________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
सहायशब्दब्रह्मैव तदुपादानं वाच्यम् , अद्वैतशास्त्रेणाविद्यानिवृत्तौ च तन्मूलप्रपञ्चविगमे शुद्धं शब्दब्रह्मैवावशिष्यते, स एव मोक्ष इति निरवद्यम् । केवलं तस्य शब्दात्मकत्वे शुद्धशब्दत्वादिधर्मवत्त्वम् , निर्धर्मकत्वेऽप्यसदादिव्यावृत्तिवदशब्दादिव्यावृत्त्यैवोपपत्तिरिति संक्षेपः।
द्वितीयमतावलम्बिनो वेदान्तिनः, तन्मतेऽखण्डमद्वितीयमानन्दैकरसं स्वप्रकाशं चैतन्यमेव जगतस्तत्वम् , अनिर्वचनीयस्यैव सर्पस्य रज्जुः । कथं तर्हि जीवेश्वरविभाग इति चेत् ? अज्ञानरूपादुपाधेः,
सहायम् अविद्यासहकृतम् । ब्रह्मैवेत्येवकारेण तदतिरिक्तस्य सर्वस्यैव कल्पितस्योपादानत्वव्यवच्छेदः । तदुपादानं प्रामा-ऽऽरामादिप्रपञ्चस्योपादानम् । अद्वैतशास्त्रेण शब्दब्रह्माद्वैतबोधकवेदान्तवाक्येन, नहि तद्वाक्यमात्रतोऽविद्यानिवृत्तिः सम्भवति तथा सति पूर्वमेवाविद्यानिवृत्तिप्रसङ्गः स्यात् किन्तु शब्दात्मकब्रह्मांद्वतसाक्षात्कारादित्यत्र दृश्यम् । तन्मूलप्रपञ्चविगमे अविद्यामूलकस्य प्रपञ्चस्य - प्रामारामादिरूपस्य विलये सति । शुद्ध कल्पितप्रपञ्चरहितम् । शब्द. ब्रह्मैव शब्दतत्त्वात्मकब्रह्ममात्रम् । अवशिष्यते अवशिष्टं भवति । स एव शुद्धं शब्दतत्त्वात्मकब्रह्ममात्रम्, एवकारेण शब्दब्रह्मातिरिक्तस्य मोक्षखरूपत्वस्य व्यवच्छेदः । केवलं किन्तु। तस्य ब्रह्मणः । अखण्डस्य ब्रह्मणो भिन्नस्य कस्यचिधर्मस्याभावाच्छुद्धशन्दत्वादिधर्मोऽपि नास्ति द्वैतापत्तिभयात् तदुपगमोऽपि न शक्यः कर्तुमत आह-निर्धर्मकत्वेऽ. पीति । विधिरूपधर्मस्यातिरिक्तस्याभाचादेव निधर्मकत्वं ब्रह्मणः, अभावो हि अधिकरणात्मक इत्यसदादिव्यावृत्तिलक्षणस्य सत्स्वादिधर्मस्य ब्रह्मात्मकाधिकरणखरूपस्य ब्रह्मणि स्वीकारतो यथा सद् ब्रह्म आनन्दो ब्रह्म ज्ञान ब्रह्मेति व्यवहारोप. पतिस्तथाऽशब्दादिव्यावृत्तिलक्षणस्य शुद्धशब्दत्वादिधर्मस्य ब्रह्मात्मकस्यैव ब्रह्मण्यभ्युपगमेन शब्दतत्त्वं ब्रह्मत्यप्युपपद्यते. तरामित्याह- असदादिव्यावृत्तिवदिति ॥ .
चित्सन्मात्रं ब्रह्मेति द्वितीयब्रह्मवादिमतमुपवर्णयितुमाह-द्वितीयेति । शब्दतत्त्वं ब्रह्मेति प्रथमब्रह्मवादिमतावलम्बिनो भर्तृहरिप्रभृतेवैयाकरणत्वस्यावधारितत्वाद् द्वितीयमतावलम्बिनः के इत्याकालानिवृतये वाह-वेदान्तिन इति । तस्मते वेदान्तिमते। अखण्डम् अवयवावयविभाव-देशप्रदेशादिभाव-गुणगुणिमावादिविकलम् । अद्वितीयं स्वभिन्नत्वव्यापकीभताभावप्रतियोगिपारमार्थिकसत्त्ववत्, एतावता ब्रह्मैव परमार्थसत् , ब्रह्मभिन्नं परमार्थसन्न भवतीति ज्ञापितम् । दु.खैकरूपमप्यद्वितीयं स्यादत आह- मानन्देकर समिति- आनन्दैकस्वभावमित्यर्थः । एवम्भूतं ब्रह्म यदि न प्रमाणविषयस्तर्हि न श्रद्धेयम् , यदि च प्रमाणविषयस्तहिं तत्प्रमाणं यदि परमार्थसत् तहिं तदादाय द्वैतापत्तिः, अथ कल्पितं तदा कल्पितेन तेन न परमार्थसब्रह्मसिद्धिरित्यत आह-स्वप्रकाशमिति-तथा च स्वप्रकाशरूपत्वात् स्वसिद्धस्य न प्रमाणान्तराधीना सिद्धिरिति न तत्सिद्धये प्रमाणान्तरमन्वेषणीयमिति । अभेदे विषयविषयिभावाभावात् स्वप्रकाशमित्यस्य स्वविषयकप्रकाशरूपमिति नार्थः, किन्त्वस्वप्रकाशभिन्नमित्येव तदर्थः, कथं ज्ञानानात्मकं तत् स्वप्रकाशं जडस्य स्वप्रकाशत्वासम्भवादत आहचैतन्यमेवेति-तथा च ज्ञानस्वरूपत्वादेव स्वप्रकाशं तदित्यर्थः, एवकारेण तद्भिन्नस्य तत्त्वरूपताव्यवच्छेदः । निरुक्तस्वप्रकाशं ब्रह्म जगतोऽधिष्ठानमतो ब्रह्मव जगतस्तत्त्वं यद् यस्याधिष्ठान तत् तस्य तत्वमिति व्याप्तेर्निष्टङ्कनाय दृष्टान्तमुपदर्शयति-अनिर्वचनीयस्येति-" अनिर्वचनीयस्यैव" इत्यस्य स्थाने “अनिर्वचनीयस्येव" इति पाठो युक्तः, भनिर्वचनीयस्य सर्पस्य रज्जुरिवेत्यन्वयः, रजौ अयं सर्प इति यद् भ्रमात्मकंवानं भवति तद्विषयः सर्पो न देशान्तरीयः, तेन समं च चक्षुषो लौकिकसनिकर्षाभावात् , ज्ञानलक्षणाऽलौकिकसनिकर्षस्येन्द्रियप्रत्यासत्तित्वं नाभ्युपेयत एव, किन्तु रज्ज्वज्ञानात् तदानोमेवोल्पन्नोऽनिर्वचनीयः सर्प एव रजौ कलितस्तद्विषयः, सच प्रातीतिकसन्निति गीयते, तस्यानिर्वचनीयस्य सर्पस्याधिष्ठान रज्जुरेव तत्त्व कल्पितस्याधिष्ठानसत्तातिरिक्तसत्त्वानभ्युपगमादिति यथा तथा निरुकचैतन्यस्वरूपब्रह्मणि कल्पितस्य जगतो ब्रह्मसत्त्वातिरिक्तसत्त्वाभावात् तदेव तश्वमित्यर्थः । पृच्छति-कथमिति तहि यदि निरुक्तचैतन्यव्यतिरिकवस्तुनोऽभावाचैतन्यमेव जगतस्तत्त्वं तदा उत्तरयति-अज्ञानरूपादुपाधेरिति- एकस्यापि चैतन्यस्वरूपस्य ब्रह्मणोऽज्ञानरूपोपाधिसम्बन्धादयं जीवोऽयमीश्वर इति भेदस्वरूपो विभाग इति विभागेनोपाधिकल्पितेन न परमार्थस्य शुद्धचैतन्याइतस्य व्याघात इत्यर्थः। अज्ञानरूपादुपाधेरेकस्य चैतन्यस्य जीवेश्वरविभाग इति यदुक्तं तदेव भावयति