________________
३०० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। तथाहि- एकस्यैव मुखस्य दर्पणोपाधिसम्बन्धाद् बिम्बप्रतिबिम्बभावः, एवं चिन्मात्रस्योक्तोपाधिसम्बन्धा. जीवेश्वरभावो न तत्त्वान्तरमस्ति । अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादिशब्दाभिधेयम् , तश्चैकेनैवोपपसावनेककल्पनानवकाशादेकमेवेत्येके । बद्धमुक्तव्यवस्थानिरूपणाय नानेत्यन्ये, तदवस्थानि मूलासानानि व्यवहारसौकर्याय निरूपयन्ति- तत्रैव माया-ऽविद्याशब्दद्वयनिमित्तं शक्तिद्वयं-विक्षेपशक्तिरावर्णशक्तिश्च, कार्यजननशक्तिर्विक्षेपशक्तिः, तिरोधानशक्तिरावर्णशक्तिः, यथा-अवस्थारूपस्य रज्वज्ञानस्य सर्पजनन
तथाहीत्यादिना । विम्वप्रतिबिम्बभाव इति- दर्पणरूपोपाधौ दर्पणगतमालिन्यादिदोषान्मलिनमिव तद्गतमुपलभ्यमानं मुखं प्रतिबिम्बत्वधर्माकान्तत्वादन्यत् तदन्यच्च ग्रीवास्थमेव स्वस्वरूपव्यवस्थित बिम्बत्वधर्माकान्तम्, दर्पणलक्षणोपाधि. सम्बन्धाभावे च विम्बप्रतिबिम्बभावानाक्रान्तमेव केवलं मुखमिति यथेत्यर्थः। एवं तथा । उक्कोपाधिसम्बन्धात् अज्ञानलक्षणोपाधिसम्बन्धात् । न तवान्तरम् औपाधिकस्य जीवेश्वरविभागस्योपाध्यभावेऽभाव एवेनि वस्तुतस्तस्याभावान ब्रह्मतत्वातिरिकतरवरूपतालक्षणं तत्त्वान्तरत्वमिति न ब्रह्मतत्वादन्यत् तत्त्वमस्ति । अज्ञानमिदं न ज्ञानप्रागभावज्ञानात्यन्ताभावरूपं किन्तु तेजोविरोधिभावस्वरूपवज्ज्ञानविरोधिमावस्वरूपमेवाविद्यादिशब्दाभिधेयमित्याह-अज्ञानं विति- अनाद्यनिर्वचनीयं यद् मायाऽविद्यादि तत्प्रतिपादको यो मायाऽविद्यादिशब्दस्तेनाभिधेयमज्ञानमित्यर्थः, अथवा अनादिशब्दोऽनिर्वचनीयशब्दो मायाशब्दोऽविद्याशब्द इत्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः । तदज्ञानमे कमनेक वेति जिज्ञासायामके केचन वेदान्तिमतानुयायिन आचार्या लाघवादेकमेव तदिच्छन्तीति तन्मतमुग्दर्शयति- तच्चेति-मायाऽविद्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः। पके. नैवाशानेन उपपत्तौ अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वरः, अज्ञानप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इत्येवमीश्वरजीवभेदव्यवस्थित्युपपत्तौ । अनेककल्पनानवकाशात् मायोपाधिकं चैतन्यमीश्वरोऽविद्योपाधिकं चैतन्यं जीव इत्येवमनेकाज्ञानकल्पनायाः प्रयोजनस्य जीवेश्वरविभागस्यान्यथैवोपपत्तावनवकाशात् । एकमेवेत्यत्र तदित्यस्यान्वयः। इति एवम् । एके आचार्या अभ्युपगच्छन्ति । अविद्याशब्दाभिधेयस्य जीवोपाधेरज्ञानस्यैकत्वे तदुपाधिकचैतन्यरूपस्य जीवस्याप्येकत्वमित्येकस्य मुक्तौ तद्रूपस्य सर्वजीवस्य मुक्तिरेकस्य बन्धे सर्वस्यापि बन्ध इति एको जीवो बद्ध स्तदानीमेवान्यो मुक इत्येवं बद्धमुक्तव्यवस्थैकाज्ञानोपाधिवादे दुर्घटेयनेकमेवाज्ञानमभ्युपेयमित्येवमन्ये वेदान्तिमतानुयायिन आचार्या उरी कुर्वन्तीति तन्मतं दर्शयतिबद्धमुक्तेति । 'अन्ये' इत्यस्यैव निरूपयन्तीत्यनेनान्वयः, तथा च व्यवहारसौकर्याय तदवस्थानि मूलाज्ञानानि निरूपयन्यन्ये इत्यन्वयः फलितः । कथं तन्निरूपणमित्याकालायां निरूपणप्रकारमुपदर्शयति-तत्रैवेति- मूलाज्ञान एवेत्यर्थः । मायेति-मायाशब्दनिमित्तमेकां शक्तिमपरामविद्याशब्दनिमित्तमित्येवं शक्तिद्वयं निरूपयन्तीत्यर्थः। शक्तिद्वयं नाममा दर्शयति-विक्षेपेति-रावर्णेयस्य स्थाने रावरणेति पाठो युक्तः, एवमग्रेऽपि, तथा च अज्ञाने विक्षेपशत्या मायाशब्दः प्रवर्तते, आवरणशक्त्या अविद्याशब्दः प्रवर्तते इति । क्रमेण तदुभयखरूपं लक्षयति-कार्यति- अज्ञानं यया शक्त्याइभिनवकार्य जनयति सा कार्य जननशक्तिर्विक्षेपशक्तिरित्यर्थः, यया शक्त्या यथावस्थितवस्तुस्वरूपग्रहणं ज्ञानस्य प्रतिबध्नाति मा तिरोधानशक्तिरावणशक्तिरित्यभिधीयते, आवरणशक्तेरपि असत्त्वापादका-भानापादकशक्तिभ्यां वैविध्य ग्रन्थान्तरे उप. वर्णितम् , तत्र ययाऽज्ञानशक्त्या प्रतिबन्धाद् वस्तुनोऽस्तित्वमपि प्रहीतुं न पार्यते साऽसत्त्वापादकावरणशक्तिः, वस्तुनः सत्वं गृहन्नपि पुरुषो ययाऽज्ञानशक्त्या प्रतिबन्धादिदमोहम् वस्त्वित्येवं ग्रहीतु न शक्नोति प्रमाता साऽभानापादकावरणशक्तिः, अत्र असत्त्वापादकावरणशक्तिरज्ञानस्थ परोक्षज्ञानात् प्रतिद्धा भवति विनश्यति वा, तेन वस्तुनः परोक्षज्ञाने जाते सोऽस्तीति सामान्यतोऽस्तित्वं प्रतीयते, स इत्थंस्वरूप इति विशेषतो ज्ञानाभावात् कीदृशः स इति जिज्ञासा ततो न निवर्तते, अभानापादकावरणशक्तिस्त्वज्ञानस्यापरोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः प्रत्यक्षज्ञाने समुत्पन्ने सतीदं बस्त्वित्थमेवेति विशेषतो ग्रहणं भवति, न तदानीं कोगिदमिति जिज्ञासा समुल्लसति, तथा च परोक्षझानतोऽसत्त्वापादकशकेरभिभवानाशाद् वा वस्त्वस्तीत्येव ज्ञायते, प्रत्यक्ष ज्ञानतोऽभानापादकशक्तरभिभवानाशाद् वा वस्तु भातीति ज्ञायते इति विवेकः । निरुतशक्तिद्वयमेव दृष्टान्तदान्तिकभावसङ्गमनेन भावयति- यथेति । अवस्थारूपस्य मूलाज्ञानावस्थरूपस्य, तूलाज्ञानपदवाच्यस्येति यावत् , मूलाज्ञानं शुद्धबैतन्यं परमब्रह्मावृणोति, तत्रैव व्यावहारिकसत्त्वाद्याकान्तं भूजलादिकं सजति चेति रज्ज्वज्ञानादिकं च तस्यैवावस्थाविशेषरू तूलाज्ञानशब्दाभिधेयं रज्ज्वादिकमावृणोति रजवादावेव च
दाववच