Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 169
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । भूतोत्पत्तौ केषाश्चिन्मते तेभ्य एव पश्चीकृतभूतोत्पत्तौ संप्रदायमते च तेषामेव संयोगविशेषावस्थानां तत्त्वस्वीकारे तेभ्यो ब्रह्माण्डभूधरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तेः, अत एव सिद्धाभिधानात्. ___“तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा । मनो विमर्शरूपं स्याद् बुद्धिः स्यान्निश्चयात्मिका ॥” सत्त्वांशानां प्रत्येकमसाधारणकार्याण्यभिधाय सर्वेषां साधारणं कार्यमाह- तैरिति-तैः सह- सत्त्वांशैः सर्वैः सम्भूय वर्तमानरन्तःकरणबद्धयपादानभतं द्रव्यमपजायत इत्यनुषङ्गः, तस्यावान्तरभेदं सनिमित्तमाह-वृत्तीति भेदन- परिणामभेदेन, द्विधा - द्विप्रकारं भवति, वृत्तिभेदमेव दर्शयति- मन इति-विमर्शरूपं- विमर्शः संशयात्मिका वृत्तिः सा स्वरूपं यस्य तत् तथा, तन्मनः स्यात् , निश्चयात्मिका - निश्चयोऽव्यवसायः स आत्मा स्वरूपं यस्याः सा निश्चयात्मिका वृत्तिर्बुद्धिः स्यात् ॥ “ रजोंशः पञ्चभिस्तेषां कमात् कर्मेन्द्रियाणि तु । वाक्-पाणि-पाद-पायूपस्थाभिधानानि जज्ञिरे ॥" क्रमप्राप्तानां रजोंऽशानां प्रत्येकमसाधारणकार्याण्याह-रजोंशैरिति- तेषां-वियदादीनामेव, पञ्चभी रजोश:- रजोभागेस्तूपादानभूतः, वाक्-पाणि पाद पायूपस्थाभिधानानि- एतन्नामकानि, कौन्द्रियाणि- क्रियाजनकानि इन्द्रियाणि "तेः सर्वैः सहितः प्राणो वृत्तिभेदात् स पञ्चधा । प्राणोऽपान: समानश्चोदान-ध्यानौ च ते पुनः ॥" रजोशानामेवं साधारण कार्यमाह-तैः सर्वैरिति - साहितैः सम्भूय कारणतां गतः, प्राणो जायत इति शेषः, तस्यावान्तर. भेदमाह-वृत्तिभेदादिति- स प्राणो वृत्तिभेदात् प्राणादिव्यापारभेदात् पञ्चधा- पञ्चप्रकारको भवति, वृत्तिभेदानेव दर्शयतिप्राण इति, ते पुन:-ते तु भेदाः प्राणादिशब्दवाच्या इत्यर्थः ।। __“बुद्धि-कर्मेन्द्रिय-प्राणपञ्चकर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्म तलिङ्गमुच्यते ॥" यदर्थमाकाशादिप्राणान्तानां सृष्टिरुक्ता तदिदानी दर्शयति- बुद्धीति- बुद्धयो ज्ञानानि कर्माणि व्यापारास्तजनकानीन्द्रियाणि बद्धीन्द्रियाणि कर्मेन्द्रियाणि वेत्यर्थः बुद्धिकर्मेन्द्रियाणि च प्राणश्च बुद्धिकौन्द्रियप्राणास्तेषां पञ्चकानि तैः, मनसाविमर्शात्मकेन, धिया-निश्चयरूपया बुद्धया च सह, सप्तदशभिः-सप्तदशसंख्यकैः, सूक्ष्मशरीरं भवति, तस्यैव संज्ञान्तरमाहतल्लिमिति, उच्यते-वेदान्तेष्वित्यर्थः ॥ एवं च पञ्चज्ञानेन्द्रिय पञ्चकर्मेन्द्रिय-पञ्चप्राण-मनो-बुद्धयेतत्सप्तदशसमष्टयात्मकलिङ्गशरीरात्मकापञ्चीकृतभूतोसत्तावित्यर्थः । केषाश्चिन्यते केषाञ्चिद् वेदान्तिप्रकाण्डानामाचार्याणां मते, एभ्य एव आकाशादिपञ्च सूक्ष्मभूतेभ्य एव, पञ्चीकृतभूतोत्पत्ताविति- एतत्तत्त्वप्रतिपादकं तत्त्वविवेकप्रकरणस्थं पद्यद्वयं क्रमेण वृत्तिसनाथमुपदर्यते “तद्भोगाय पुनर्नोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येक वियदादिकम् ॥१॥" एवं लिङ्गशरीरं तदुपाधिको तैजस-हिरण्यगभौं च दर्शयित्वा स्थूलशरीरायुत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाहतद्भोगायेति-भगवान् -ऐश्वर्यादिगुणषद्कसम्पन्नः परमेश्वरः, पुन:-पुनरपि, तद्भोगाय-तेषां जीवानां भोगायैव, भोग्यभोगायतनजन्मने- मोग्यस्यान्नानादेः, भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूतपञ्चकं प्रत्येकमेकक पञ्चीकरोति अपञ्चात्मक पञ्चात्मकं संपद्यमानं करोति ! "द्विधा विधाय चैकैकं चतुर्धा प्रथम पुनः । स्वस्वेतरद्वितीयांशोजनात् पञ्च पञ्च ते ॥" कथमेकैकस्य पञ्चपञ्चाकत्वमित्यत आह-द्विधेति- वियदादिकमेकैकं द्विधा द्विधा, तन्त्रेणोच्चारितो द्विधाशब्दः, विधायकृत्वा, भागद्वयोपेतं कृत्वेत्यर्थः पुनश्च-पुनरपि, प्रथम - प्रथमभागम् , चतुर्धा-भागचतुष्टयोपेतं विधायेत्यनुषज्यते. स्वस्वेतर. द्वितीयांशैः- स्वस्मात् स्वस्मादितरेषां चतुर्णा चतुर्णा भूतानां यो यो द्वितीयः स्थूलो भागस्तेन तेन सह प्रथमप्रथमभागांशानां चतुणी चतुर्णा मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्चात्मका भवन्तीति ।। इत्थं पञ्चीकृतभूतोत्पत्तापित्यर्थः। संप्रदायमते च प्राचीनवेदान्तिमते पुनः । तेषामेव अपञ्चीकृतानामाकाशादिपञ्च, भूतानामेव । संयोगविशेषावस्थानां संयोगविशेषान्वितानाम् । तस्वस्वीकारे पञ्चमहाभूतत्वस्वीकारे । तेभ्यः पञ्चमहाभूतेभ्यः । ब्रह्माण्डेति- एतत्प्रतिपादकं तत्त्वविवेकगतपद्यं सविवरणं यथा-- " तैरण्ड स्तत्र भुवन भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥"

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274