________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः ।
1
66
}
यन्तःकरणशुद्धद्वारा विविदिषासिद्धिः । तथा च स्मृति:- " जपेनैव तु संसिद्धयेत् " [ इति, संभवति चाधिकारिविशेषस्य विविदिषाद्युद्देशेन वेदानुवचनाद्यनुष्ठानमिति । न च स्वर्गकामोऽग्निहोत्रवत् सकृदनुष्ठाननियमो यज्ञाद्यनुष्ठानस्यान्तःकरणशुद्धिपर्यन्तत्वात् तस्याश्च साधनचतुष्टयसंपत्तिगम्यत्वात्, तेन यस्य सकृदनुष्ठानादन्तः करणशुद्धिर्न तस्यावृत्तिरिति । अथवा जातपुत्र " इतिवत् यज्ञादिपदैः प्रसिद्धं शतपथविहितं कर्मसाम्राज्यमुपलक्ष्य विविदिषादिफलोद्देशेन विधीयत इति न वाक्यभेदः, संभवत्समुच्चयश्चैवमुपपद्यते । यद्वा ईश्वरार्पणबुद्ध्यानुष्ठितानां कर्मणामन्तःकरणशुद्धिः फलम्, “ यत् करोषि ” [ भगवद्गीता, अ. ९, लो. २७ ] इत्यादिस्मृतेः तेन सुष्ठुक्तम्- “कर्मभिः शुद्धान्तःकरणो ब्रह्मचारिण इत्येवं यज्ञानधिकारिणाम् । केवलेनापि यज्ञादिक्रियाविकलेनापि । यज्ञादिसमुच्चयमन्तराऽपि वेदानुवचनान्यतमेन विविदिषासिद्धौ स्मृतिं प्रमाणयति तथा च स्मृतिरिति- “ जपेनैव " इत्यस्य स्थाने " जप्येनैव " इत्यपि पाठः, " जप्येनैव तु संसिद्धयेद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १ ॥ " [ इति सम्पूर्ण वचनम्, मैत्र इत्यनेन मित्रस्य - सूर्यस्य गायत्रीमन्त्रजपेनाराधक इति बोध्यते । यदा चात्र सम्भवत्समुच्चय एव न तु नियमवत्समुच्चयस्तदाऽधिकार विशेषस्यैकैकवेदवचनाद्यनुष्ठानमपि युक्तमित्याह- संभवति चेति- अस्य वेदानुवचनाद्यनुष्ठानमित्यनेनान्वयः । नतु " स्वर्गकामोऽग्निहोत्रं जुहोति ” इत्यादावेकदाऽनुष्ठितेनाप्यग्निहोत्रेण स्वर्गफलसिद्धिः, तथा सकृदनुष्टितेन यज्ञादिना विविदिषाफलसिद्धिसम्भवे विविदिषाद्यर्थं सकृदेव यज्ञाद्यनुष्ठाननियमः सिद्धयेदित्यत आहन चेति- “स्वर्गकामोऽग्निहोत्रवत् " इत्यस्य स्थाने " स्वर्गकामानिहोत्रवत् " इति पाठो युक्तः, स्वर्गकामस्याग्निहोत्रे यथा सकृदनुष्ठाननियमस्तथा विविदिषाकामस्य यागादौ सकृदनुष्ठाननियम इति न चेत्यर्थः । यज्ञाद्यनुष्ठानं हि अन्तःकरणशुद्धिद्वारा विविदिषाजननसमर्थमिति अन्तःकरणशुद्धिर्यावन्न संपवैत तावद् भूयो यागाद्यनुष्ठानं कुर्यादेव, अन्तःकरणशुद्धिवार • निष्पत्त्यनन्तरं च न पुनर्यज्ञाद्यनुष्ठेयमिति निषेधहेतुमुपदर्शयति- यज्ञाद्यनुष्ठानस्येति । ननु यज्ञाद्यनुष्ठानं यद्यन्तःकरणशुद्धिकारणं तदा सकृदनुष्ठितेनापि यज्ञादिनाऽन्तःकरणशुद्धिजतिवेति किमर्थं भूयो यज्ञाद्यनुष्ठानमित्यत आह- तस्याश्चेतिअन्तःकरणशुद्धेश्चेत्यर्थः। साधनचतुष्टयसम्पत्तिगस्यत्वादिति - नित्यानित्यविवेक-विराग- शमदमादि-मुमुक्षेत्येवं साधनचतुष्टयं तस्य या संपत्तिस्तया गम्यत्वादित्यर्थः, साधनचतुष्टय सम्पन्नत्वादयं शुद्धान्तःकरण इत्यवगमोऽत्र ज्ञेयः तथा च साधनचतुष्टयगम्यान्तःकरणशुद्धिर्यावता यज्ञाद्यनुष्ठानेन भवति तावद् यज्ञायनुष्टानं विधेयमिति न तत्र सकृदनुष्ठानस्यासकृदनुष्ठानस्य वा नियम इति भावः । तेन यज्ञायनुष्ठानस्यान्तःकरण शुद्धिपर्यन्तत्वेन । यस्य विविदिषाकामस्य कस्यचित् पुरुषधौरेयस्य । तस्य सकृदनुष्ठानादन्तःकरणशुद्धिमतः पुरुषविशेषस्य । न आवृत्तिः नानेकवारं यज्ञाद्यनुष्ठानम् । प्रकारान्तरेण संभवत्समुचयोपपादनेन यज्ञेन दानेनेत्यादौ वाक्यभेदप्रसङ्गं वारयति - अथवेति । जातपुत्र इति वदितियथा जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र जातपुत्र-कृष्ण केशपदद्वयोपलक्षितावस्थाविशेषस्याग्न्याधानानुवादेन विधानमिति न वाक्यभेदस्तथेत्यर्थः । यज्ञादिपदैरित्यत्रादिपदाद् दानादिपदपरिग्रहः । यज्ञादिपदैरित्यस्योपलक्ष्येत्यनेनान्वयः ।
शतपथ विहितं शतपथ संज्ञक वेदशाखाविहितम् एवंभूतं यत् प्रसिद्धं कर्मसाम्राज्यं सदुपलक्ष्य- उपलक्षणन्यायेन तदवबोध्य तदेव कर्मसाम्राज्यं विविदिषादिफलोद्देशेन विधीयत इत्येतस्मात् करणाद् यज्ञेन दानेनेत्यादौ वाक्यभेदो न भवतीत्यर्थः । एवम् उक्तप्रकाराश्रयणे संभवत्समुच्चय उपपद्यते युज्यते । अनुष्ठितकर्मभिरन्तःकरणशुद्धौ प्रकारान्तरमावेदयति-यद्वेति । ईश्वरार्पणबुद्धयेति यत् किमपि कर्म मया क्रियते तदीश्वरस्यास्तु न तत्फलं किञ्चिदपि ममाभिलषितमित्येवं बुद्धत्यर्थः । ईश्वरार्पणबुद्धया कर्मानुष्ठेयमित्यत्र भगवद्गीतावचनं प्रमाणयति- “ यत् करोषि " इत्यादिस्मृतेरिति'यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥ १ ॥” इति सम्पूर्णपयम्, अनुष्ठित कर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते ' इति यत् प्रतिज्ञातं प्राक् तदुपसंहरतितेनेति । " नित्यविवेकादि " इत्यस्य स्थाने " नित्यानित्यविवेकादि " इति पाठो युक्तः । नित्यानित्यविवेकादिकं यत् साधनचतुष्टयं तस्य क्रमिकोद्भव-स्वरूपे क्रमेणोपदशयति- स चेति- अनन्तराभिहितचेत्यर्थः । नित्यानित्यविवेक इत्यस्य इत्येवमालोचनात्मक इत्यनेनान्वयः । " विमर्शाधिष्ठानम् " इत्यस्य स्थाने " विमर्शस्याधिष्ठानम्
66
३३२
"