________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
३२९
शक्यम् , यथात्रैवैकत्वग्रहोदेशेन संमार्गविधानम् त[द्व ]दिह " तमेतम् " [ पत्र- ] इत्यादिविधौ न तावदरुणादिवाक्यवदेकविशिष्टक्रियाबोधकत्वम् , असंभवादनङ्गीकाराच, नापि " दध्ना जुहोति" इतिवत् कस्याश्चित् क्रियायामेकविशेषणविधानम् , उक्तहेतोरेव, यज्ञ-दानादीन्युद्दिश्य विविदिषा. फलसंबन्धविधाने एकत्वमहोद्देशेन संमार्गविधानवद् विविदिषाफलमुद्दिश्य यज्ञ-दानादि विधाने च महोद्देशेनैकत्वसंमार्गविधानवत् कथं न वाक्यभेदः ?, अथ “ दर्श-पौर्णमासाभ्यां स्वर्गकामो यजेत " [ ] इत्यत्रकस्वर्णोद्देशेन दर्श-पौर्णमास्यात्मकानेकयागविधानवद् विविदिषोद्देशेन यज्ञदानाद्यनेकविधाने न वाक्यभेद इति चेत् ? न-तत्र हि दर्शपूर्णमासपदेन न कालविधानम् , उत्पत्तिवाक्यैरेव प्राप्तत्वात् , अतो दर्श-पूर्णमासपदं तत्प्रख्यन्यायसिद्धं नामधेयम् , तत्प्रत्यं चान्यशास्त्रम् , यथा-" अग्निहोत्रं जुहोति" इत्यत्र मन्त्रवर्णेनामेः प्राप्तत्वान्नाग्निदेवताविधिः, किन्तु नामधेयं तथात्र विवक्षितमिति सर्वस्य यज्ञोपयोगिनो ग्रहशब्दव्यपदेश्यस्य पात्रस्य संमार्जनं न्याय्यम् । यथा चैकोद्देशेनानेकविधानं वाक्यभेदभयादशक्यं तथाऽनेकोद्देशेनैऋविधानमपि, यत एकविधावेकस्यैवोद्देश्यत्वमेवं चैकमुद्दिश्य यस्यैकस्य विधानं तस्यैव पुनरन्यमुद्दिश्यापि विधानमिति विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्याह-एकोदेशेनेति । तत्र दृष्टान्तमाह- यथेति । अत्रैव ग्रह समात्सित्रैव । संमार्गविधानमित्यनन्तरमशक्यमित्यनुषजनीयम् । उक्तमर्थ प्रकृते सझमयन्नाह- तदिति । इहेत्यस्यैव स्पष्टीकरण- तमेतमित्यादिविधाविति- तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैति
जावीत्यर्थः। अरुणादिवाक्यवदिति-अरुणयकहायन्या गवा सोम कोणातीत्यत्र यथा आरुण्यायेकविशिष्टगोकरणकसोमक्रयविधानं न सम्भवति तथा तमेतमित्यादिविधौ नैकविशिष्टक्रियाविधानमतो नैकविशिष्टक्रियाबोधकत्वमित्यर्थः । एकविशिष्टक्रिया, बोधकत्वाभावे हेतुमुपदर्शयति-असंभवादिति- यज्ञेन दानेनेत्यादिना यज्ञ-दानादिक्रियालक्षणानेकविशेषणेषु समानयोगक्षेमेषु सत्सु तन्मध्यादेकमेव किञ्चन विशेषणमुपादाय तद्विशिष्टविविदिषाकियाबोधकत्वस्य तमेतमित्यादाबसम्भवात् , यदेव विशेषणं नोपादीयते तस्यैवोक्तविधावपादानवैयर्यमनुषज्यत इत्यत एकविशिष्टक्रियाविधानं न सम्भवतीत्याशयः । यदि च कथञ्चिदेकविशिष्टक्रियाबोधकत्वं सम्भाव्येत तदाऽप्याह-अनङ्गीकाराचेति-तमेतमित्यादिवचनस्यैकविशिष्टक्रियाबोधकत्वस्यानभ्युपगमाचेत्यर्थः । नापि दध्ना जुहोतीत्यादिवदिति- दना जुहोतीत्यत्र होमानुवादेनेकस्य दध्नो गुणस्य यथा विधानं तथा प्रकृतेऽपि कस्याञ्चित् क्रियायामेकविशेषणविधानमित्यपि नेत्यर्थः । निषेधे हेतुमाह- उक्तहेतोरेवेति- असंभवादनङ्गीकारादेव वेत्यर्थः । अनेकोद्देशेनेकविधानमपि वाक्यभेदभयान्न संभवति प्रकृते इत्याह- यज्ञ-दानादीन्युद्दिश्येति । विविदिषाफलसंबन्धविधाने इत्यस्य कथं न वाक्य भेद इत्यनेनान्वयः, कथं न वाक्यभेदः? स्यादेबेत्यर्थः । अनेकोद्देशेनेकविधाने वाक्यभेदप्रसङ्गस्य दृष्टान्तमाह--एकत्वग्रहोद्देशेनेति- एकत्व ग्रहोभयोद्देशेन सम्मार्जनस्य कस्य विधाने यथा बाक्यभेदस्तथेत्यर्थः । प्रकृते एकमुद्दिश्याने कविधानेऽपि वाक्यभेदप्रसङ्ग इत्याह-विविदिषाफलमुहिश्येति । यश-दानादिविधाने चेत्यस्यापि कथं न वाक्यमेद इत्यनेनान्वयः । तत्र दृष्टान्तमाह- ग्रहोइशेनेति- प्रहमुद्दिश्यैकत्व संमार्जनयोविधाने यथा वाक्यभेदस्तथेत्यर्थः । एकफलोद्देशेनानेकक्रियाविधानेऽपि प्रकृते न वाक्यभेद इति सदृष्टान्तमाशङ्कते- अथेति । समाधत्ते नेति । हि यतः, तत्र दर्श-पौर्णमासाभ्यां यजेतेत्यत्र । न कालविधानं यागोद्देशेन नामावास्यापूर्णिमालक्षणकालविधानम् । तत्र हेतुमाह-उत्पत्तिवाक्यरेवेति- द्रव्यं देवता च यागस्वरूपं, तद् यदाक्ये प्रतिपाद्यते तदुत्पत्तिवाक्यम्, दर्श. पौर्णमासस्थले षट यज्ञाः, ततस्तेषामुत्पत्तिवाक्यान्यपि षडिति उत्पत्तिवाक्य रिति बहुवचनम् । प्राप्तत्वात् कालस्य प्राप्तत्वात् । अतः दर्श-पूर्णमासपदेन कालविधानामावतः । तत्प्रख्येति-तत्प्रकाशकान्यशास्त्रतस्तस्य प्राप्तौ तत्प्रतिपादकतयाऽ. वभासमानशब्दो न तद्विधायकः किन्तु नामधेय इति तत्प्रख्यन्यायानुगमनिका । तत्प्रख्यन्यायेत्यत्र तत्प्रख्यं किमित्यपेक्षायामाह- तत्प्रख्यं चान्यशास्त्रमिति । तत्प्रख्यन्यायसिद्धं नामधेयमिति दृष्टान्तोद्धाटनेन स्पयष्टति- यथेति । नाग्निदेवताविधिः होमोद्देशेन नाग्निस्वरूपदेवताया विधानम् , तर्हि अग्निहोत्रमिति पदं किमर्थमिति पृच्छति-किन्विति । उत्तरयति नामधेयमिति- होमविशेषस्य नामधेयं संज्ञा अग्निहोत्रमिति पदम् । तथा एवम् । अत्र दर्श-पूर्णमासाभ्यां
४२