Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 179
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३२९ शक्यम् , यथात्रैवैकत्वग्रहोदेशेन संमार्गविधानम् त[द्व ]दिह " तमेतम् " [ पत्र- ] इत्यादिविधौ न तावदरुणादिवाक्यवदेकविशिष्टक्रियाबोधकत्वम् , असंभवादनङ्गीकाराच, नापि " दध्ना जुहोति" इतिवत् कस्याश्चित् क्रियायामेकविशेषणविधानम् , उक्तहेतोरेव, यज्ञ-दानादीन्युद्दिश्य विविदिषा. फलसंबन्धविधाने एकत्वमहोद्देशेन संमार्गविधानवद् विविदिषाफलमुद्दिश्य यज्ञ-दानादि विधाने च महोद्देशेनैकत्वसंमार्गविधानवत् कथं न वाक्यभेदः ?, अथ “ दर्श-पौर्णमासाभ्यां स्वर्गकामो यजेत " [ ] इत्यत्रकस्वर्णोद्देशेन दर्श-पौर्णमास्यात्मकानेकयागविधानवद् विविदिषोद्देशेन यज्ञदानाद्यनेकविधाने न वाक्यभेद इति चेत् ? न-तत्र हि दर्शपूर्णमासपदेन न कालविधानम् , उत्पत्तिवाक्यैरेव प्राप्तत्वात् , अतो दर्श-पूर्णमासपदं तत्प्रख्यन्यायसिद्धं नामधेयम् , तत्प्रत्यं चान्यशास्त्रम् , यथा-" अग्निहोत्रं जुहोति" इत्यत्र मन्त्रवर्णेनामेः प्राप्तत्वान्नाग्निदेवताविधिः, किन्तु नामधेयं तथात्र विवक्षितमिति सर्वस्य यज्ञोपयोगिनो ग्रहशब्दव्यपदेश्यस्य पात्रस्य संमार्जनं न्याय्यम् । यथा चैकोद्देशेनानेकविधानं वाक्यभेदभयादशक्यं तथाऽनेकोद्देशेनैऋविधानमपि, यत एकविधावेकस्यैवोद्देश्यत्वमेवं चैकमुद्दिश्य यस्यैकस्य विधानं तस्यैव पुनरन्यमुद्दिश्यापि विधानमिति विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्याह-एकोदेशेनेति । तत्र दृष्टान्तमाह- यथेति । अत्रैव ग्रह समात्सित्रैव । संमार्गविधानमित्यनन्तरमशक्यमित्यनुषजनीयम् । उक्तमर्थ प्रकृते सझमयन्नाह- तदिति । इहेत्यस्यैव स्पष्टीकरण- तमेतमित्यादिविधाविति- तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैति जावीत्यर्थः। अरुणादिवाक्यवदिति-अरुणयकहायन्या गवा सोम कोणातीत्यत्र यथा आरुण्यायेकविशिष्टगोकरणकसोमक्रयविधानं न सम्भवति तथा तमेतमित्यादिविधौ नैकविशिष्टक्रियाविधानमतो नैकविशिष्टक्रियाबोधकत्वमित्यर्थः । एकविशिष्टक्रिया, बोधकत्वाभावे हेतुमुपदर्शयति-असंभवादिति- यज्ञेन दानेनेत्यादिना यज्ञ-दानादिक्रियालक्षणानेकविशेषणेषु समानयोगक्षेमेषु सत्सु तन्मध्यादेकमेव किञ्चन विशेषणमुपादाय तद्विशिष्टविविदिषाकियाबोधकत्वस्य तमेतमित्यादाबसम्भवात् , यदेव विशेषणं नोपादीयते तस्यैवोक्तविधावपादानवैयर्यमनुषज्यत इत्यत एकविशिष्टक्रियाविधानं न सम्भवतीत्याशयः । यदि च कथञ्चिदेकविशिष्टक्रियाबोधकत्वं सम्भाव्येत तदाऽप्याह-अनङ्गीकाराचेति-तमेतमित्यादिवचनस्यैकविशिष्टक्रियाबोधकत्वस्यानभ्युपगमाचेत्यर्थः । नापि दध्ना जुहोतीत्यादिवदिति- दना जुहोतीत्यत्र होमानुवादेनेकस्य दध्नो गुणस्य यथा विधानं तथा प्रकृतेऽपि कस्याञ्चित् क्रियायामेकविशेषणविधानमित्यपि नेत्यर्थः । निषेधे हेतुमाह- उक्तहेतोरेवेति- असंभवादनङ्गीकारादेव वेत्यर्थः । अनेकोद्देशेनेकविधानमपि वाक्यभेदभयान्न संभवति प्रकृते इत्याह- यज्ञ-दानादीन्युद्दिश्येति । विविदिषाफलसंबन्धविधाने इत्यस्य कथं न वाक्य भेद इत्यनेनान्वयः, कथं न वाक्यभेदः? स्यादेबेत्यर्थः । अनेकोद्देशेनेकविधाने वाक्यभेदप्रसङ्गस्य दृष्टान्तमाह--एकत्वग्रहोद्देशेनेति- एकत्व ग्रहोभयोद्देशेन सम्मार्जनस्य कस्य विधाने यथा बाक्यभेदस्तथेत्यर्थः । प्रकृते एकमुद्दिश्याने कविधानेऽपि वाक्यभेदप्रसङ्ग इत्याह-विविदिषाफलमुहिश्येति । यश-दानादिविधाने चेत्यस्यापि कथं न वाक्यमेद इत्यनेनान्वयः । तत्र दृष्टान्तमाह- ग्रहोइशेनेति- प्रहमुद्दिश्यैकत्व संमार्जनयोविधाने यथा वाक्यभेदस्तथेत्यर्थः । एकफलोद्देशेनानेकक्रियाविधानेऽपि प्रकृते न वाक्यभेद इति सदृष्टान्तमाशङ्कते- अथेति । समाधत्ते नेति । हि यतः, तत्र दर्श-पौर्णमासाभ्यां यजेतेत्यत्र । न कालविधानं यागोद्देशेन नामावास्यापूर्णिमालक्षणकालविधानम् । तत्र हेतुमाह-उत्पत्तिवाक्यरेवेति- द्रव्यं देवता च यागस्वरूपं, तद् यदाक्ये प्रतिपाद्यते तदुत्पत्तिवाक्यम्, दर्श. पौर्णमासस्थले षट यज्ञाः, ततस्तेषामुत्पत्तिवाक्यान्यपि षडिति उत्पत्तिवाक्य रिति बहुवचनम् । प्राप्तत्वात् कालस्य प्राप्तत्वात् । अतः दर्श-पूर्णमासपदेन कालविधानामावतः । तत्प्रख्येति-तत्प्रकाशकान्यशास्त्रतस्तस्य प्राप्तौ तत्प्रतिपादकतयाऽ. वभासमानशब्दो न तद्विधायकः किन्तु नामधेय इति तत्प्रख्यन्यायानुगमनिका । तत्प्रख्यन्यायेत्यत्र तत्प्रख्यं किमित्यपेक्षायामाह- तत्प्रख्यं चान्यशास्त्रमिति । तत्प्रख्यन्यायसिद्धं नामधेयमिति दृष्टान्तोद्धाटनेन स्पयष्टति- यथेति । नाग्निदेवताविधिः होमोद्देशेन नाग्निस्वरूपदेवताया विधानम् , तर्हि अग्निहोत्रमिति पदं किमर्थमिति पृच्छति-किन्विति । उत्तरयति नामधेयमिति- होमविशेषस्य नामधेयं संज्ञा अग्निहोत्रमिति पदम् । तथा एवम् । अत्र दर्श-पूर्णमासाभ्यां ४२

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274