________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नवोपदेशः ।
५-११ ] इत्यादिशास्त्राच्च । यद्वा " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" [ बृहदारण्य. कोपनिषद् , ४.४.२२.] इत्यादिश्रुत्या तत्तत्फलसंयुक्तानामपि कर्मणां संयोग-पृथक्त्वन्यायेन विविदिषासंयोगस्य ज्ञानसंयोगस्य वा विधानात् , तत्रान्तःकरणशुद्धिद्वारम् , एकस्य तूभयत्वे संयोग-पृथक्त्वमिति
न तु स्वर्गादिकम् , येऽपि नित्यकर्मणां स्वर्गादिफलमुपयन्ति तेऽपि नित्यकर्मभ्यः पापक्षयस्ततः स्वर्गादिरिति रीत्या, यत. स्तत्र प्रमाणयन्तीदं वचनम्-" सन्ध्यामुपासते ये तु सततं शंसितव्रताः ॥ विधूत पापास्ते यान्ति ब्रह्मलोकमनामयम् ॥१॥" [ ] इति, एवं च पापस्य कस्यचित् स्वर्गादिप्रतिबन्धकत्वमपि संभवतीति तत्क्षयस्थ प्रतिबन्धकाभावविधया स्वर्गादिकं प्रति कारणत्वस्य क्लप्तत्वेन तेनान्यथासिद्धत्वान्न स्वर्गादिकं प्रति नित्यकर्मणां कारणत्वम्, न च पापक्षयस्य स्वर्यादिफलजनने नित्यकर्मणां व्यापारतया व्यापारेण तेन व्यापारिणां नित्यकर्मणां नान्यथासिद्धिरिति वाच्यम् , यत्र व्यापारिणः प्रमाणान्तरावगतकारणत्वान्यथानुपपत्त्या व्यापारस्य कल्पनं तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः, यत्र तु व्यापारिणः कारणस्वमन्तराऽपि व्यापारस्य कारणत्वं क्लप्तं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धत्वं भवत्येव, यथा " काशीमरणान्मुक्तिः" [ ] इत्यत्र " तमेव विदित्वाऽतिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय" [ वा. सं. ३१. १८.] इत्यादिश्रुत्या क्लप्तकारणताकन तत्त्वज्ञानेन व्यापारभूतेनापि काशीमरणस्यान्यथासिद्धत्वमिति पञ्चम्याः प्रयोजकत्वमेवार्थ इत्यन्यत्र चिन्तितम् । नन्वेवमपि प्रत्यवायप्रागभावस्य पापक्षयवद् नियतोपस्थितिकत्वात् प्रतिबन्धकामावविधया तस्यापि स्वर्गादिकं प्रति कारणत्वस्य क्लप्तत्वादेकेनापरस्यान्यथासिद्धत्वस्य वक्तुमशक्यत्वात् प्रत्यवायप्रागभावोऽस्तु नित्यकर्मणां फलमित्यतस्तस्य फलत्वाभावे हेतूपदर्शनायोक्तम्- प्रत्यवायप्रागभावस्य चाऽसाध्यत्वादिति- असाध्यत्वादित्यस्यानुत्पाद्यत्वादित्यर्थः, आद्यक्षणसम्बन्धश्वोत्पत्तिः, साऽनादिकालीने प्रत्यवायप्रागभावे नास्ति, नित्ये कर्मणि कृते प्रत्यवायप्रागभावस्तिष्ठति, अकृते द तस्मिन् न तिष्ठतीत्येवं क्षमिकजन्यत्वं यद्यपि असाध्येऽपि प्रत्यवायप्रागभावे सम्भवति तथापि यौगिकजन्ये पापक्षये नित्यकर्मफलवे सम्भवति क्षैमिकजन्यत्वमुपादाय प्रत्यवायप्रागभावस्य तत्फलत्वकल्पनमन्याय्यमेवेत्याशयः। धर्मेण अनुष्ठितनित्यादिकर्मणा । पापमपनुदति पापं विनाशयति मित्यादिकर्मानुष्ठाता पुरुषः। पापक्षयरूपात्मशुद्धिकारणत्वे कर्मणः शास्त्रे प्रमाणयति-योगिन इति-योगिन इत्युक्त्या योगिनां मुक्त्यर्थिनां स्वर्गादिफलाकालाऽभावात् तस्कृतकर्मणां पापक्षयलक्षणात्मशुद्ध्यर्थत्वमेवेत्यावेदितम् । तेषां स्वर्गादिफलाकाक्षा. ऽभावावगतये उक्तम्-सलं त्यक्त्वेति-स्त्री-पुत्र-धनादिविषयसम्बन्धं त्यक्त्वेति तदर्थः, यदि स्वर्गादिफलाकाङ्क्षणं तेषां स्यात् तदा रागादिलक्षणसम्बन्धस्यावश्यंभावात् तत्रयाग एव नोपपद्यतेति न स्वर्गादिफलाकाङ्क्षा तेषामित्यभिसन्धिः । प्रकारान्तरेणानुष्ठितकर्मणां पापक्षयसाधनत्वं व्यवस्थापयति-यद्वेति । तमेतमिति-एतम्-अनन्तरपूर्वश्रुतिदर्शितस्वरूपम् , तमात्मानम् , वेदानुवचनेन निरन्तरराभ्यस्तवेदवाक्येन, ब्राह्मणाः ब्रह्मज्ञानपरायणाः, विविदिषन्ति वेत्तुमिच्छन्ति, विविदिषानन्तरं जानन्त्यपि, यझेन यज्ञादिकर्मणा, अत्रापि तमे विविदिषन्तीत्यस्यान्वयः । श्रुत्येत्यस्य विधानादित्यनेनान्वयः। तत्तत्फलसंयुक्तानामपि प्रतिनियतस्वर्गादिफलेन सह जनकतया सम्बद्धानामपि । कर्मणां यज्ञादिकर्मणाम्। संयोगपृथक्त्वन्यायेनेति-यत्र संयोग-पृथक्त्वन्यायः प्रवर्तते, यच्चास्य स्वरूपं तदुभयमत्रैवानन्तरं स्पष्टीकृतम् । विविदिषा संयोगस्य विविदिषया समं जनकतालक्षणसम्बन्धस्य । झानसंयोगस्य ज्ञानेन समं जनकतालक्षणसम्बन्धस्य । कर्मभिरनुष्ठितैर्विविदिषा ज्ञानं वा कथं स्यादित्यपेक्षायामाह-तत्रेति-कर्मभिर्विविदिषाजनने ज्ञानजनने वेत्यर्थः । “अन्तः करणशुद्धिद्वारम्" इत्यस्य स्थाने " अन्तःकरणशुद्धिरम् " इति पाठो युक्तः, वेदान्तिमते आत्मनो निर्लिप्तत्वादन्तः. करणोपाधिक एव पुण्य-पापसम्बन्धो न तु स्वत इति पापसम्बन्धलक्षणाऽशुद्धिरन्तःकरणस्य, तत्तादात्म्याध्यासादात्माऽप्यशुद्ध इत्युपचर्यते, अनुष्ठितकर्मभिः पापविगमे पापापगमनलक्षणा शुद्धिरन्तःकरणस्यैव, तत्तादात्म्याध्यासादात्मनोऽपि सा शुद्धिरिति, तथा चान्तःकरणशुद्धिर्विविदिषाजनने ज्ञानजनने वा द्वार-व्यापारो भवति, पापविगमद्वारा कर्माणि विविदिषां शानं वा जनयन्तीत्यर्थः, एवं च अनुष्ठितकर्मभिर्विशुद्धान्तःकरण इति यदुक्तं तद् युक्तमेवेत्याशयः । कुत्र संयोग-पृथक्त्वन्यायः प्रवर्तत इत्यपेक्षायामाह-एकस्येति-एकस्य कर्मणः पृथम्विधिभ्यामुभयत्वे फलद्वयसम्बन्धविधानत उभयरूपत्वे संयोग-पृथक्त्व. मिति न्यायः प्रवर्तत इत्यर्थः। संयोगपृथक्त्वं किमित्यपेक्षायामाह-संयोग इति। तत्पृथक्त्वं विधिभिन्नत्वम् । एकस्य