________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
सङ्गवदेकस्य विविदिषन्तिपदस्य यज्ञेनेत्यादौ प्रत्येकमनुषङ्गादिह वाक्यभेदो विध्यावृत्तिलक्षणः । ] इत्यादिभिन्न
कथं तर्हि समुच्चयः ? उच्यते - " अरुणया क्रीणाति वा समाक्रीणाति ” [ वाक्य विहितानामपि सोमप्रात्यर्थानां क्रियाणामिव संभवत्समुच्चये यज्ञादीनां परिकल्पितान्तःकरणशुद्धिद्वाराणां भविष्यति, अरुणया इत्यादयो हि नियमविधयः, तत्र चार्थिकीतर निवृत्तिरिति ' अरुणाक्रयेणैव सोमं भावयेद् ' इत्यादिरर्थः फलितः, स च नित्यवत् समुच्चये नोपपद्यत इति संभवत्समुयोऽयम्, न चैवं दध्यादिषु कथं नायमित्याशङ्कनीयम्, तत्र होमनिष्पत्तेर्द्वारस्यैकेनैव सिद्धेः, "अरुणया " इत्यादौ तु क्रयविधैर्दृष्टार्थत्वादेकेनैव क्रमेणानतिसिद्धौ नियमविधित्ववत्, अन्यथा तु प्रत्येकावगतं नियमं कार्यानुरोधेन त्यक्त्वा वाक्यान्तरविहितक्रय सापेक्षत्वं पूर्वक्रयस्य कल्प्यत इति युक्तः संभवत्समुच्चयः, [ ]दिहापि यज्ञादीनामसौ युक्तः, अत एव यज्ञानधिकारिणां ब्रह्मचारिणां वेदानुवचनेन केवलेनाइति पाठ: समीचीनः, "क्रियाणामिव संभवत्समुच्चये " इत्यस्य स्थाने " क्रयाणामिव संभवत्समुच्चयो " इति पाठो युक्तः, संभवत्समुच्चय इत्यस्य भविष्यतीत्यनेनान्वयः । नियमविधयः अरुणचैव सोमं क्रीणाति, गवैव सोमं क्रीणातीत्येवंरूपा नियमविधयः । तत्र च नियमविधौ च । आर्थिकी अर्थात् प्राप्ता । इतरनिवृत्ति: अरुणेतरेण सोमकयो न कर्तव्यः, गोभिन्नेन सोमक्रयो न कर्तव्य इत्येवंरूपा । नियमविधौ कीदृशोऽर्थो भवतीत्यपेक्षायामाह - अरुणाकयेणैवेति । कथमत्र नित्यवत् समुच्चयो न येन संभवत्समुच्चय इत्युच्यत इत्यपेक्षायामाह ल चेति- अरुणाकयेणैव सोमं भावयेदित्यादिरर्थश्वेत्यर्थः अस्य नोपपद्यते इत्यनेनान्वयः, अन्या अरुणा अन्या च गौरिति नास्ति किन्तु यैव गौ: सैवारुणा यैवारुणा सेव गौरिति अरुणया क्रयणमेव गवा क्रयणं गवा क्रयणमेव चारुणया क्रयणमिति वस्तुगत्या समुच्चयो नास्तीति न नित्यवत् समुच्चय इत्युक्ोऽर्थो नित्यवत् समुच्चयेऽङ्गीक्रियमाणे नोपपद्यत इत्ययं समुच्चयः सम्भवत्समुच्चयः, संभाव्यते चैवं समुच्चय इति, विविदि पन्तीत्यत्र तु यद्यपि याग-दानादीनां भिन्नानां वस्तुतः समुच्चयोऽस्ति किन्तु पुरुषविशेषस्य कस्यचिद् यज्ञ- दानादिक्रियासमुचये सति विविदिषा भवति, कस्यचिद् यज्ञेनैव कस्यचिद् दानेनैव कस्यचित् तपसैवान्तःकरणशुद्धिद्वारा विविदिषा भवतीति न यज्ञादीनां समुच्चयो नित्यवत् किन्तु संभवत्समुच्चयः, यथा नीलं सरोजं भवत्येवेत्यत्र न सरोजत्वावच्छेदेन नीलं समस्ति श्वेतस्यापि सरोजस्य भावात् किन्तु किञ्चित् सरोजं नीलमपि भवतीति सरोजं संभवन्त्रीलम् एवं विविदिषामात्रस्य न यहादिसमुचयादेव भावः कस्याश्चिद् विविदिषाया एकेनापि यागेनान्तःकरणशुद्धिद्वारा भावात् किन्तु काचिद् विविदिषा यागादिसमुच्चयादेव भवतीति संभवत्समुच्चयोऽयमित्यर्थः । ननु दना जुहोति पयसा जुहोतीत्यादावपि एकहोमोद्देशेन दधि-पयआदिसमुच्चयस्य विधानमस्तु ततस्तत्रापि संभवत्समुचयः स्यादित्याशङ्कय प्रतिक्षिपति न चेति । एवं यथाऽरुणये त्यादौ संभवत्स मुनयस्तथा । कथं नायं कथं न संभवत्समुच्चयः । निषेधे हेतुमाह- तत्रेति दना जुहोतीत्यादावित्यर्थः ? | दधि- दुग्धादिद्रव्यस्वरूपस्य होमनिष्पत्तिद्वारा फलजनकत्वम्, होमनिष्पत्तिश्चैकेनापि दना पयसा वा संभवतीति न तत्र समुचयोऽवकल्प्यत इत्याह- होमनिष्पत्तेरिति । अरुणया गवा सोमं क्रीणातीत्यादौ तु नैवमित्याह- अरुणया इत्यादौ विति । दृष्टार्थत्वात् सोमलताप्राप्तिरूपदृष्टार्थत्वात् । एकेनैव क्रयेण अरुणया क्रयेण गवा क्रयेण वा क्रयेणानतिसिद्धौ " इत्यस्य स्थाने " क्रमेण तत्सिद्धौ " इति पाठो युक्तः, तत्सिद्धौ सोमलता प्राप्तिरूपदृष्टार्थसिद्धौ । नियमबिचित्वम् अरुणायेत्यादेर्नियमविधित्वम् अरुणयैव गवैव क्रयेणैव सोमं भावयेदित्येवं नियमार्थकविधित्वम् । अन्यथा तु नियमविधित्वाभावे तु । प्रत्येकावगतं नियमं अरुणया सोमं क्रीणाति गवा सोमं क्रीणातीत्येवं प्रत्येक वाक्यागतम्, अरुणयैव गवैवेत्येवं नियमं त्यक्त्वा कार्यानुरोधेन आरुण्यगोसमुच्चयेनैव क्रयेण सोमलतांप्राप्तिरूपं कार्यमिति तदनुरोधेन, वाक्यान्तरेति - गवा क्रीणातीति वाक्यान्तरविहितो यः क्रयस्तरसापेक्षत्वं पूर्वक्रयस्य अरुणया कीणातीति पूर्ववाक्यविहितक्रयस्य कल्प्यत इत्येतस्मात् कारणात् संभवत्समुच्चयोऽरुणयेत्यादौ युक्त इत्यर्थः । तद्वत् अरुणया क्रीणातीत्यादौ यथा संभवत्समुच्चयस्तथा । इहापि तमेतमित्यादावपि । असौ संभवत्समुच्चयः । अत एव तमेतमित्यादौ न नियमवत्समुचयः, किन्तु संभवत्समुच्चय इत्यभ्युपगमादेव । यज्ञानधिकारिणां सपत्नीकस्य गृहस्थस्यैव यज्ञादावधिकारो न पत्नीविकलस्य
6
"
३३१
ܕ