________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
भूतोत्पत्तौ केषाश्चिन्मते तेभ्य एव पश्चीकृतभूतोत्पत्तौ संप्रदायमते च तेषामेव संयोगविशेषावस्थानां तत्त्वस्वीकारे तेभ्यो ब्रह्माण्डभूधरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तेः, अत एव सिद्धाभिधानात्.
___“तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा । मनो विमर्शरूपं स्याद् बुद्धिः स्यान्निश्चयात्मिका ॥”
सत्त्वांशानां प्रत्येकमसाधारणकार्याण्यभिधाय सर्वेषां साधारणं कार्यमाह- तैरिति-तैः सह- सत्त्वांशैः सर्वैः सम्भूय वर्तमानरन्तःकरणबद्धयपादानभतं द्रव्यमपजायत इत्यनुषङ्गः, तस्यावान्तरभेदं सनिमित्तमाह-वृत्तीति भेदन- परिणामभेदेन, द्विधा - द्विप्रकारं भवति, वृत्तिभेदमेव दर्शयति- मन इति-विमर्शरूपं- विमर्शः संशयात्मिका वृत्तिः सा स्वरूपं यस्य तत् तथा, तन्मनः स्यात् , निश्चयात्मिका - निश्चयोऽव्यवसायः स आत्मा स्वरूपं यस्याः सा निश्चयात्मिका वृत्तिर्बुद्धिः स्यात् ॥
“ रजोंशः पञ्चभिस्तेषां कमात् कर्मेन्द्रियाणि तु । वाक्-पाणि-पाद-पायूपस्थाभिधानानि जज्ञिरे ॥" क्रमप्राप्तानां रजोंऽशानां प्रत्येकमसाधारणकार्याण्याह-रजोंशैरिति- तेषां-वियदादीनामेव, पञ्चभी रजोश:- रजोभागेस्तूपादानभूतः, वाक्-पाणि पाद पायूपस्थाभिधानानि- एतन्नामकानि, कौन्द्रियाणि- क्रियाजनकानि इन्द्रियाणि
"तेः सर्वैः सहितः प्राणो वृत्तिभेदात् स पञ्चधा । प्राणोऽपान: समानश्चोदान-ध्यानौ च ते पुनः ॥" रजोशानामेवं साधारण कार्यमाह-तैः सर्वैरिति - साहितैः सम्भूय कारणतां गतः, प्राणो जायत इति शेषः, तस्यावान्तर. भेदमाह-वृत्तिभेदादिति- स प्राणो वृत्तिभेदात् प्राणादिव्यापारभेदात् पञ्चधा- पञ्चप्रकारको भवति, वृत्तिभेदानेव दर्शयतिप्राण इति, ते पुन:-ते तु भेदाः प्राणादिशब्दवाच्या इत्यर्थः ।।
__“बुद्धि-कर्मेन्द्रिय-प्राणपञ्चकर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्म तलिङ्गमुच्यते ॥"
यदर्थमाकाशादिप्राणान्तानां सृष्टिरुक्ता तदिदानी दर्शयति- बुद्धीति- बुद्धयो ज्ञानानि कर्माणि व्यापारास्तजनकानीन्द्रियाणि बद्धीन्द्रियाणि कर्मेन्द्रियाणि वेत्यर्थः बुद्धिकर्मेन्द्रियाणि च प्राणश्च बुद्धिकौन्द्रियप्राणास्तेषां पञ्चकानि तैः, मनसाविमर्शात्मकेन, धिया-निश्चयरूपया बुद्धया च सह, सप्तदशभिः-सप्तदशसंख्यकैः, सूक्ष्मशरीरं भवति, तस्यैव संज्ञान्तरमाहतल्लिमिति, उच्यते-वेदान्तेष्वित्यर्थः ॥
एवं च पञ्चज्ञानेन्द्रिय पञ्चकर्मेन्द्रिय-पञ्चप्राण-मनो-बुद्धयेतत्सप्तदशसमष्टयात्मकलिङ्गशरीरात्मकापञ्चीकृतभूतोसत्तावित्यर्थः । केषाश्चिन्यते केषाञ्चिद् वेदान्तिप्रकाण्डानामाचार्याणां मते, एभ्य एव आकाशादिपञ्च सूक्ष्मभूतेभ्य एव, पञ्चीकृतभूतोत्पत्ताविति- एतत्तत्त्वप्रतिपादकं तत्त्वविवेकप्रकरणस्थं पद्यद्वयं क्रमेण वृत्तिसनाथमुपदर्यते
“तद्भोगाय पुनर्नोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येक वियदादिकम् ॥१॥" एवं लिङ्गशरीरं तदुपाधिको तैजस-हिरण्यगभौं च दर्शयित्वा स्थूलशरीरायुत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाहतद्भोगायेति-भगवान् -ऐश्वर्यादिगुणषद्कसम्पन्नः परमेश्वरः, पुन:-पुनरपि, तद्भोगाय-तेषां जीवानां भोगायैव, भोग्यभोगायतनजन्मने- मोग्यस्यान्नानादेः, भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूतपञ्चकं प्रत्येकमेकक पञ्चीकरोति अपञ्चात्मक पञ्चात्मकं संपद्यमानं करोति !
"द्विधा विधाय चैकैकं चतुर्धा प्रथम पुनः । स्वस्वेतरद्वितीयांशोजनात् पञ्च पञ्च ते ॥" कथमेकैकस्य पञ्चपञ्चाकत्वमित्यत आह-द्विधेति- वियदादिकमेकैकं द्विधा द्विधा, तन्त्रेणोच्चारितो द्विधाशब्दः, विधायकृत्वा, भागद्वयोपेतं कृत्वेत्यर्थः पुनश्च-पुनरपि, प्रथम - प्रथमभागम् , चतुर्धा-भागचतुष्टयोपेतं विधायेत्यनुषज्यते. स्वस्वेतर. द्वितीयांशैः- स्वस्मात् स्वस्मादितरेषां चतुर्णा चतुर्णा भूतानां यो यो द्वितीयः स्थूलो भागस्तेन तेन सह प्रथमप्रथमभागांशानां चतुणी चतुर्णा मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्चात्मका भवन्तीति ।।
इत्थं पञ्चीकृतभूतोत्पत्तापित्यर्थः। संप्रदायमते च प्राचीनवेदान्तिमते पुनः । तेषामेव अपञ्चीकृतानामाकाशादिपञ्च, भूतानामेव । संयोगविशेषावस्थानां संयोगविशेषान्वितानाम् । तस्वस्वीकारे पञ्चमहाभूतत्वस्वीकारे । तेभ्यः पञ्चमहाभूतेभ्यः । ब्रह्माण्डेति- एतत्प्रतिपादकं तत्त्वविवेकगतपद्यं सविवरणं यथा--
" तैरण्ड स्तत्र भुवन भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥"