________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
t
तन्मतेऽपि " पुरोहितं वृणीत " [ ] इत्यत्र वर संस्कृतेन पुरोहितेनेष्टं भावयेदितिवत् " स्वाध्यायोऽध्येतव्यः " [ तैत्तरीयारण्यक, २. २५] इत्यत्रापि अध्ययन संस्कृतेन स्वाध्यायेनार्थावदोषं भावयेदिति वाक्यार्थस्याभ्युपगमात् ' संस्कारश्वावाप्तिः' इत्यावश्यकमस्याः, किन क्षत्रियस्य निषादेट्यादिवाक्याध्ययने अर्थावबोधफलाभावादवाप्तिरेव फलत्वेनाश्रयणीया, तस्मादध्ययनविधेः सर्वत्रावाप्तिरेव फलमिति युक्तम् । अथ केयमापातता ? उच्यते - वेदान्तजन्यज्ञानस्य निस्सामान्यविशेषब्रह्मावधारणरूपस्यापि संशयाविरोधितैव सा च दोषविशेषसाचिव्येन समानप्रकारकसमान विशेष्यकनिश्चयत्वेनापि [ संभवति ], संशयप्रतिबन्धकत्वस्यापि घटवद् भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयाप्रतिबन्धकत्वेन वक्तुमशक्यत्वात् सति दोषविशेषे निश्चितेऽपि संशयोत्पत्तेः, असति नाऽपीत्यर्थः । अवाप्तिमीमांसकेनाङ्गीक्रियते इत्युपपादयति तन्मतेऽपीति- मीमांसकमतेऽपीत्यर्थः । वर संस्कृतेनेत्यस्य वरणसंस्कृतेनेत्यर्थः, वरणं वर इति व्युत्पत्तेः ' त्वं मे कर्तव्यकर्मणि पुरोहितो भूयाः' इत्येवं यस्य वरणं तेनैव वरणसंस्कृतेन पुरोहितेनेष्टस्य करणे सति फलमधिगच्छति यजमानो न वरणसंस्काररहितेनेत्येतदर्थं भावयितुं पुरोहितं वृणीतेत्यस्यार्थ आविष्कृतो वरसंस्कृतेनेत्यादिवचनेन । नन्वेवं संस्कारस्यावश्यकत्वं नावाप्तेरित्यत आह- संस्कारश्वावाप्तिरिति । " इत्यावश्यकमस्याः इत्यस्य स्थाने " इत्यावश्यकत्वमस्याः " इति पाठो युक्तः अस्याः अवाप्तेः । अवाप्तेः फलत्वे युक्त्यन्तरमुपदर्शयति- किञ्चेति, निषादेष्यादीति- “निषादस्थपतिं याजयेत् ” [ ] इत्यत्र निषादश्चासौ स्थपतिस्तं याजयेदित्येवं कर्मधारय समास एवं लाघवादाश्रितः, न तु निषादानां स्थपतिर्निषादस्थपतिस्तं याजयेदित्येवं तत्पुरुषसमासोऽभ्युपगतः, एवं च निषादेष्टयुपयुक्तपदार्थावबोधकफलकं वेदवाक्यं सङ्करजातिविशेषेण निषादेनैवाध्येतव्यम्, क्षत्रियस्य निषादेष्टयनधिकारिणो न निषादेष्ट्युपयुक्तार्थावबोधफलमुपादेयमिति तत्फलकवाक्याध्ययनं न कर्तव्यं भवेत्, अवाप्तिफलाभ्युपगमे तु ब्राह्मण-क्षत्रिय-वैश्यलक्षणत्रैवर्णिकस्यैव वेदाध्ययनाधिकारतो वेदाध्ययनतः संस्कृताः सर्वेऽपि त्रैवर्णिका भवन्तीति संस्कारविशेषलक्षणावाप्तिः क्षत्रियस्यापीष्टति तदर्थं क्षत्रियस्यापि निषादेष्ट्यादिवाक्याध्ययनं कर्तव्यकक्षा मचतीति । उपसंहरतितस्मादिति । एतावता नित्याध्ययनविधिनेत्यत्र नित्यत्वं यदध्ययनविशेषणमुक्तं तदुपपादितम् इदानीं साङ्गाध्ययनबलादू वेदान्तवाक्यानामापाततोऽर्थ मधिगच्छतीत्यत्रार्थाधिगमे आपातत इति यद् विशेषणं तत्स्वरूपमजानानः पृच्छति - अथ केयमापाततेति । उत्तरयति उच्यत इति । वेदान्तजन्यज्ञानस्य तत्त्वमसीति महावाक्यात्मकवेदान्तजन्याखण्डब्रह्मसाक्षात्काररूपज्ञानस्य । तस्यानिर्णयात्मकत्वादेव संशयाविरोधितेति माऽवमंस्था निश्वयात्मकत्वेऽपि तस्य संशयाविरोधितेत्युपदर्शयितुमुक्तं - निःसामान्यविशेषब्रह्मावधारणरूपस्यापीति- ब्रह्मणो निर्धार्मिकत्वान्न तत्र सामान्यं विशेषा वा विद्यन्त इति निःसामान्यविशेषमखण्डं ब्रह्म, तस्य यदवधारणं निश्चयात्मकं ज्ञानं तद्रूपस्यापि तदात्मकस्यापि वेदान्तजन्यज्ञानस्येत्यर्थः । संशयाविरोधितैवेत्यनन्तर मापाततत्यनुषज्यते । ननु तत्प्रकारकतद्विशेष्यकनिश्चयस्य तत्प्रकारकतद्विशेष्यकसंशयं प्रति प्रतिबन्धकत्वात् कथं निश्चयस्य संशयाविरोधितेत्यत आह- सा चेति- संशयाविरोधितालक्षणाऽऽपातता चेत्यर्थः, अस्य सम्भवतीत्यनेनान्वयः, अत एवा सम्भवतीति पाटो युक्त एव । दोषसाचिव्येनेति एतदुक्तिस्तु दोषासमवधाने समानप्रकारकसमान विशेष्यकनिश्चयसत्त्वे संशयो न भवतीति दोषासमवहितोक्तनिश्वयस्य न संशयाविरोधित्वमित्यवगतये । ननु दोषासमवहित्व विशेषणमनादृत्यैव समानप्रकारकसमानविशेष्यकनिश्चयत्वेन निश्चयस्य संशयप्रतिबन्धकत्वमस्तु तथा च दोषसाचिव्येनापि नोक्तनिश्चयत्वेन संशयाविरोधितेत्यत आह- संशयप्रतिबन्धकत्वस्यापीति- अस्य वक्तुमशक्यत्वादित्यनेनान्वयः । ननु घटवद् भूतलमिति निश्चयसत्त्वे भूतले घटो नवेति संशयो न जायत एवेति घटवद् भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयप्रतिबन्धकत्वमेवेत्यत आह- सति दोषविशेष इति । असतीति- दोषविशेष इत्यनुषज्यते । तदभावादेव दोषविशेषाभावादेव । तस्यैव दोषविशेषस्यैव । तद्धेतुत्वात् संशयहेतुत्वात् । तस्यैवेत्येवकारेण निरुकनिश्वयाभावस्य संशयकारणत्वव्यवच्छेदः, यदा च निरुक्तनिश्चयाभावस्य न संशयकारणत्वं तदा कारणीभूताभावप्रति
४१
"
३२१