________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
३०१ शकीः रज्जुतिरोधानशक्तिश्च, एवं मूलाज्ञानस्याद्वितीयपूर्णानन्दैकरसचिदावर्णशक्तिराकाशादिप्रपञ्चजननशक्तिश्चेति; निवृत्ते चाज्ञाने तन्निमित्ते च जीवेश्वरादिप्रपञ्चे चिन्मात्रमेव(वाव)शिष्यते, जीवस्त्वज्ञानप्रतिबिम्बितं चैतन्यमिति विवरणाचार्याः, “ रूपं रूपं प्रति रूपी बभूव " [
] इति श्रुतेः, " एकधा बहुधा चैव दृश्यते जलचन्द्रवद्" इति [
] स्मृतेश्च, न चामूर्तस्यप्रतिबिम्बामावः शक्यो वक्तुम् , अमूर्तानामपि रूप-परिमाणादीनां गुणानामादर्शभूर्तद्रव्यस्यापि साभ्रनक्षत्राप्रातिभासिकसत्त्वाक्रान्तं रज्जुसादिकं सृजति चेति, “सर्पजननशक्तीः" इत्यस्य स्थाने “सर्पजननशकी " इति पाठो युक्तः, रज्ज्वज्ञानस्य या सर्पजननशक्तिः सा विक्षेपशक्तिरित्यर्थः, रज्ज्वज्ञानस्य या पुना रज्जुतिरोधानशक्तिर्यदलात् सत्यपि रम्जुस्तिरोहिता सती न ज्ञायते सा आवरणशक्तिरित्यर्थः । एवं तथा । मलाशानस्य शुद्धचैतन्यस्वरूपब्रह्मावरकाज्ञानस्य । चिदावर्णशक्तिरित्यस्य स्थाने चिदातरणशक्तिरिति पाठः सम्यम्, यया शक्त्याऽऽवृतं ब्रह्म अद्वितीयपूर्णानन्देकरस. चिद्रूपतया न ज्ञायते सा आवरणशक्तिर्मूलाझानस्येत्यर्थः, यया शक्त्या मूलाज्ञानं पुनस्तत्र ब्रह्मणि आकाशादिप्रपञ्चं जनयति सा मूलाज्ञानस्य विक्षपशक्तिरित्यर्थः, मूलाज्ञाननिवृत्तौ तन्निमित्तजीवेश्वरादिप्रपञ्चनिवृत्तौ च शुद्धं ब्रह्मवावशिष्यते तदेव मोक्ष इत्युपदर्शयति- निवृत्ते चाझान इति । तन्निमित्ते अज्ञालनिमित्तके, चकारानिवृत्ते इति अनुकृष्यते । यद्यज्ञानरूपोपाधित एव जीवेश्वरविभागो वक्तव्यस्तर्हि किंस्वरूपस्तदा जीव ईश्वरश्च किस्वरूप इत्यपेक्षायामाह-जीवस्त्यिति- जीवस्याज्ञान विम्बितचैतन्यस्वरूपत्वे कथिते अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वर इत्युक्तमेवेति न न्यूनत्त्वमिति नात्र मन्तव्यम्, ईश्वरस्याप्यज्ञानप्रतिबिम्बितचतन्यस्वरूपतयैवावाप्रेऽभिधानादिति बोध्यम् । एकं मूलाज्ञानमित्येके, अनेकानि तानीत्यन्ये, मुलाज्ञाना. वस्थाविशेषरूपाण्यज्ञानानि तूलाज्ञानानि, तत्र शक्तिद्वयमावरणविक्षेपशक्तिस्वरूपम् , तदज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वर. स्तत्प्रतिबिम्बस्वाकान्तं चैतन्य जीव इत्येवं बिम्बप्रतिबिम्बभाववादोपवर्णन केषामित्याकावानिवृत्तये त्वाह- इति विव. रणाचार्या इति- एवं विवरणाचार्याः प्रतिपादयन्तीत्यर्थः । अयं च बिम्बप्रतिबिम्बमाववादः श्रुति-स्मृति प्रमाणसिद्धत्वात् सर्वैरप्युपादेय इत्यावेदनाय तत्र क्रमेण श्रुति-स्मृती दर्शयति- रूपमिति, एकघेति च, "रूपं रूपं प्रति रूपीवभूव" इत्यस्य स्थाने “रूपं रूपं प्रतिरूपो बभूव" इति पाठः सम्यग् , रूपं रूपमिति वीप्स या यं यमुपाधि प्राप्नोति चैतन्य तत् तदुपाध्यनुरूपं तद् भवति तदुपाधिविगमे नासौ तथा भवतीति दर्शितम् , एतावताऽनेकोपाधिपक्षः प्रकटितो भवति; अथवा रूपं रूपमित्यनेनैकस्याप्युपाधरनेकावस्थस्यानेडनम्, तथा चैकोपाधिरवस्थाविशेषादनेकरूपतामच्चतीत्येकोपाधिपक्षोऽपि सूचितो भवति, मायाऽप्येका चैतन्यमप्येकमेवमपि तयोः सम्बन्धे कथं जीवेश्वराधनकव्यवस्थितिरित्याकालां निवर्तयति एकत्यादिस्मृतिः, यथा जलाशयलक्षण उपाधिरेकः, आकाशश्चन्द्रोऽप्येकस्तथापि तयोः सम्बन्धे सति नानाविधजलाशयगतोमिभावे अनेकानि चन्द्रप्रतिबिम्बानि जायन्ते, निस्तरङ्गे च तस्मिन्नेव जलाशये एकं चन्द्रप्रतिबिम्बं समुल्लसदू दृश्यते तथा प्रकृतेऽपीति । ननु मूर्तस्यैव चन्द्रादेः प्रतिबिम्ब भवतीत्यमूर्तस्य चैतन्यस्वरूपस्य ब्रह्मणः प्रतिबिम्बमेव न सम्भवतीत्याशङ्का प्रतिक्षिपति-न चेति- अस्य शक्य इत्यनेनान्वयः । निषेधै हेतुमाह- अमूर्तानामपीति "मादर्शमूर्त" इत्यस्य स्थाने “मादशेऽमूर्त" इति पाठो युक्तः, मूतत्वं रूपवत्त्वमेव प्रतिविम्बनिबन्धनमत्र परस्याभिमतम्, न च रूप परिणामादयो गुणा रूपवन्तः, गुणे गुणानहोकारात् , अथापि आदर्श-दर्पणे रूप-परिणामादिगुणविशिष्टस्य मुखादेः प्रतिबिम्बने मुखादिगतानां रूपपरिणामादीना गुणानाममूर्तानामपि प्रतिबिम्बस्य दर्शनादित्यर्थः । ननु दर्शनस्य दुरपहवत्वादमूर्तानां गुणानां प्रतिबिम्बन दृश्यत इति तदुररीक्रियताम् , अमूर्तस्य तु द्रव्यस्य प्रतिबिम्बनं न दृष्टमिति दृष्टान्ताभावात् कथममूर्तस्य ब्रह्मणः प्रतिबिम्बनमास्थ्यमित्यत आह-- अमूर्तद्रव्यस्थापीति । साभ्रनक्षत्राकाशस्येति- अत्र अभ्र-नक्षत्रयोर्मूतत्वेऽपि आकाशस्य न मूर्तत्वमिति साधनक्षत्राकाशस्य न मूर्तत्वमिति बोध्यम्। जानुमात्र जानुप्रमाणे, एतेन चन्द्रो यद्यपि अलाशयगतोऽधिकारिमाणस्तथाऽपि वितस्तिमात्रतयैव लोकैरनुभूयत इति कृत्वा जलाशयान्न्यूनपरिमाणक एवं कल्पित इति न्यूनपरिमाणकस्य तस्य प्रतिबिम्बनमधिकपरिमाणे जलाशये, न त्वधिकपरिमाणस्य न्यूनपरिमाणे प्रतिबिम्बनं सम्भवतीति कथमतिमहतो ब्रह्मणोऽल्पपरिमाणेऽज्ञाने प्रतिबिम्बन मिति तुच्छशङ्काऽपि व्यपाकृता भवति, अतिमहतोऽ. प्याकाशस्य स्वल्पपरिमाणे जले प्रतिबिम्बस्य दर्शनेन तद्दष्टान्तनातिमहतोऽपि ब्रह्मणः स्वापेक्षया न्यूनपरिमाणेऽज्ञाने