वरस्त्वयोग्यत्वान्न भासते इत्येतद् दृष्टान्तावष्टम्मेन भावयति- नहीति- अस्य 'शक्यते' इत्यनेनान्वयः, यथा घटस्य प्रत्यक्षे भानेऽपि तदुपाधिकस्य घटावच्छिन्नाकाशस्यायोग्यत्वान्न प्रत्यक्षे भानं तथाऽज्ञानविषयत्वस्य प्रत्यक्ष भानेऽपि तदुपाधिकस्याज्ञानविषयत्वोपहितचैतन्यस्वरूपेश्वरस्यायोग्यत्वान्न प्रत्यक्षे भानमित्यर्थः । ननूपाधैर्घटस्य विशेषणीभूतस्य योग्यत्वेऽपि विशेष्यीभूतस्याकाशस्यायोग्यत्वमिति न घटावच्छिन्नाकाशस्य प्रत्यक्षविषयत्वमिति युज्यते, प्रकृते त्वज्ञानविषयत्वलक्षणस्योपाधेविशेषणीभूतस्यापि योग्यत्वं विशेष्यीभूतस्य चैतन्यस्यापि योग्यत्वमिति विशेषस्य सद्भावात् कथं नाज्ञान विषयत्वोपहित प्रत्यक्षविषयत्वमित्याशङ्कते-तत्रेति-घटावच्छिन्नाकाशे इत्यर्थः । विशेष्यस्य आकाशस्य । अयोग्यत्वं प्रत्यक्षायोग्यत्वम् । अत्र तु अज्ञानविषयत्वोपहितचतन्यस्वरूपेश्वर पुनः। विशेषण-विशेष्ययोः अज्ञानविषयत्वलक्षणविशेषण-चैतन्यलक्षणविशेष्ययोः । योग्यत्वं प्रत्यक्षयोग्यत्वम् । इति एवम् । विशेषः घटावच्छिन्नाकाशादज्ञानविषयत्वोपहितचैतन्ये विशेषः । समाधते-नेति । तथापि अज्ञानविषयत्वोपहितचैतन्यलक्षणेश्वरे अज्ञानविषयत्वलक्षणविशेषणचैतन्यलक्षणविशेभ्ययोर्योन्यत्वेऽपि । उपहितत्वसम्बन्धगत्वेनेति- नापहितत्वं सम्बन्धमन्तरेण भवति. तथा सति सर्वस्य सर्वोपहितत्वं स्यात् . अतोऽवश्यमेवोपहितत्वं सम्बन्धविशेषेण भवतीति वाच्यम्, तथा च विशेषणविशेष्ययोर्योग्यत्वेऽपि सम्बन्धविशेषघटितस्य सम्बन्धविशेषप्रयुक्तस्य वोपहितत्वस्यायोग्यत्वमित्युपहितत्वसन्निविष्टसम्बन्ध उपहितत्वनियामकसम्बन्धो वा गर्भे वशरीरमध्ये यस्य स उपहितत्वसम्बन्धगर्भस्तत्त्वेन, अज्ञानविषयत्वोपहितचैतन्यस्य जीवस्य जीवत्वेन योग्यत्वेऽप्यदृष्टवज्जीवत्वेन यथाs. योग्यत्वं तथाऽयोग्यताया एव ध्रौव्याद्-अवश्यम्भावादित्यर्थः ।।
आभासवादिनां वार्तिककृतां वेदान्तिप्रवराणां मतमुपदर्शयति- आभासवादिन इति- दर्पणादौ मुखान्तरोत्पत्ति खोकुर्वाणा आमासवादिनो वार्तिकाचार्यास्त्वित्याहुरिति सम्बन्धः । किमाहुरित्यपेक्षायां तत्कर्मोपदर्शयति-चैतन्यस्येतिअनादिभूताज्ञाने चैतन्यस्याभासोऽज्ञानादिरेव समस्तीत्यन्वयः, अज्ञानादिरेवेत्येवकारेणाज्ञानादिव्यतिरिकरूपत्वस्य व्यवच्छेदः, 'न त्वसौ जीवः' इत्यनेनैवकारार्थव्यवच्छेदस्यैवोपदर्शनम् , असौ अनादिभूताज्ञाने चैतन्यस्याभासः, जीवो न तु जीवखरूपो नैव भवति । तत्र हेतु:-जडत्वात जीवावृत्तिजडत्वधर्माकान्तत्वात् । अतः एतस्मात् कारणात् , तत्तादास्म्यापन्नम् अनादिभूताज्ञानगतचैतन्याभासतादात्म्यापन्नम्। आभासः किमर्थमुररीक्रियत इति पृच्छति-किमिति-- अस्य बीजमित्यनेनान्वयः । अत्र अनादिभूताजाने । आभासाङ्गीकारे चैतन्याभासस्य स्वीकारे । उत्तरयति--चैतन्य इति । निरुपाधिकेति- यत्र यस्य निरुपाधिकोऽध्यासस्तत्र तस्य सादृश्यमिति व्याप्त्या निरुपाधिकाध्याससामान्ये निमित्ततया सादृश्यस्यापेक्षणादित्यर्थः। एवं च यदि अनादिभूताज्ञाने चैतन्यस्यामासो नाङ्गीक्रियेत तदा चैतन्यस्य जडस्वरूपत्वाभावेन तत्र जडस्याहवारस्य सादृश्याभावात् तद्पनिमित्ताभावेन चैतन्ये निरुपाधिका हतारो न भवेत् . अनादिभूताशाने चैतन्याभासाङ्गीकारे तु अज्ञानस्य जडरूपत्वेन तत्र चैतन्याभासस्यापि जडरूपतया तत्तादात्म्यापन्नस्य चैतन्यस्यापि जडवेन
३९