________________
नयामृततरङ्गिणी-तरङ्गिणीत रणिभ्यां समलङ्कृतो नयोपदेशः ।
मिति नात्र दोषस्पर्शः । नन्वेवमज्ञातस्य चैतन्यस्येश्वरत्वे ' अहं मां न जानामि ' इत्यनुभवादीश्वरस्य प्रत्यक्षत्वापातः, न चाज्ञाततयेश्वरस्य प्रत्यक्षत्वमनापाद्यः सर्वस्यैव वस्तुनो ज्ञावतयाऽज्ञाततया वा साक्षिप्रत्यक्षत्वाङ्गीकारादिति वाच्यम्; न ह्यज्ञाततयेश्वरप्रत्यक्षमापाद्यते - ईश्वरं न जानामीति येनाभ्युपगमव्याघातापत्तिः स्यात्, किन्त्वहं मां न जानामीत्यज्ञानं चैतन्यमनुभूयते स वेश्वर इति तस्य स्वरूपेणापरोक्षत्वं स्यादिति चेत् ? न- अहं मां न जानामीत्यत्राज्ञाततया जीवस्याखण्डजगज्जीवेश्वरादिभ्रमा
३०४
61
यथा पटावच्छिन्नाकाशो न भवतीति घटावच्छिन्ना काशत्वविशिष्टस्य न पटावच्छिन्ना काशत्वविशिष्टता तथाऽविद्यावच्छिनात्मक चैतन्यस्वरूपजीवत्वविशिष्टस्य नाविद्यावच्छिन्न चैतन्यात्मकेश्वरत्वविशिष्टता, विवेकस्त्वत्रापि अविद्यापदेनाविद्यावरणशक्यविद्याविक्षेपशक्त्योर्विवक्षया सम्भवति किन्तु यत्रैकावच्छिन्न चैतन्यस्वरूपावस्थानं तत्र नान्यावच्छिन्नस्वरूपावस्थानमिति जीवनियन्तृत्वस्यानुपपत्त्या तत्प्रतिपादकश्रुतिव्याकोपदोषो विवरणाचार्यो को न वाचस्पतिमिश्रमतं स्पृशति यतो नानोभयोरप्यवच्छिन्नरूपत्वं जीवस्यावच्छिन्नरूपत्वेऽपीश्वरस्य तदभावादित्याशयः । वाचस्पतिमिश्रमते अज्ञानस्याश्रयो जीवः, अज्ञानस्य विषय ईश्वर इति फलितम्, संक्षेपशारीर कारमते तु शुद्धं चैतन्यमेव । ज्ञानस्याश्रयो विषयश्व, तदुक्तं संक्षेपशारीरके- “आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ १ ॥ बहु निगद्य किमत्र वदाम्यहं शृणुत सङ्ग्रहमद्वयशासने । सकलवाङ्मनसाऽतिगतः चितिः सकलवाङ्मनसोर्व्यवहारभाक् ॥ २ ॥ इति । वाचस्पतिमिश्रसम्मतमीश्वरेऽज्ञानविषयत्वमसहमान: परः शङ्कते - नन्वेवमिति । एवमित्यस्यैवोपवर्णनम् - अज्ञातस्य चैतन्यस्येश्वरत्वे इति- अज्ञानविषयचैतन्यस्येश्वरत्वाभ्युपगमे इत्यर्थः । अहमिति - अहं मां न जानामीत्यनुभवोs - स्म च्छन्दार्थस्वात्मविषय का ज्ञानवानहमित्येवस्वरूप एव तत्राज्ञानविषयो यदीश्वर एव तदा द्वितीयाप्रकृत्यस्मच्छन्दार्थोऽपि स एव तस्यैवाज्ञानविषयत्वाभ्युयगमादित्युक्तानुभवस्य प्रत्यक्षरूपत्वेन तद्विषयस्याज्ञानकर्मतापन्नेश्वरस्य प्रत्यक्षत्वं प्रसज्यत इत्यर्थः । नन्वज्ञाततयेश्वरप्रत्यक्षं यदापाद्यते तन्नानिष्टं वस्तुमात्रस्यैव ज्ञाततयाऽज्ञाततया वा साक्षिभास्यत्वेनेश्वरस्यापि तद्रूपेण साक्षिप्रत्यक्षत्वस्य स्वीकारादित्याशङ्कय प्रतिक्षिपति- न चेति- अस्य वाच्यमित्यनेनान्वयः । 17 मनापाद्यः इत्यस्य स्थाने इत्यस्य स्थानॆ “ मनापाद्यम्” इति पाठो युक्तः, तदेवापादनं दोषाधायकं यदनिष्टम् ईश्वरस्य प्रत्यक्षत्वं त्विष्टमेवेति परं प्रति तन्नापाद्यमित्यर्थः । तस्येष्ठत्वमेवात्र हेतुतयोपदर्शयति- सर्वस्यैवेति- सर्व वस्तु ज्ञातमज्ञातं वेति मनसो वृत्तिर्न बहिरिन्द्रियव्यापारमपेक्षते, बहिरिन्द्रियव्यापारमन्तरेण जायमानमनोवृत्त्याऽविद्यावृत्त्या वा यत् प्रत्यक्षं भवति तत् साक्षिप्रत्यक्षमिति गीयते, अत एव शुकाविदं रजतमिति भ्रमस्थले शुक्त्यवच्छिन्न चैतन्याज्ञानमेव शुक्तिरजतरूपेण तदाकारमनोवृत्तिरूपेण परिणमत इत्यनिर्वचनीय शुक्तिरजतस्य तदाकारवृत्त्यवच्छिन्न चैतन्यलक्षणतत्प्रत्यक्षस्य साक्षिभास्यत्वात् साक्षिप्रत्यक्षत्वमिति । निषेधे हेतुमाह- न हीति - हि यतः, ईश्वरं न जानामीत्येवंस्वरूपमज्ञाततयेश्वरप्रत्यक्षं नापाद्यत इत्यर्थः । येन तथापादनेन । अभ्युपगमव्याघातापत्तिः स्यात् अज्ञाततयेश्वरप्रत्यक्षाभ्युपगमस्य व्याघातापत्तिर्भवेत् । यद्येवं नापाद्यते तर्हि कीदृशमापायत इति पृच्छति - किन्विति । उत्तरयति - अहमिति । त्यज्ञानम्" इत्यस्य स्थाने त्यज्ञातम् " इति पाठो युक्तः, अहं न जानामीत्याकारकप्रत्यक्षेण अज्ञातं चैतन्यमनुभूयते, न त्वज्ञातचैतन्यलक्षणस्येश्वरस्याज्ञातत्वेन स्फुरणं तत्र येन तदिष्टं भवेदित्यर्थः । ननु भवतु अज्ञात चैतन्यानुभवः स तावताऽपि प्रकृते किमायातमित्यत आह- स चेति - ईश्वरशब्दस्य तच्छब्दार्थाभिन्नार्थप्रतिपादकस्य पुंलिङ्गत्वात् तच्छब्दस्याज्ञातचैतन्यप्रतिपादकस्यापि पुंलिङ्गस्य निर्देशः, तथा चाज्ञातचैतन्यं चेत्यर्थः । इति अज्ञात चैतन्यरवेनेश्वरासाधारणधर्मेणाह मां न जानामीति प्रत्यक्षेऽ • वभासमानत्वाद्धेतोः । तस्य ईश्वरस्य । स्वरूपेणेति यथा घटोऽयमिति प्रत्यक्षे घटत्वेन स्वाधारणधर्मेणावभासमानस्य घटस्य स्वरूपेणापरोक्षत्वं तथेश्वरस्य स्वाधारणाज्ञात चैतन्यत्वरूपधर्मेणावभासमानस्य स्वरूपेणापरोक्षत्वं प्रसज्येतेत्यर्थः । समाधत्ते नेति - अज्ञाततया जीवस्य भानेऽपीत्यन्वयः । किंस्वरूपस्य जीवस्य तत्राज्ञाततया भानमित्यपेक्षयामाह- अखण्डं चेति - सकलोपाधिशून्यं च जगज्जीवेश्वरादीनां भ्रमस्याधिष्ठानं च यचेतन्यं तदात्मकस्येत्यर्थः । जीवस्य निरुक्तचैतन्यस्वरूपस्य तत्र भानं न खज्ञानोपहित चैतन्यरूपस्येश्वरस्येत्यत्र किं बीजमित्यपेक्षायामाह - अज्ञानतास्फुरण इति- अत्र
66
"