________________
ફે૮
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
1.
विधातुं शक्या, प्राप्तायां तु तस्यामनेकार्थं विधाने विधिप्रत्ययावृत्तिलक्षणो वाक्यभेदः प्रसज्यते । न च " यदप्रमेव प्रजायत "" यवसायं जुहोति " " जातपुत्रः कृष्णकेशाम्री नादधीते " [ तत्र च कर्मानुवादेन गुणद्वय विधानेऽप्येकवाक्यवन्नानुपपत्तिः पूर्वत्र “अग्निज्योतियोंतेरग्निः स्वाहा [ तैत्तरीयारण्यक ४. १०. ] इति मन्त्रवर्णप्राप्तत्वादमेः प्रजापतिमात्रविधानम्, उत्तरत्र च जातपुत्रकृष्ण केश पदद्वयोपलक्षितावस्थाविशेषस्याधानानुवादेन विधानमित्येवं वाक्यभेदनिराकरणात् तदिदमुक्तम्" प्राप्ते कर्मणि नानेको, विधातुं शक्यते गुण: " [ त्युपलक्षणं प्राप्तमात्रमुद्दिश्याने कविधानस्याशक्यत्वात्, अत एव " ग्रहसंमार्ष्टि " [ इत्यत्र महोद्देशेनैकत्व- संमार्गयोर्विधाने वाक्यभेदः, एकोद्देशेनानेकविधानवदने को देशे नै कविधानमप्य
1
] इति, अत्र च कर्मणी
]
"
99
6.
46
विशेषणमात्रस्यैवान्यतोऽप्राप्तस्य विधानं युक्तमित्यर्थः । तत्र दृष्टान्तमाह-यथेति । गुणविधौ दधिद्रव्यरूपगुणविधाने, दध्ना जुहोतीत्यत्र होमक्रियाया अग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् तत्र करणतया दधिगुणस्यैव विधानमित्यर्थः । तत्रापि प्रकरणान्तर प्राप्त क्रियायां गुणमात्रविधानस्थलेऽपि । नानेकमिति- अनेकं विशेषणं विधातुं न शक्यत इत्यर्थः । तत्र हेतुमाह - वाक्यभेदप्रसङ्गादिति । कथं वाक्यभेदप्रसङ्ग इत्यपेक्षायामाह अप्राप्ता हीति हि यतः । अनेकविशेषणान्युपसंगृह्णन्ती विशिष्टस्वस्वरूपसन्निविष्टतयाऽनेकविशेषणानि सङ्गृह्णन्ती सती। विशिष्टा अनेकविशेषणविशिष्टा, विधातुं शक्येति द्विधाने एकस्यैव विशिष्टस्य विधानमित्येकार्थत्वान्न वाक्यभेदप्रसङ्ग इति । प्राप्तायां तु प्रकरणान्तरप्राप्तायां पुनः । तस्यां कियायाम् । विधिप्रत्ययावृत्तिलक्षणः यावन्तो गुणा विधेयास्तावन्तो विधिप्रत्ययास्तस्मिन् वाक्ये न सन्ति, किन्त्वेक एव विधिप्रत्ययो विद्यते स चैकत्रैवोपक्षीण इति गुगान्तरविधानाय तस्यावृत्तिरन्यासः पुनस्तत्पठनं तलक्षणस्तत्स्वरूप, अतस्तद्भयात् प्राप्तायां क्रियायामेकस्यैव गुणस्य विधानमित्याशयः । तत्र शङ्कामुत्थाप्यापहस्तयति - न चेति । ' यदप्रमेव प्रजायत " " यवसायं जुहोति " जातपुत्रः कृष्णकेशाग्री नादधीते तत्र च " इत्यस्य स्थाने " यदनये च प्रजापतये च सायं जुहोति " इत्यत्र " जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यत्र च ” इति पाठो युक्तः । कर्मानुवादेन सन्ध्याकालीनहत्रनकर्मानुवादन, अग्न्याधानकर्मानुवादेन च । गुणद्वयविधानेऽपि अग्नि प्रजापतिदेवतारूपगुणद्वयविधाने, जातपुत्रत्व - कृष्ण के शाग्रत्वलक्षण गुणद्वयविधानेऽपि च । एकवाक्यवत् यथैकवाक्यं तथा । नानुपपत्तिः, अन्यत्रापि प्राप्तकर्मानुवादनानेकगुणविधाने एकवाक्यं नानुपपन्नम् । निषेधे हेतुमाहपूर्वत्रेति यदनये च प्रजापतये च जुहोतीत्यत्रत्यर्थः । " ज्योतेरग्निः " इत्यस्य स्थाने " ज्योतिरग्निः " इति पाठः सम्यकू । इति एवंस्वरूपेत्यथः । अभिज्योतिरित्यादिमन्त्र स्थाग्निरूप देवताप्रकाशन सामर्थ्यात् तत एवाग्नेः प्राप्तत्वान्न तस्य किन्तु प्रजापतिरूपदेवतामात्रस्य विधानम् । उत्तरत्र च जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र च । अवस्थाविशेषस्येतिजातपुत्रत्वं वृद्धावस्थायामपि सम्भवति न तु कृष्णकेशाप्रत्वमिति विशेषस्य युवावस्थालक्षणस्य विधानम्, तथा च युवावस्थः पुरुषोऽग्नीनादधीतत्येवं पर्यवसिते अग्न्याधानानुवादेनावस्थाविशेषस्य विधानमित्यर्थः । इत्येवम् उक्तप्रकारेणेकस्य विधानतः । उक्तार्थे मीमांसासम्मतिमुपदर्शयति तदिदमुक्तमिति । प्राप्ते कर्मणीति- " प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ १ ॥ " इति सम्पूर्ण पद्यम् अत्र प्राप्ते कर्मण्यनेको गुणो विधातुं न शक्यः, अप्राप्ते तु बद्दवोऽप्येकयत्नतो विधीयन्ते ' इत्यन्वयः, अर्थस्तु व्यक्त एव । अत्र चेति- प्राप्ते कर्मणीति पये चेत्यर्थः । कर्मणीत्युपलक्षणं कर्मपदेन कर्म तद्भिन्नयोरुभयोरपि ग्रहणम् । तत्र हेतुमाह प्राप्तमात्रमितिप्राप्तमात्रं यत् किमपि कर्मस्वरूपं गुणादिस्वरूपं वा तदुद्देशेनानेकविधाने विध्यावृत्तिलक्षणो वाक्यभेदः प्रसज्यत एवेति तद्भयादनेकविधानस्याशक्यत्वादित्यर्थः । अत एव कर्मणीत्यस्योपलक्षणत्वेन प्राप्तमात्रमुद्दिश्याने कविधानस्याशक्यत्वादेव । " ग्रहसंमाष्टि" इत्यस्य स्थाने " ग्रहं संमार्ष्टि इति पाठः सम्यग् ग्रहो नाम यज्ञोपयोगी पात्रविशेषः, महं संमाष्टस्यत्र अहपदोसर द्वितीयैकवचनेन ग्रहगतैकत्वस्य विवक्षितत्वे एकत्वविशिष्टस्य ग्रहस्यैव सम्मार्जनेऽपूर्वोत्पत्तिर्न तु सर्वस्य प्रहस्य, एवं च ग्रहे प्राप्ते एकत्व संमार्जनयोरुभयोरप्यप्राप्तत्वाद् विधाने वाक्यभेदः प्राप्नोति ततो न ग्रहगतैकत्वं