________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
जीवान्तरयामित्वानुपपत्तेः । कार्योपाधिभूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिबिम्बयोर्जीवेश्वरयोरपि व्यापकत्वान्जीवान्तर्यामित्वश्रुतेरप्यव्याघातात्, अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं चाविद्यापरम् , अज्ञानप्रतिबिम्बितं चैतन्यं साक्षी, स चोक्तशक्तिद्वयप्रतिबिम्बितो जीव इति, ईश्वरश्रवियं तु शुद्धमिति दिक् । एतेनाज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः, बुद्धिप्रतिबिम्बितं चैतन्यं जीवः, अज्ञानोपहितं बिम्बचैतन्यं शुद्धमिति संक्षेपशारीरकारमतमप्युपसगृहीतं तात्पर्यतोऽभेदात् ।
अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्राः, तेषामयमाशयः- वस्तुतः सजातीय-विजातीय. भेदशून्यं चैतन्यमनादिसिद्धानिर्वचनीयाज्ञानोपाध्यवच्छिन्नं जीव इति, अज्ञानं चेश्वर इति द्वैविध्यं प्रतिपद्यते, अज्ञातत्वम् अज्ञानविषयत्वम्, तदेवेश्वरोपाधिः, तञ्च व्यापकमिति तदुपहितेश्वरस्यापि व्यापकत्वात् सर्वान्तर्यामित्वमप्युपपद्यते, विवरणाचार्यस्त्ववच्छिन्नस्यैवेश्वरत्वमवच्छिन्नस्य च जीवत्वं दूषितचैतन्यस्य जीवत्वाभ्युपगमादित्यत आह-- अज्ञानप्रतिबिम्बितमित्यत्रेति- घटकत्वं तत्प्रत्ययार्थः, तथा चाज्ञानप्रति. बिम्बितमित्यस्थाविद्याप्रतिबिम्बितमित्यर्थः, अविद्या चावरण-विक्षेपशक्तिद्वयरूपैवात्र विवक्षिता, तत्रावरणशक्तिप्रतिबिम्बितचैतन्यं जीवः, विक्षेपशक्तिप्रतिविम्बितचैतन्यमीश्वर इति विवेकः प्रागुपदर्शित इति न जीवेश्वरयोः सर्वथैक्यापत्तिः । वेदान्ते यचैतन्यस्य जीवेश्वर-साक्षि-ब्रह्मभेदेन चतुर्विधत्वं प्रसिद्धं तत् संक्षेपेण निगमयति-अज्ञानप्रतिबिम्बितं चैतन्यं साक्षीति । "ईश्वरश्रवियं तु शुद्धमिति" इत्यस्य स्थाने " ईश्वर इति च, ब्रह्म तु शुद्धमिति' इति पाठः सम्यग, तथा च सच निरुक्तस्वरूपः साक्षी पुनः। उत्कशक्तिद्वयप्रतिबिम्बित: आवरण-विक्षेपशक्तियप्रतिबिम्बितः सन् जीव इति जीव साक्षीत्येवमाख्यायते, तथा ईश्वर इति ईश्वरसाक्षीत्येवमाख्यायते, अज्ञानलक्षणव्यापकोपाधिप्रतिबिम्बितस्य तच्छक्तिरूपव्याप्योपाधिप्रतिबिम्बितत्वं नासम्भवदुक्तिकम् , जलप्रतिबिम्बितस्य चन्द्रस्य जलतरणप्रतिबिम्बितत्वस्यापि दर्शनात्, एतावांस्तत्र विशेष:- जीवे ईश्वरे च शक्तिप्रतिविम्बितत्वं विशेषणमिति शक्तिरूपोपाधिकार्य तत्र भवति, साक्षिणि तु तदुपलक्षणमतस्तत्र निरुतोपाधिकार्य न भवतीति, ब्रह्म पुनश्शुद्धं चैतन्यमित्यर्थः । एतेनेत्यस्योपसगृहीतमित्यनेनान्वयः। बुद्धिप्रतिविम्बितम् अन्तःकरणप्रतिबिम्बितम् । कथमुपसहीतमित्यपेक्षायामाह- तात्पर्यतोऽमेदात् उक्त. मतस्य पूर्वोपदर्शितार्थ एव तात्पर्यादित्यर्थः । अज्ञानप्रतिबिम्बितमित्याज्ञानपदं निरुक्तशक्तिपरम् , बुद्धिप्रति. बिम्बितमित्यत्र बुद्धिपदमपि तथा, अज्ञानोपहितमिति तु यथाश्रुतार्थकमेव, बिम्बचैतन्यमित्यनेन साक्षी परिगृहीतः, शुद्धमित्यनेन शुद्धचैतन्यस्वरूपं ब्रह्म परिगृहीतमिति ।
वाचस्पतिमिश्राणां भामतीग्रन्थप्रणेतृणां मतमुपदर्शयति- अझानावच्छिन्नमिति । तदभिप्रायमुद्घाटयति- तेषामिति- वाचस्पतिमिश्राणामित्यर्थः । वस्तुत इति- वस्तुतः सजातीयविजातीयभेदशून्यं चैतन्यं द्वैविध्यं प्रतिपद्यते इत्यन्धयः, परमार्थतश्चैतन्यमेकमेव, चैतन्यभिन्नं च किमपि नास्त्येवेत्यतस्तस्य सजातीयं चैतन्यान्तरम्, विजातीय बडं च नास्तीति सजातीय-विजातीयभेदशून्यमित्यर्थः। अनादिसिद्धति-अनादिसिदं न केनचित् कदाचित् कुत्र. चिदुत्पादितं किन्त्वनादिकालतः स्वत एवासादितात्मलाभम् , एवमप्यनिर्वचनीयं- नेदं सद् भवितुमर्हति, उत्तरकालं ब्रह्मज्ञानेन बाध्यमानत्वात्, नाप्यसत् प्रतीयमानत्वादिति पारमार्थिकसत्वकिञ्चिदधिष्ठानकप्रतीत्यविषयत्वलक्षणासत्त्वाभावो. भयवस्वलक्षणानिवनीयत्वाकलितं यदज्ञानं तदात्मकोपाध्यवच्छिन्नं यनिरुक्तचैतन्यं तज्जीव इत्यर्थः, “अज्ञानं चेश्वरः" इत्यस्य स्थाने " अज्ञातं चेश्वरः" इति पाठो युक्तः, अज्ञातं निरुक्तचैतन्यमीश्वर इत्यर्थः । इति एवम् , दैविध्यं द्विविधत्वं, प्रतिपद्यते भजति । अज्ञातं चेश्वर इत्यत्राज्ञातत्वं किमित्यपेक्षयामाह-अज्ञातत्वमज्ञानविषयत्वमिति । सदेव अज्ञातत्वमेव विषयतयाऽशानमेवेति यावत् । तच अज्ञानं च । इति उपाधेरज्ञानस्य व्यापकत्वाद्धेतोः। तदुपहितेश्वरस्यापि अज्ञानोपहितचैतन्यरूपेश्वरस्यापि । ननु विवरणाचायैस्वच्छेदवादे यो दोष उपदर्शितस्तदोषदुष्टत्वेनेदं वाचस्पतिमतं नोपादेयमित्यत आह-विवरणाचास्त्विति- जीवेश्वरयोरुभयोरप्यवच्छिन्न चैतन्यरूपत्वे घटावच्छिन्नाकाशो