________________
नयामृततरङ्गिणी-तरक्मिणीतरणिभ्यां समलतो नयोपदेशः ।
काशस्य जानुमात्रे जले विशालरूपेण प्रतिबिम्बदर्शनात् ; प्रतिबिम्बस्यापि च चिद्रूपत्वं प्रत्यक्षशास्त्राभ्यां सिद्धम् । न च घटावच्छिन्नाकाशपदविद्यावच्छिन्नं चैतन्यमेव जीवोऽस्तु, किं प्रतिबिम्बत्वेनेति वाच्यम् , तथा सति जीवभावेनावच्छिन्नस्य पुनरवच्छेदान्तरायोगात्, घटाकाशादी तथादर्शनाद् ब्रह्मणः सर्वनियन्तृत्वानुपपत्तौ " यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमयति" [ बृहदारण्यकोपनिषद् ३, ७, २२] इति श्रुतिव्याकोपप्रसङ्गात् , प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनाद् द्विगुणीकृत्य वृत्त्युपपत्तेर्जीवावच्छेदेषु ब्रह्मणोऽपि नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति न दोषः । अस्मिन् पक्षे बिम्बचैतन्यं नेश्वरः, बिम्बास्यापि प्रतिबिम्बान्तरद्विगुणीकृत्य वृत्त्ययोगेन प्रतिबिम्बात्मक
प्रतिबिम्बनं सम्भवत्येवेति । विशालरूपेणेति- एतेन शानदृष्ट्या भवतु जलापेक्षयाधिकप्रमाणश्चन्द्रस्तथापि लोकदृष्ट्याविशालस्यैव तस्याविशालरूपणव प्रतिबिम्बनं न तु ब्रह्मण इत्याशङ्काशङ्करप्युद्धतः, साम्रनक्षत्राकाशस्य विशालरूपस्यैव विशालरूपेण प्रतिबिम्बस्य दर्शनादित्यर्थः । ननु भवतूपदर्शितदृष्टान्तबलाद् ब्रह्मणोऽपि प्रतिबिम्बनम् , किन्तु जलाशयगतस्य चन्द्रप्रतिबिम्बस्य न चन्द्रवं बिम्बादन्यदेव प्रतिबिम्बमिति बिम्बगतासाधारणधर्मस्य प्रतिबिम्बे न सम्भव इति कथं चिद्रपब्रह्मप्रतिबिम्बरूपस्य चिद्रूपत्वमित्यत आह-प्रतिबिम्बस्यापीति- जीवचैतन्यरूपतया स्वसंवेदनप्रत्यक्षेणानुभूयते, शास्त्रमपि तस्य चैतन्यरूपत्वमनुशास्तीति प्रत्यक्ष-शास्त्राभ्यां सिद्धं जीवस्य चैतन्यरूपत्वं नान्यत्रादर्शनमात्रेणापनेयमित्यर्थः । न चेत्यस्य वाच्यमित्यनेनान्वयः, यथा योऽप्यस्ति आकाशोऽप्यस्ति, तयोरवच्छेद्यावच्छेदकभावमात्रतो घटावच्छिन्नाकाश इति व्यवहियते तथाऽविद्या-चैतन्ययोरवच्छेद्यावच्छेदकभावमात्रतोऽविद्यावच्छिन्न चैतन्यस्य जीवत्वमस्तु किमतिरिक्तबिम्बप्रतिविम्बभावकल्पनेनेति शङ्कार्थः । प्रतिक्षेपहेतुमुपदर्शयति-तथा सतीति- अविद्यावच्छिन्नत्वस्यैव जीवत्वस्वरूपस्वे सतीत्यर्थः । जीवभावेन अविद्यावच्छिन्नत्वलक्षणजीवत्वेन । अवच्छिन्नस्य अवच्छेद्यभावं प्राप्तस्य चैतन्यस्य । पुनः अवच्छे. दान्तरायोगात अन्यावच्छिन्नत्वासम्भवात् , अस्य श्रुतिव्याकोपप्रसङ्गादिस्यत्रान्वयः। एकेनावच्छिन्नस्यावर दृष्टान्तमाह-घटाकाशादाविति । तथादर्शनात् अन्यावच्छेदासम्भवस्य दर्शनात्, न हि घटाधवच्छिन्नत्वविशिष्टाकाशस्य पटाधवच्छिन्नत्वं दृश्यते । अन्यानवच्छेदे यदनिष्टं तदुपदर्शयति-ब्रह्मण इति-जीवभावेनावच्छिन्नस्य ब्रह्मणोऽन्यानवच्छिन्नत्वानान्यनियन्तृत्वम्, तत्रस्थस्यैव तन्नियन्तृत्वम् , जीवभावनावच्छिदं तु जीव एव तिष्ठति नान्यत्रेत्यतः सर्वनियन्तृत्वानुपपत्ती सत्याम् , “ यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमर्यात" इत्यस्य स्थान " यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति पाठो युक्तः । इति एवंस्वरूपेत्यर्थः । प्रतिबिम्बवादे यथा ब्रह्मणः सर्वनियन्तृत्वोपपत्त्योकश्रुत्यव्याकोपस्तथा भावयति-प्रतिबिम्बपक्षे वितिनिरवच्छिन्नस्य शुद्धाकाशस्य सर्वव्यापकत्वाजले शुद्धाकाशस्य सस्व सत्यैव प्रतिबिम्बाकाशस्य सत्त्वं दृश्यत इति शुद्धभावेन प्रतिबिम्बभावेन च द्विगुणीभूयाकाशस्तत्र वर्तते, यत्र ब्रह्मप्रतिबिम्बं जीवो वर्ततेऽविद्यायां तत्रैव जीवावच्छेदेषु सत्सु ब्रह्मणोऽपि शुद्धस्य सर्वब्यापकस्यावस्थितितो नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति सर्वनियन्तृत्वोपपत्त्या निरुक्तश्रुतिव्याकोपो न भवतीत्यर्थः । अस्मिन् पक्षे प्रतिबिम्बपक्षे। कथं बिम्बचैतन्य नेश्वर इत्यपेक्षायामाह-बिम्बस्यापीति-"प्रतिबिम्बान्तरद्विगुणीकृत्य" इत्यस्य स्थाने "प्रतिबिम्बान्तरे द्विगुणीकृत्य" इति पाठः सम्यग्, 'यो यत्र बिम्बरूपेण तिष्ठति स तत्र प्रतिविम्बरूपेणापि तिष्ठति' इत्येवं द्विगुणीकृत्य-द्विगुणो भूत्वा, बिम्बस्य प्रतिबिम्बान्तरे- भिन्नप्रतिबिम्बे, वृत्त्ययोगेन वृत्त्यसम्भवेन, “प्रतिबिम्बात्मकजीवान्तरयामित्वानुपपत्तेः” इत्यस्य स्थाने "प्रतिबिम्बात्मकजीवान्तर्यामित्वानुपपत्तेः” इति पाठः सम्यग्', प्रतिबिम्बात्मकस्य जीवस्यान्तर्यामित्वं बिम्बस्येश्वरस्य न स्यात् । तर्हि किंस्वरूपतयेश्वरस्याभ्युपगमे तस्य जीवान्तर्यामित्वोपपत्तिरित्याकाङ्कायामाह-कार्योपाधिभूतस्येति- कारणोपाधिलाऽविद्या, कार्योपाधिस्तूलाविद्येति तूला विद्यारूपस्यैत्यर्थः । शक्तिद्धयस्य विक्षेपशक्तिरावरणशक्तिश्चेत्येवं शक्तिद्वयस्य । व्यापकतया सर्वत्रावस्थितत्वेन । तत्प्रतिविम्बयोर्जीवेश्वरयोरपीतिअत्र विक्षेपशक्तिरूपकार्योपाधिप्रतिबिम्बमीश्वरः, आवरणशक्तिरूपकार्योपाधिप्रतिबिम्बं जीव इत्येवं शकिद्वयप्रतिबिम्बितचैतन्यरूपयोर्जीवेश्वरयोरपीत्यर्थः । जीवान्तर्यामित्वश्रुतेः ईश्वरस्य जोवान्तर्यामित्वप्रतिपादिकायाः “यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति श्रुतेः । न च ज्ञानप्रतिबिम्बितं चैतन्यं जीव इतीदानी परित्यक्तः पक्षः शक्तिप्रतिबिम्बित