________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः ।
( धानम् ), अथ कथमेतस्य निवृत्तिरिति चेत् ? शृणु - कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति, काम्यत्वे सति कथमध्ययनविधेर्नित्यत्वमिति चेत् ? काम्यत्वेऽपि धर्मा ( अर्था )वबोधफलकत्वेन फलतो नित्यत्वस्याबाधात्, एतच्च मीमांसकमतेनोच्यते, स्वमते स्ववाप्तिफलकत्वेन फलतो नित्यत्वमध्ययनस्य, अहरहः कर्तव्यब्रह्मयज्ञाद्यर्थतयाऽवाप्तेरावश्यकत्वात् । अध्ययनविधेर्हि फलाकाङ्क्षायां निरतिशय सुखात्मकोऽपि स्वर्गे यथा न फलम्, अदृष्टत्वात् एवं दृष्टोऽप्यर्थावबोधो न फलम्, अनन्तरादृष्टत्वादश्रुतत्वाच अवाप्तिवनन्तर दृष्टश्रुता च फलत्वेन संबध्येत्, यथाहि फलाकाङ्क्षायां दृष्टे सति नादृष्टं कल्प्यम् एवमनन्तरदृष्टे सति न व्यवहितदृष्टुं कल्प्यम् श्रुते च सति नाश्रुतं कल्प्यम्, अर्थावबोधवादिनाप्यवाप्तेरङ्गीकारात्,
३२०
एवं पञ्चीकरणमभिधाय तैर्भूतैरुपायं कार्यवर्ग दर्शयति तैरण्ड इति तैः पञ्चीकृतैर्भूतैरुपादानकारणभूतैः, अण्डोब्रह्माण्ड उत्पद्यते, तत्र ब्रह्माण्डान्तर्भुवनान्युपरिभागे वर्तमाना भूम्यादयः सप्त लोकाः, भूमेरधः स्थितान्यतलादीनि सप्त पातालान्तानि, तेषु च भुवनेषु तैस्तैः प्राणिभिर्भोक्तुं योग्यान्यन्नादीनि तत्तल्लोकोचितशरीराणि च तैरेव पञ्चीकृतैर्भूतैरीश्वराज्ञया जायन्ते, एवं स्थूलशरीरमभिधाय तेषु स्थूलशरीरेषु अभिमानवतो हिरण्यगर्भस्य समष्टिरूपस्य वैश्वानरसंज्ञकत्वम् एकैकस्थूलशरीराभिमानवतां व्यष्टिरूपार्णा तैजसानां विश्वसंज्ञकत्वं च भवतीत्याह - हिरण्यगर्भ इति - अस्मिन् स्थूलशरीरे वर्तमानो हिरण्यगर्भो वैश्वानरो भवेदिति ॥
64
अत एव अन्योऽन्याध्यासाचिदचिद्रन्थिरूपस्याभ्यासस्य संसारस्वरूपत्वादेव | सिद्धाभिधानमित्यत्र ब्रह्माण्डेत्यादिषष्ट्यन्तस्यान्वयः अत एवेत्यस्य च हेतुतयाऽन्वयः सिद्धाभिधानमित्यस्य सिद्धवदभिधानमित्यर्थः, यत एव संसारो निरुक्ताभ्यासस्वरूपस्तत एव तदन्तर्वर्तिनां ब्रह्माण्डादीनामुत्पत्तेरभिधानं सिद्धवदेव, न तत्र कोशाद्यभिहिते कथमित्थमित्यायाकाङ्क्षोत्थानम्, अन्योऽन्याध्यासात्मके संसारे सुव्यवस्थिते तदन्तर्गतस्याशेषस्याप्यन्योऽन्याध्यासरूपस्य सुव्यवस्थितत्वमेवेत्याशयः इत्थमपञ्चीकृत पश्चीकृत भूतादिमयचिदचिद्रन्थिस्वरूपान्योऽन्याध्यासलक्षणसंसारस्य क्रमिकोत्पत्तिमभिधाय निवृत्तिमभिधातुकामस्तत्र परपृच्छामुपन्यस्यति - अथेति - अस्य संसारोत्पत्तिनिरूपणानन्तरमित्यर्थः । एतस्य अनन्तराभिहितस्वरूपस्य संसारस्य । कथमित्याक्षेपे, प्रवाहतोऽनादिभूतस्य संसारस्य सहसैव निवृत्तिर्न सम्भावनापथमुपयातीति प्रष्टुरभि - सन्धिः । उत्तरयति - पिवति । मुक्तिकारणब्रह्मतत्त्वसाक्षात्कारेच्छया मुमुक्षुरध्ययनमनुतिष्ठतीत्यध्ययनविधेः काम्यत्वे सति कथं नित्यत्वं नित्यत्व- काम्यस्वयोर्विरोधादिति नित्याध्ययनविधिनेत्युक्तिर्न सङ्गतिमङ्गतीति शङ्कते - काम्यत्वे सतीति । स्वाध्यायोsध्येतव्यः " [ ] इत्यध्ययनविधिरध्ययनस्यैव कर्तव्यश्वमनुशास्तीति शब्दात्मकवेदस्वरूपाभ्यसनलक्षणाध्ययनेच्छया स्वाध्यायाध्ययनकरणे तस्य काम्यत्वेऽपि ततोऽर्थावबोधोऽवश्यम्भावीति तदात्मकफलापेक्षया स्वाध्यायाध्ययनविधेर्नित्यस्यापि सम्भवादपेक्षाभेदेन काम्यत्व नित्यस्वयोर्विरोधाभावादित्याशयेनोत्तरयति - काम्यत्वेऽपीति । अर्थावबोधफलकत्वेन फलतो नित्यत्वमध्ययनविधेः पूर्वमीमांसामते नोकमित्याह- एतच्चेति । मीमांसकमतेन पूर्वमीमांसाभ्युपगन्तृमतेन । स्वमते उत्तरमीमांसाभ्युपगन्तृवेदान्तिमते तु पुनः अवाप्तिफलकत्वेनेति- अवाप्तिस्वरूपमधे व्यक्ती - भविष्यति । अध्ययनविधेरवाप्तिफलकत्वं तदा स्याद् यद्यध्यनादवाप्तिः स्यात् तस्यास्त्वनर्थिकाया अनावश्यकत्वमेवेत्यत आह- अहरहः कर्तव्येति - अहरहः कर्तव्यं यद् ब्रह्मयज्ञादि तदर्थतया तत्प्रयोजनकत्वेन अवाप्तेर्वक्ष्यमाणस्वरूपायाः आवश्यकत्वात्- अवश्यमभ्युपगन्तव्यत्वादित्यर्थः । अवाप्तेरध्ययनविधिफलत्वं व्यवस्थापयति- अध्ययनविधेर्हीति । फलाकाङ्क्षायां किमर्थमध्ययनं कर्तव्यमित्याकाङ्क्षायाम् । स्वर्गस्याध्ययनफलत्वाभावे हेतुमाह- अदृष्टत्वादिति । अर्थावबोधस्याध्ययनविधिफलत्वाभावे हेतुद्वयमुपदर्शयति- अनन्तरादृष्टत्वादश्रुतत्वाच्चेति । अनन्तरदृष्टत्वाच्छ्रुतत्वाच्चावाप्तेरध्ययनविधिफलत्वं निगमयति- अवाप्तिस्त्विति । निरतिशय सुखात्मकत्वेन फलान्तरतो वैशिष्ट्यमनुभवतोऽपि स्वर्गस्य कथमदृष्टत्वान्न फलत्वं, कथं वा दृष्टस्याप्यर्थावबोधस्यानन्तरादृष्टत्वादश्रुतत्वाच्च न फलत्वमित्याकाङ्क्षानिवृत्तये त्वाह- यथा द्वीति । ariharःस्वीकरणीयेत्याह- अर्थावबोधवादिनाऽपीति- अध्ययनविधेरर्थावबोधः फलमित्यभ्युपगन्त्रा मीमांसके