________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः।
३३३
नित्यविवेकादि लभते " इति । स च नित्यानित्यविवेकः- ' इदं सर्वमनित्यं दृष्ट-श्रुताभ्याम् , एतस्य विशर्माधिष्ठानं किञ्चिन्नित्यम्' इत्येवमालोचनात्मकः । तत ऐहिक-पारलौकिकफलेच्छाविरोधिचेतोवृत्तिविशेषात्मको विरागः । ततः शमादिषट्कम्-शम-दैम-उपरति-तितिक्षा-समाधान श्रद्धाः, अन्तःकरणनिग्रहः शमः, बाह्येन्द्रियनिग्रहो दमः, उपरतिः संन्यासः, द्वन्द्वसहिष्णुत्वं तितिक्षा, श्रवणादिप्रावण्यं समाधानम् , साम्प्रदायिक विश्वासः श्रद्धा । ततो मुमुक्षा-मोक्षेच्छा । तदेतत्साधनचतुष्टयं श्रवणाधिकारिविशेषणम् । यत्त मुमुक्षव तथा, काम्याधिकारे कामनाया एव निरपेक्षाधिकारनिमित्तत्वादिति, तन्नकाम्याधिकारे सामर्थ्यादेरप्यधिकारत्वात् । अथ कामनाऽर्थिकं सामर्थ्याचपेक्षते, न श्रुतमन्यत्, तत् कि इति पाठो युक्तः । दृष्ट-श्रुताभ्यामित्यत्र दृष्टपदेन लौकिकप्रत्यक्षादिप्रमाणस्य ग्रहणम् । इदं सर्वमनित्यं प्रत्यक्षादिप्रमाणेनावसीयते तथा “यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते " [ इत्यादिश्रुतप्रमाणेनाप्यवसीयते, " अपाम सोमममृता अभूम" [अ. शिरः ३. २.] इत्यादिश्रुतिश्च सोमलतादिपानजन्यफलस्य न नित्यत्वमवबोधयति, किन्तु चिरस्थितिकत्वमेव “आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ॥" [ ] इति वचनात् , एतस्य विमर्शस्य दृष्ट-श्रुताभ्यां प्रमाणाभ्यामुपजातस्येदं सर्वमनित्यमित्याकारकस्य विमर्शस्य विचारणास्वरूपज्ञानस्य, अधिष्ठानं यत्राय विचारः प्रादुर्भवति सर्वस्य शून्यत्वे निरधिष्ठानको विचारोऽपि न भवेदिति किञ्चिदधिष्ठान चैतन्यलक्षणमुपगन्तव्यम् , तच्च नित्यमिति, इत्येवमुक्तप्रकारेण यदालोचनं तदात्मको नित्यानित्यविवेक इत्यर्थः । विरागस्वरूप द्वितीयं साधनमुपदर्शयति-तत इति-निरुकनित्यानित्यविवेकत इत्यर्थः । ऐहिकेति-ऐतद्भविक पारलौकिकं च यत् फलं तदिच्छायास्तकामनाया विरोधी प्रतिबन्धको यश्चेतोवृत्तिविशेषोऽन्तःकरणपरिणामविशेषस्तदात्मको विराग इत्यर्थः । तृतीयं साधनस्वरूपमुपदर्शयति-तत इति-निरुक्तविरागत इत्यर्थः । शमादिषट्कमित्यत्रादिपदात् किं प्राह्यमित्यतस्तद् विशिष्योपदर्शयति-शम-दमेत्यादिना । शमादीनां विभक्तलक्षणमुपदर्शयति- अन्तःकरणनिग्रहः शाम इति-अन्तःकरणस्य मनसो यदनेकाकारपरिणमनरूपेण प्रतिक्षणमन्यान्यावस्थाविशेषस्तदनुत्पत्तिप्रयोजकयत्नविशेषोऽन्तःकरणनिग्रहः शम इत्यर्थः । बाह्येन्द्रियति- बाह्येन्द्रियाणां-चक्षुरादीनां निग्रहः- स्वस्वविषयप्रवृत्तिविरोधिप्रयत्नविशेषो दम इत्यर्थः। उपरतिरिति- सर्वाभ्यः क्रियाभ्यो विरमणलक्षणः संन्यास उपरतिरित्यर्थः। द्वन्द्वेति- सुख-दुःखशीतोष्णादिद्वन्द्वसहिष्णुत्वं तितिक्षेत्यर्थः। श्रवणेति-श्रवण-मनन-निदिध्यासनैकतानतालक्षणश्रवणादिप्रावण्यं समाधानमित्यर्थः । साम्प्रदायिक इति-आप्तपरम्परानुष्ठानगोचरे कर्मणि विश्वास इदमित्यमेव यथाऽऽप्तराचरितमिति चित्तपरिणामविशेषलक्षणो विश्वासः श्रद्धेत्यर्थः । चतुर्थ साधनमुपदर्शयति- तत इति- निरुवलक्षणश्रद्धातः । मोक्षविषयिणी येच्छा मुक्तोऽहं स्यामि त्याकारिका सैव मुमुक्षेत्यर्थः । उपसंहरति- तदेतदिति । मुमुक्षामात्रस्य श्रवणाधिकारिविशेषणत्वं पराभिप्रेतं प्रतिक्षेप्तुमुपदर्शयति- यत् त्विति। तथा श्रवणाधिकारिविशेषणम् । मोक्षेच्छयैव श्रवणादिकमाचरतीति श्रवणादिकं काम्यमतस्तदधिकार मोक्षकामनैवान्यानपेक्षा श्रवणाद्यधिकारे निमित्तत्वात् तद्विशेषणमित्याह- काम्याधिकारे इति । प्रतिक्षिपति-तन्नेति । नहि तत्तत्कर्मासमर्थस्तत्तत्कर्मण्यधिकारीति तत्तत्कर्मसामदेिरप्यधिकारिविशेषणत्वादिति प्रतिक्षेपहेतुमुपदर्शयति-काम्याधिकार इति । अधिकारत्वात् अधिकारिविशेषणत्वात् । शङ्कते- अथेति- सामर्थ्यमन्तरेण कामनया कर्म न भवतीत्यत
आर्थिकमर्थात् प्राप्तं सामादिकं कामनाऽपेक्षते, श्रुतं किञ्चिन्नापेक्षते कामनेति स्वातिरिक्तश्रुतानपेक्षत्वात् कामनाया एवाधिकारिविशेषगत्वमिति शङ्काऽर्थः, कामनाऽतिरिक्तस्य श्रुतस्य भावेऽपि तदपेक्षा नास्ति कामनायाः, आर्षिकस्य तु सामर्थ्यादेः श्रुतत्वाभावेऽपि लिङ्गप्रमाणगम्यस्यापेक्षा विद्यते कामनाया इत्यभ्युपगमे श्रुति-लिजयोर्मध्ये लिङ्गस्य प्राबल्यमभ्युपगतं स्यात् तच्च “श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानामुत्तरोत्तरदौर्बल्यात् पूर्वपूर्व बलीयः" [ जैमिनिसू० ३, ३, १४] इति मीमांसासिद्धान्तविरुद्धम् , तत्र समाख्या- नाम, नाम्ना च एकाकासालक्षणं स्थानं कल्प्यते- यदीमनेनाऽऽकाशितं न स्यात् कथमेतस्येदं नामेति, एकं यदन्यदाकाकुति तद् यदि तन्नाकाङ्केन तर्हि तयोरङ्गाङ्गिभावोऽवकल्पते इति स्थानादुभयाकाङ्कालक्षणं प्रकरणं कल्प्यते. प्रकरणेन चारबोधकवाक्यानिबोधकवाक्ययोरेकवाक्यतालक्षणवाक्यं परिकल्प्यते, तेन च सामर्यलक्षणं