________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
वानुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते । ननु कथं कर्मणां तत्तत्फलसाधनानामन्त:करणशोधकत्वमिति चेद् ? ज्ञानाज्ञानकृतानां सर्वपापानां पुरुषेषु सत्वात् तत्क्षयस्य सदाभीप्सितस्वाद् दुःखवत् पापस्यापि द्वेष्यतया तन्निवृत्तेः काम्यत्वादहरहः कर्त्तव्यत्वेनावगतप्रत्ययानां नित्यानां तेनैव फलवत्त्वाद् धर्मेण पापमपनुदति । " योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ” [ भगवद्गीता,
३२३
रिति । एतावता " कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति ” इति यदुक्तं तदुपपादितम्, तदनन्तरवक्तव्यमुपदर्शयति तदयमिति । तत् तस्मात् अयं पुरुषधुरन्धरः । ननु यत् कर्म यत्फलसाधनतया वेदविहितं तेन कर्मणानुष्ठितेन तदेव फलमुपजायत इत्यन्तःकरणविशोधकत्वं नानुष्ठितकर्मणामिति 'अनुष्ठितकर्मभिर्विशुद्धान्तःकरण' इति यदुक्तं तत् कथं सङ्गतमिति शङ्कते - नन्विति । यद्यपि काम्यकर्मणां तत्तत्फलसाधनत्वेन विहितानां प्रतिनियतत्तत्तत्फलसाधनत्वेऽपि नित्यानां कर्मणां प्रतिनियतफलसाधनतयाऽविहितानां यद् यदभीप्सितं कर्तुस्तत्साधनत्वं यद् यद् द्विष्टं तन्निवर्तकत्वं स्वीकरणीयम् नित्यकर्मणां निष्फलत्वे प्रेक्षावतां तत्र फलमपश्यतां प्रवृत्तेरेवानुपपत्तेः, प्रतिनियतफलसाधनत्वेनाविहितानामिदमेव फलमिदं नेति विनिगमनाविरहात् कल्पयितुमशक्यमतः पुरुषेषु सतां ज्ञानाज्ञानकृतानां सर्वपापानां निवृत्तेरिष्टत्वाद् दुःखवद् दुःखसाधनपापस्यापि द्वेषविषयत्वेन तभिवृत्तेरिष्टत्वात् तज्जनकत्वेन फलवस्वस्यापि नित्यकर्मणां संभवाद् धर्मेण नित्यकर्मणा पापापनोदनतो विशुद्धान्तःकरणो भवेदेव कर्तेति समाधत्ते - ज्ञानाज्ञानकृतानामिति । तत्क्षयस्य ज्ञानाज्ञानकृतसर्वपापक्षयस्य । सदाऽभीप्सितत्वात् सर्वदैवेष्टत्वात्, ननु कथम मीप्सितत्वं सर्वपापनिवृत्तेरित्यपेक्षायामाह - दुःखचदिति - दुःखस्य यथा साक्षादनिष्टत्वादेव द्वेषविषयत्वं तथेत्यर्थः । द्वेष्यतया अनिष्टसाधनत्वेन द्वेषविषयतया । तन्निवृत्तेः ज्ञानाज्ञानकृतसर्वपापनिवृत्तेः । काम्यत्वात् कामना इच्छा तद्विषयत्वात् । अहरह्नः कर्तव्यत्वे नाव गतप्रत्ययानामिति सन्ध्यावन्दनादीनामुपनयनादारभ्यामरणं प्रतिदिनकर्तव्यत्वं यत् तदेव नित्यत्वमिति अहरहः कर्तव्यश्वेनेत्यस्य नित्यत्वेनेत्यर्थः, अवगतप्रत्ययानाम् - अवगतः - निश्चितः प्रत्ययो विश्वासो येषु ते अवगतप्रत्ययास्तेषाम्, यद्यपि अवगतशब्दस्य समासानिविष्टाहरहः कर्तव्यत्वेनेतिपदार्थान्वितस्वार्थकत्वेनासमर्थतया समासा सम्भवाशङ्का समुपजायते, तथापि प्रतियोगिपदाद्यतिरिक्त समासानिविष्टपदार्थान्वितस्वार्थकत्वे सत्येवासामर्थ्य भवति नान्यथा, अत एव चैत्रस्य गुरुकुलमित्यत्र गुरुपदस्य समासानिविष्टचैत्रस्येतिपदान्वितस्वार्थकत्वेऽपि नासामर्थ्यम्, तदुक्तम् - " प्रतियोगिपदादन्यद् यदन्यत् कारकादपि । वृत्तिशब्देकदेशार्थे न तस्यान्वय इष्यते ॥ १ ॥
"
] इति, प्रकृते अहरहः कर्तव्यत्वेनेति कारकतया तदर्थान्वितस्वार्थकत्वेऽप्यवगतपदस्य नासामर्थ्यमिति वस्तुतः अवगतप्रत्ययानाम् ' इत्यस्य स्थाने ' अविगीतप्रत्ययानाम् ' इति, पाठो युक्तः, अविगीत: - केनापि वादिना विगानं निन्दा, तां न इतः - प्राप्तः प्रत्ययो - ज्ञानं येषां तेऽविगीतप्रत्ययाः सर्ववादिनिश्चित प्रत्यया इति यावत् तेषामिति तदर्थः, तत्र समासान्तनिविष्टप्रत्ययपदस्यैव समासानिविष्टपदार्थान्वित स्वार्थकत्वमिति न समासानुपपत्तिः । तेनैव सर्वपापक्षयेनैव | फलवत्त्वादित्यस्यानन्तरं कल्पलतायां - " स्वर्गादेर्नियतानुपस्थितिकत्वात् प्रत्यवायप्रागभावस्य चासाध्यत्वात् " इत्यप्यस्ति पाठः, तत्सङ्गमनं यथा - ननु " विश्वजिता यजेत् " इत्यत्र विश्वजिद्यागस्य न किञ्चित् फलं श्रूयते, अथापि सर्वाभिलषितत्वेन स्वर्ग एव फलं कल्प्यते, एवं नित्यकर्मणामपि सर्वाभिलषितत्वेन स्वर्ग एव फलं : कल्प्यताम्, अथवा नित्ये कर्मण्यकृते प्रत्यवायो भवति, कृते च तस्मिन् प्रत्यवायो न भवतीति नित्यकर्मसत्त्वे प्रत्यवाय प्रागभाव सत्त्वं नित्यकर्माभावे प्रत्यवाय प्रागभावाभाव इत्यन्वयव्यतिरेकाभ्यां प्रत्यवायप्रागभाव एव नित्यकर्मणां फलमस्तीत्यत आहस्वर्गादेर्नियतानुपस्थितिकत्वादिति स्वर्गादर्नियतोपस्थितिकत्वाभावादित्यर्थः यद्यपि स्वर्गादिकं सर्वाभिलषितत्वेन : कदाचित् कदाचिदुपस्थितिविषयोऽपि भवति न तु सर्वदोषस्थितिविषयोऽर्थाद् यदा यदा सन्ध्यावन्दनादिकं करोति पुरुषस्तदा.. तदा नियमेन तत्फलत्वेन न स्वर्गादिकमुपस्थितं भवति; अत एवानुपस्थितिकत्वादित्यनुक्त्वा नियतानुपस्थितिकत्वादित्यु कम् पापक्षयस्तु सर्वदोपस्थित एव भवति, अत एवानन्तरमेवाभिहितं- तत्क्षयस्य सर्वदाऽभीप्सितत्वादिति, एवं च यथाऽयं नियम:-. उपस्थितानुपस्थितयोर्मध्ये उपस्थितस्यैव महणमिति तथा नियतोपस्थित-नियतानुपस्थितयोर्मध्ये नियतोपस्थितस्यैव ग्रहणमित्यपि नियम इति 'अणुरपि विशेषोऽध्यवसायकरः ' ] इति न्यायान्नित्यकर्मणां पापक्षय एव फलं
[
6