Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 182
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः । 1 66 } यन्तःकरणशुद्धद्वारा विविदिषासिद्धिः । तथा च स्मृति:- " जपेनैव तु संसिद्धयेत् " [ इति, संभवति चाधिकारिविशेषस्य विविदिषाद्युद्देशेन वेदानुवचनाद्यनुष्ठानमिति । न च स्वर्गकामोऽग्निहोत्रवत् सकृदनुष्ठाननियमो यज्ञाद्यनुष्ठानस्यान्तःकरणशुद्धिपर्यन्तत्वात् तस्याश्च साधनचतुष्टयसंपत्तिगम्यत्वात्, तेन यस्य सकृदनुष्ठानादन्तः करणशुद्धिर्न तस्यावृत्तिरिति । अथवा जातपुत्र " इतिवत् यज्ञादिपदैः प्रसिद्धं शतपथविहितं कर्मसाम्राज्यमुपलक्ष्य विविदिषादिफलोद्देशेन विधीयत इति न वाक्यभेदः, संभवत्समुच्चयश्चैवमुपपद्यते । यद्वा ईश्वरार्पणबुद्ध्यानुष्ठितानां कर्मणामन्तःकरणशुद्धिः फलम्, “ यत् करोषि ” [ भगवद्गीता, अ. ९, लो. २७ ] इत्यादिस्मृतेः तेन सुष्ठुक्तम्- “कर्मभिः शुद्धान्तःकरणो ब्रह्मचारिण इत्येवं यज्ञानधिकारिणाम् । केवलेनापि यज्ञादिक्रियाविकलेनापि । यज्ञादिसमुच्चयमन्तराऽपि वेदानुवचनान्यतमेन विविदिषासिद्धौ स्मृतिं प्रमाणयति तथा च स्मृतिरिति- “ जपेनैव " इत्यस्य स्थाने " जप्येनैव " इत्यपि पाठः, " जप्येनैव तु संसिद्धयेद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १ ॥ " [ इति सम्पूर्ण वचनम्, मैत्र इत्यनेन मित्रस्य - सूर्यस्य गायत्रीमन्त्रजपेनाराधक इति बोध्यते । यदा चात्र सम्भवत्समुच्चय एव न तु नियमवत्समुच्चयस्तदाऽधिकार विशेषस्यैकैकवेदवचनाद्यनुष्ठानमपि युक्तमित्याह- संभवति चेति- अस्य वेदानुवचनाद्यनुष्ठानमित्यनेनान्वयः । नतु " स्वर्गकामोऽग्निहोत्रं जुहोति ” इत्यादावेकदाऽनुष्ठितेनाप्यग्निहोत्रेण स्वर्गफलसिद्धिः, तथा सकृदनुष्टितेन यज्ञादिना विविदिषाफलसिद्धिसम्भवे विविदिषाद्यर्थं सकृदेव यज्ञाद्यनुष्ठाननियमः सिद्धयेदित्यत आहन चेति- “स्वर्गकामोऽग्निहोत्रवत् " इत्यस्य स्थाने " स्वर्गकामानिहोत्रवत् " इति पाठो युक्तः, स्वर्गकामस्याग्निहोत्रे यथा सकृदनुष्ठाननियमस्तथा विविदिषाकामस्य यागादौ सकृदनुष्ठाननियम इति न चेत्यर्थः । यज्ञाद्यनुष्ठानं हि अन्तःकरणशुद्धिद्वारा विविदिषाजननसमर्थमिति अन्तःकरणशुद्धिर्यावन्न संपवैत तावद् भूयो यागाद्यनुष्ठानं कुर्यादेव, अन्तःकरणशुद्धिवार • निष्पत्त्यनन्तरं च न पुनर्यज्ञाद्यनुष्ठेयमिति निषेधहेतुमुपदर्शयति- यज्ञाद्यनुष्ठानस्येति । ननु यज्ञाद्यनुष्ठानं यद्यन्तःकरणशुद्धिकारणं तदा सकृदनुष्ठितेनापि यज्ञादिनाऽन्तःकरणशुद्धिजतिवेति किमर्थं भूयो यज्ञाद्यनुष्ठानमित्यत आह- तस्याश्चेतिअन्तःकरणशुद्धेश्चेत्यर्थः। साधनचतुष्टयसम्पत्तिगस्यत्वादिति - नित्यानित्यविवेक-विराग- शमदमादि-मुमुक्षेत्येवं साधनचतुष्टयं तस्य या संपत्तिस्तया गम्यत्वादित्यर्थः, साधनचतुष्टय सम्पन्नत्वादयं शुद्धान्तःकरण इत्यवगमोऽत्र ज्ञेयः तथा च साधनचतुष्टयगम्यान्तःकरणशुद्धिर्यावता यज्ञाद्यनुष्ठानेन भवति तावद् यज्ञायनुष्टानं विधेयमिति न तत्र सकृदनुष्ठानस्यासकृदनुष्ठानस्य वा नियम इति भावः । तेन यज्ञायनुष्ठानस्यान्तःकरण शुद्धिपर्यन्तत्वेन । यस्य विविदिषाकामस्य कस्यचित् पुरुषधौरेयस्य । तस्य सकृदनुष्ठानादन्तःकरणशुद्धिमतः पुरुषविशेषस्य । न आवृत्तिः नानेकवारं यज्ञाद्यनुष्ठानम् । प्रकारान्तरेण संभवत्समुचयोपपादनेन यज्ञेन दानेनेत्यादौ वाक्यभेदप्रसङ्गं वारयति - अथवेति । जातपुत्र इति वदितियथा जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र जातपुत्र-कृष्ण केशपदद्वयोपलक्षितावस्थाविशेषस्याग्न्याधानानुवादेन विधानमिति न वाक्यभेदस्तथेत्यर्थः । यज्ञादिपदैरित्यत्रादिपदाद् दानादिपदपरिग्रहः । यज्ञादिपदैरित्यस्योपलक्ष्येत्यनेनान्वयः । शतपथ विहितं शतपथ संज्ञक वेदशाखाविहितम् एवंभूतं यत् प्रसिद्धं कर्मसाम्राज्यं सदुपलक्ष्य- उपलक्षणन्यायेन तदवबोध्य तदेव कर्मसाम्राज्यं विविदिषादिफलोद्देशेन विधीयत इत्येतस्मात् करणाद् यज्ञेन दानेनेत्यादौ वाक्यभेदो न भवतीत्यर्थः । एवम् उक्तप्रकाराश्रयणे संभवत्समुच्चय उपपद्यते युज्यते । अनुष्ठितकर्मभिरन्तःकरणशुद्धौ प्रकारान्तरमावेदयति-यद्वेति । ईश्वरार्पणबुद्धयेति यत् किमपि कर्म मया क्रियते तदीश्वरस्यास्तु न तत्फलं किञ्चिदपि ममाभिलषितमित्येवं बुद्धत्यर्थः । ईश्वरार्पणबुद्धया कर्मानुष्ठेयमित्यत्र भगवद्गीतावचनं प्रमाणयति- “ यत् करोषि " इत्यादिस्मृतेरिति'यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥ १ ॥” इति सम्पूर्णपयम्, अनुष्ठित कर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते ' इति यत् प्रतिज्ञातं प्राक् तदुपसंहरतितेनेति । " नित्यविवेकादि " इत्यस्य स्थाने " नित्यानित्यविवेकादि " इति पाठो युक्तः । नित्यानित्यविवेकादिकं यत् साधनचतुष्टयं तस्य क्रमिकोद्भव-स्वरूपे क्रमेणोपदशयति- स चेति- अनन्तराभिहितचेत्यर्थः । नित्यानित्यविवेक इत्यस्य इत्येवमालोचनात्मक इत्यनेनान्वयः । " विमर्शाधिष्ठानम् " इत्यस्य स्थाने " विमर्शस्याधिष्ठानम् 66 ३३२ "

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274