________________
३२२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नगोपदेशः ।
तदभावादेव संशयाभावादन्वय-व्यतिरेकाभ्यां तस्यैव तद्धेतुत्वात् । किञ्च, सत्यपि निश्चयेऽप्रामाण्यसंशयेन संशयदर्शनादप्रामाण्यसंशयानास्कन्दितत्वेन प्रतिबन्धकत्वं वाच्यं, तद् वरं दोषविशेषानास्कन्दितस्वेनैव तथात्वं युक्तम्, अनुगतत्वालाघवाच । अत एव स्वतः प्रामाण्यनिश्चयेऽप्यनभ्यासादिदोषविशेषात् काशीस्थस्याद्रमरिच प्रत्यक्षेऽपि वा संभावनादोषविशेषात् संशयः, त[व]दिहापि वेदान्तवाक्यादधीताजातेऽपि ब्रह्मनिश्चयेऽसंभावनादिदोषविशेषात् संशयोत्पत्तौ तदविरोधितैव तस्यापाततेति । एककोटिकानिश्चयरूपैवाऽऽपाततेति तु न युक्तम् , अदृष्टकल्पनापत्तेः, तदयमापातज्ञानवानिह जन्मनि जन्मान्तरे योगिवलक्षण प्रतिबन्धकत्वमपि निरुक्तनिश्चयस्य नेत्यागतमेवेसाशयः । घटवद् भूतलमिति निश्चयसत्त्वेऽपि तत्राप्रामाण्यसंशये इदं ज्ञानमप्रमा नवेत्येवंरूपे, इदं ज्ञानं प्रमा नवेत्येवं रूपे वा सति भूतले घटो नवेति संशयस्य दर्शनादप्रामाण्यसंशयानास्कन्दितनिरुकनिश्चयत्वेन संशयं प्रति प्रतिबन्धकत्वं कल्पनीयम् , तदपेक्षया लाघवाद् दोषविशेषानास्कन्दितनिरुक्तनिश्चयत्वेनैव संशयं प्रति प्रतिबन्धकत्वमाश्रयणीयम , यत्र निश्चयेनाप्रामाण्यसंशयस्तत्रापि दोषविशेषे सति संशयस्योदयेन दोषविशेषानास्कन्दितत्वनिवेशस्यश्याकत्वेन तस्यानुगतत्वात् , अप्रामाण्यसंशयोऽपि दोषविशेषादेव तत्रापि दोषविशेषसद्भावस्यावश्यम्भावेन तस्यानुगतत्वं स्वीकरणीयमेवेत्याह-किश्चेति । अप्रामाण्यसंशयानास्कन्दितत्वेनेतियद्यपि यत्र निश्चयत्वेन प्रतिबन्धकरवं कारणत्वं वा तत्राप्रामाण्यज्ञानस्य ज्ञानत्वेनैवोत्तेजकत्वम् , यत्र तु ज्ञानत्वेन प्रतिबन्धकत्वं कारणत्वं वा तत्राप्रामाण्यज्ञानस्य निश्चयत्वेनैवोत्तेजकत्वमिति नियमात् प्रकृते निश्चयत्वेन प्रतिबन्धकस्वस्याश्रितत्वादप्रामाण्यज्ञानस्य ज्ञानवेनबोत्तेजकत्वमित्यप्रामाण्यज्ञानानास्कन्दितत्वेनेत्येव वक्तमुचितम्, तथापि निश्चयेऽप्रामाण्य. निश्चयो यत्र निश्चयो वस्तुतो विपर्ययात्मकस्तत्र प्रमात्मकोऽपि सम्भवति, प्रमायां च गुणस्यैव कारणत्वं न दोषस्येति न तत्र दोषसद्भाव इत्यप्रामाण्यज्ञानस्थले दोषसद्भावस्तदैव स्याद् यद्यप्रामाण्यज्ञानं संशयरूपं भवेदित्याशयेनाप्रामाण्यसंशयानास्कन्दितत्वेनेत्युक्तमिति बोध्यम् । तथात्वं प्रतिबन्धकत्वम् । तथाप्रतिबन्धकत्वस्य युक्तत्वे हेतुद्वयमुपदर्शयति-अतुगतत्वालाघवाच्चेति-अनुगतत्वं यत्र न प्रामाण्यज्ञानं यत्र चाप्रामाण्यज्ञानमुभयत्रापि दोषस्य सद्भावान्निश्चयस्य न संशयविरोधित्व. मित्यतः, लापवं तु तदभाववति तत्प्रकारकत्वलक्षणाप्रामाण्यज्ञानापेक्षया दोषविशेषस्य शरीरकृतं सुव्यक्तमेव । अत एव दोषविशेषसमवहितनियुक्तनिश्चयाभावस्य न संशयकारणत्वं किन्तु दोषविशेषस्यैव संशयकारणत्वमित्यस्मादेव कारणाद् अप्रामाण्यसंशयानास्कन्दितत्वस्य न प्रतिबन्धकतावच्छेदकतया निवेशः किन्तु दोषविशेषानास्कन्दितस्यैव तथा निवेश इत्यस्मादेव हेतोः । स्वतः प्रामाण्यनिश्चयेऽपीति-परतः प्रामाण्यनिश्चयाभ्युपगमे प्रामाण्यनिश्चायकप्रमाणस्याप्य. निश्चितप्रामाण्यस्य न प्रामाण्य निश्चयात्मकत्वमिति तस्यापि प्रामाण्यनिश्चयः, एवं तत्प्रामाण्यनिवायकप्रमाणस्यापि परतः प्रामाण्यनिश्चय इत्येवमनवस्थानादुमीमांसक-वेदान्त्यादिमते ज्ञानस्य स्वत एव प्रामाण्यनिश्चयेऽपीत्यर्थः । यदा च तद्विषयक. ज्ञानस्य निश्चितप्रामाण्यस्य तद्विषयनिश्चायकत्वे सत्यपि तस्मिन् विषये संशयो भवति तदा संशयोऽनभ्यासादिदोषविशेषादेव भवतीत्याह-अनभ्यासादिदोषविशेषादिति- अस्य संशय इत्यनेनान्वयः । एवं कश्चित् प्रमाता कञ्चनामरीचनामानं पुरुषं नामान्तरे दृष्टवान् , स एव प्रमाता काशी गतस्तत्रापि आद्रेमरीच पश्यति, तत्पर मिश्चितप्रामाण्यकमेव तथापि कथमसामरीचो भवितुमर्हति तदयमार्दमरीचो ने सम्भावनापथमृच्छतीत्येवमसम्भावनादोष. विशेषादयमाईमरीचोऽन्यो बेति योऽयं संशयः सोऽप्यसम्भावनादोषविशेषादेवेत्याह- काशीस्थस्येति । “वा संभावना" इत्यस्य स्थाने " वाऽसंभावनादि " इति पाठो युक्तः । यथाऽन्यत्र निश्चितप्रामाण्यकनिश्चयात्मकज्ञानविषयेऽपि दोषविशेषात् संशयो भवति तथाऽधीतवेदान्तवाक्यजन्यनिश्चितप्रामाण्यकनिश्चयात्मकविषयेऽपि ब्रह्मणि असंभावनादिदोषविशेषात् संशयः स्यादेवेति अधीतवेदान्तवाक्यजन्यब्रह्मनिश्चयस्य संशयाविरोधितालक्षणापातता सुव्यवस्थितेत्याह- तद्वदिहापीति । तद. विरोधितैव संशयाविरोधितव । तस्य वेदान्तवाक्यजन्यब्रह्मनिश्चयस्य । एककोटिकानिश्चयरूपत्वमेवापातत्वम् , तच्चैककोटिकनिश्चयरूपे ब्रह्मनिश्चये न संभवतीत्याशङ्का प्रतिक्षिपति- एककोटिकेति । “रूपैवा" इत्यस्य स्थाने "रूपतवा" इति पाठो युक्तः । तदभावाप्रकारकतत्प्रकारकज्ञानत्वमेव निश्चयत्वम् . तच सर्वत्रैककोटिके निर्विवादमेवेति यदेककोटिक तनिश्चयरूपमेव दृष्टं नानिश्चयरूपमित्येककोटिकानिश्चयकल्पनाSEष्टकल्पनैवेत्ययुक्तत्वे हेतुत्वमुपदर्शयति- अष्टकल्पनापचे