Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 163
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सति मोक्षः, शुकादीनां मोक्षश्रवणं चार्थवाद इत्याद्यूयम् । ननु वस्तुनि विकल्पासंभवात् कथं परस्परविरुद्धमतप्रामाण्यम्, तस्मात् किमत्र हेयं किमुपादेयमिति चेत् ? क एवमाह वस्तुनि विकल्पो न ४. ३. २३. ] इत्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् । न च " सुषुप्तौ हिता नाम नाड्यः I ] इति नाडी सत्त्वप्रतिपादकवाक्यविरोधः, केन क्रमेण सुषुप्तौ भवतीत्यपेक्षायां "हिता नाम नाड्यो हृदयात् पुरीततमभि प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते " [ कौ. त. ४. १९ ] इत्यादिना सुषुप्यव्यवहितकाले क्रमोकये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि वाक्यान्तरविरोधात् प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तः । ननु " यत्रैष एतत्सुप्तोऽभूत् [ बृ० २ १. १६. ] इति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात् तत्कर्तृकैव प्राणादिसृष्टिर्न तु सुप्तोत्थितजीवकर्तृका, अन्यथाऽग्न्यूर्ण नाभादेस्तन्तुविस्फुलिङ्गादिजननोतिरत्रापि वाक्ये सर्वलोकसृष्टयुक्तिश्चाली कार्या स्यात् नहि दृष्टिसृष्टि पक्षे ऽग्न्यूर्णनाभादेस्तन्त्वा दिजनकत्वं सर्वलोक सृष्टिर्वाऽस्तीति चेत् ? न- यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेत्यस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः, अनन्तरवाक्ये क्वेष तदाभूदित्यत्र क्व-तदेति पदद्वयोपादानस्यैव विनिगमकत्वात्, यत्रेत्यनेन निर्देशे केति प्रश्नानुपपत्तेः, कालानिर्देशे 'च तदेति प्रतिनिर्देशानुपपत्तेः, भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथाव्याख्यानात् ऊर्णनाभादेस्तत्वादिजन्योत्पत्तिस्तु लौकिकश्रमसिद्धकार्यकारणभाव प्रसिद्धिमनुरुध्य, सर्वलोकादिसृष्टिश्च तत्तदृष्टिव्यक्तिमभिप्रेत्य यदा यत् पश्यति तत्समकाल तत् सृजतीत्यत्र तात्पर्यात् । न चाविद्या सहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः, जगदुपादानस्याज्ञानस्य विचित्रशक्तिकत्वात्, उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकरुपलतिकादावभिहितम्, वासिष्ट वार्तिकामृतादावाकरे स्पष्टमेवोक्तं- यथा “ अविद्यायोनयो भावाः सर्वेऽमी बुद्बुदा इव । क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ॥ १ ॥ " इत्यादि, तस्माद् ब्रह्मातिरिक्तं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातीतिकरवं सर्वस्येति सिद्धम्, 'रज्जुसर्पादिवद् विश्वं नाज्ञातं सदिति स्थितम् । प्रबुद्धदृष्टिसृष्टित्वात् सुषुप्तौ च लयश्रुतेः ॥ १ ॥” [ ] इति । 61 दृष्टिसृष्टिवादे वादान्तरतो विशेषमुपदर्शयति- अस्मिँश्च पक्षे इति । " जीव एवेश्वरज्ञान " इत्यस्य स्थाने ' जीव एवेश्वराज्ञान' इति पाठो युक्तः, ईश्वरविषयकं यदज्ञानं जीवस्य तद्वशात् तत्सहकाराज्जीव एव जगत उपादानकारणं निमित्तकारणं चेत्यर्थः । वादान्तरे कस्यचित् प्रातीतिकं सत्त्वं कस्यचिद् व्यावहारिकं सत्त्वं ब्रह्मव्यतिरिक्तस्य, दृष्टिसृष्टिवादे तु ब्रह्मव्यतिरिक्तस्य सर्वस्य प्रातीतिकसत्स्वमेवेत्याह- दृश्यं वेति । दृष्टिसृष्टिवादे ययेक एव जीवस्तदा जीवभेद उपलभ्यमानः कथमुपपद्यतामित्यपेक्षायामाह - देहभेदादिति वस्तुतो जीव एक एव, देहभेदात् तद्भेदोपलम्भस्तु भ्रमरूपस्वान्न जीवभेदसाधने प्रभुरित्यर्थः । अस्मिन् मते एकस्य जीवस्यात्मसाक्षात्कारे सति मोक्षो यदा भविष्यति तदैव स मोक्षः सर्वजीवमोक्षात्मकः, न त्विदानीं पर्यन्तं कस्यापि मुक्तिरुपजाता, शुकादीनां मोक्षप्रतिपादनमर्थवादमात्रमुपदर्शयतिएकस्यैवेति- अस्य मोक्ष इत्यनेन सम्बन्धः, स्वेन कल्पितो यो गुरुः शास्त्रादिश्च तदुपबृंहितस्तदुपष्टम्भेन जनितो यः स्वस्यैव ब्रह्मस्वरूपस्य श्रवण-मननादिः, आदिपदानिदिध्यासनापरिग्रहः, तस्य दाद- भूयो भूयोऽभ्यासादात्मसाक्षा त्कारे - परब्रह्मात्मकत्वसाक्षात्कारे सति एकस्यैव जीवस्य मोक्षो भवति, एवकारेण जीवान्तरस्याभावान्न मोक्ष इत्यावेदितम् । नन्वेवं यद्येक एव जीवोऽतस्तस्यैव मोक्षस्तर्हि शुक्र- वामनादीनां शास्त्रे मोक्षप्रतिपादनं विरुद्धयत इत्यत आह- शुकादीनामिति । अर्थवादः प्रशंसामात्रम् । तदेवं ब्रह्माद्वैतवादे वेदान्ते जीवेश्वर विभागव्यवस्था अवान्तरमतभेद निबन्धना बहुधोपदर्शिता, वस्तुनि विकल्पासम्भवात् तत्र कश्चिदेक एव प्रकारो युज्यते, अन्ये प्रकारास्तु कल्पनामात्रनिबन्धना न प्रमाणवीथीम - तरन्ति, योऽप्येकप्रकारो वस्तुभूतः सोऽपि विरुद्धपक्षसमाहारान्तर्गतोऽनिर्धारितस्वरूप एव न चैतेषां परस्परविरुद्ध प्रकाराणां प्रामाण्यमात्मसात्कर्तुं शक्यमतः कस्यानोपादानं कस्य परित्यागो वा न्याय्य इति सन्दिहानस्तटस्थः शङ्कते - नन्विति । तस्मात् प्रकारभेदकल्पना लक्षणविकल्पासम्भवप्रयुक्तवस्तुविषयक परस्परविरुद्ध मतप्रामाण्याभावात् । अत्र दर्शितमतेषु । किं द्देयं किं मतं नोपादेयम्, किमुपादेयं किं मतं स्वीकरणीयम् । उत्तरयति-क एवमाहेति वस्तुनि विकल्पो न संभवतीत्येवं क आहेति, काक्का न कोऽप्येवं कथयतीति । ततः किं वस्तुनि विकल्पः सम्भवतीत्यपेक्षायामाह - स्थाणुर्वेतिएकस्मिन्नपि वस्तुनि ' अयं स्थाणुर्वा स्यादयं पुरुषो वा भवेदयं किमु राक्षसः' इत्यादिविकल्पानां प्रवृत्तेर्दर्शनादित्यर्थः । Yo THERE ARE ३१३ "

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274