________________
३३५
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः ।
श्रुति-लिङ्गयोर्लिङ्गं बलवत् , अपि च, एवं राजसूयादौ स्वराज्यकाममात्रस्य समर्थस्याधिकारः प्रसज्येत, अथ " राजसूयेन यजेत " इति [ ] श्रुतेर्बलीयस्त्वात् राजत्वमप्यधिकारिविशेषणं तत्रत्रापि विवेकादिकमपि श्रुतं किं ततो न तथा, युक्तेस्तुल्यत्वात् । अथ विवेकादीनि सर्वत्र सर्वाणि( न ) श्रयन्ते, किन्तु कचित् किश्चित् , ततश्चैकैकशाखावाक्यात् प्रसक्ता धीः सर्ववेदान्तप्रत्ययन्यायेन बाध्यते, मुमुक्षा तु सर्वशाखास्वबाधितेति सैवाश्रयणीयेति चेत् ? न- " विवेकवता श्रवणं कर्तव्यम् ” ।
] इत्याद्यकशाखावाक्यात् · अविवेकिनः श्रवणकर्तव्यता न' इत्यर्थात् प्रतीतावपि साधना. न्तरसम्पन्नस्य विवेकिनस्तदकर्तव्यत्वाप्रतीतेरर्थ समाजस्योक्तन्यायाबाध्यत्वात् , तस्मात् साधनचतुष्टयसंपन्न एव श्रवणाधिकारी । न चोपरतिशब्दवाच्यस्य संन्यासस्य श्रवणाधिकारत्वानुपपत्तिः, तस्य श्रवणाङ्गत्वे मानाभावात् , अज्ञानाङ्गत्वस्यैव न्यायत्वादित्याशङ्कनीयम् , श्रवणस्य दृष्टार्थत्वात् , दृष्टेनैवार्थलिङ्ग परिकल्प्यते, लिनेन च साक्षादङ्गानिमावबोधिका श्रुतिः परिकल्प्यते, तेन साक्षादङ्गाङ्गिभावबोधिका श्रुतिर्लिङ्गादितः प्रबलं प्रमाणम् , लिङ्गं च श्रुति कल्पयित्वाऽजाङ्गिभावबोधकमिति श्रत्यपेक्षया दुर्बलम् , लिङ्काच वाक्यं दुर्बलं यतो वाक्य लिङ्गश्रुती कल्पयित्वा तद्वारा प्रकाङ्गिभावबोधकम् , लिङ्गं तु श्रुतिमात्रं कल्पयित्वाऽङ्गाशिभावबोधकमिति, वाक्याच्च प्रकरणं दुर्बलम् , यावद्धि प्रकरण वाक्य-लिङ्ग-श्रुतिकल्पनेन तद्वाराऽझाङ्गिभावबोधकम् , तावद्वाक्यं लिङ्ग-श्रुती व एवं कल्पयित्वा तद्वाराऽजाङ्गिभावबोधकमिति, प्रकरणाच्च स्थानं दुर्बलं यावद्धि स्थानं प्रकराणादीनि चत्वारि प्रमाणानि कल्पयित्वाऽज्ञानिभावबोधकं तावत् प्रकरणं वाक्यादीनि त्रीप्येव प्रमाणानि कल्पयित्वा तद्वाराऽनाङ्गिभावबोधकांमति, एवं स्थानात् समाख्या प्रमाणं दुर्बलं यावत् समाख्याप्रमाणं स्थानादीनि पञ्च प्रमाणानि कल्पयित्वाऽङ्गाङ्गिभावबोधकं तावत् स्थान प्रकरणादीनि चत्वार्यव कल्पयित्वा तद्वाराऽङ्गाङ्गिभावबोधकमिति सोऽयं सिद्धान्तः श्रुतितो लिङ्गस्य प्राबल्याभ्युपगमे विरुद्धयेतेत्यर्थः। किञ्च यद्यार्थिक सामर्शमात्र कामनाऽपेक्षेत, तदा राजसूयादियागकरणसमर्थः स्वाराज्यकामो ब्राह्मणादिरपि राजसूयादावधिकारी प्रसज्येतेत्याह- अपि चेति । एवं कामनया सामथ्र्यमात्रस्यापेक्षणमित्युपगमे। पर आह-अथेति । श्रतेः श्रुतिप्रमाणस्य । बलीयस्त्वात् लिङ्गादिप्रमाणापेक्षया बलवत्त्वात् । राजत्वमपीत्यपिना कामना-सामर्थ्ययोर्ग्रहणम् । तहीति- यदि तत्वाद् राजसूयादौ राजत्वमधिकारिविशेषणं तदेत्यर्थः, अत्रापि तमेत वेदानुवचनेन ब्राह्मणा विविदिषन्ति यझेनेत्यादावपि । विवेकादिकमित्यत्रादिपदाद् विरागादेग्रहणम् । श्रुतं श्रुतिप्रमाणविषयः । ततः श्रुतिप्रमाणतः । किं न तथा किं नाधिकारिविशेषणम् । युक्तस्तुल्यत्वादिति- राजसूयादौ श्रुतत्वादेव राजस्वमधिकारिविशेषणं श्रुतत्वं च प्रकृते विवेकादेरपीत्येवं युक्तेः समानत्वादित्यर्थः । परः शङ्कते- अथेति- 'विवेकादीनि सर्वाणि सर्वत्र न श्रूयन्ते इत्यन्वयः पृच्छति-किन्त्विति । उत्तरयति- क्वचित् किञ्चिदिति- कस्याञ्चिच्छाखायां विवेकादीनां चतुर्णा मध्यादेकमेव श्रुतमित्यर्थः, ततश्च क्वचित् किञ्चिदेव श्रुतमित्येतस्माच्च । धीरित्यस्य बाध्यते इत्यनेनान्वयः, सर्ववेदान्तवाक्येषु विविदिषाकामनाया एवाधिकारिविशेषणतया प्रत्यय इति तेन प्रत्ययेन विवेकादीनां मध्यादेककस्याधिकारिविशेषणतया प्रतीतिरेकैक. शाखाचाक्यात् प्रसक्ता बाध्यत इत्यर्थः । मुमुक्षा विति- मुक्तीच्छा पुनः सर्वशाखास्वधिकारिविशेषणतया प्रतीयत इति तत्प्रतीतिरबाधितैवेत्यतः प्रकृते मुमुक्षवाधिकारिविशेषणतयाऽऽश्रयणीयेत्यर्थः । समाधत्ते-नेति । इत्यादीत्यत्रादिपदाद् विरागवता श्रवणं कर्तव्यं शमादिषदकवता श्रवणं कर्तव्यमित्यादिवाक्यस्योपग्रहः । अर्थात प्रतीतावपीति- अत्र " अविरागिणः श्रवणकर्तव्यता न" इति, "शमादिषदकरहितस्य श्रवणकर्तव्यता न" इत्यर्थात प्रतीतावपीत्यस्याप्युपलक्षणम् । साधनान्तरसम्पन्नस्य विरागादिसम्पन्नस्य । तदकर्तव्यत्वाप्रतीतेः श्रवणाकर्तव्यत्वाप्रतीतः । अर्थसमाजस्येतिविवेकिनः श्रवणं कर्तव्यं विरागिणः श्रवणे कर्तव्यं शमादिषट्कवतः श्रवणं कर्तव्यं मुमुक्षोः श्रवणं कर्तव्यमित्येवं विवेकित्वविरागित्व-शमादिषद्कवत्त्व-मुमुक्षावत्वसंवलनस्यार्थात् प्राप्तस्येत्यर्थः । उक्तन्यायेति- सर्ववेदान्तप्रत्ययन्यायेत्यर्थः । उपसंहरति-तस्मादिति- शमादिषट्कमध्यपतितस्योपरतिशब्दवाच्यस्य संन्यासस्य श्रवणाधिकारत्वानुपपत्तिमाशय प्रतिक्षिपतिन चेति- अस्य आशङ्कनीयमित्यनेनान्वयः। संन्यासस्य श्रवणाङ्गत्वे सति श्रवणाधिकारत्वं भवेत, श्रवणातत्व एव तु मान नास्तीति श्रवणाधिकारत्वानुपपत्तौ हेतुमुपदर्शयति-तस्येति- संन्यासस्येत्यर्थः । यथा हि श्रवणं मननादिद्वार!