________________
नयामृसतरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः ।
३३५
-
न्याया, संयोगो विधिस्तत्पृथक्त्वमेकस्योभयरूपत्वे हेतुरिति तदर्थः, त[व]दिह तत्चत्कलार्थान्यपि कर्माणि तमेतमित्यादिवचनाद् विविदिषार्थानि वेदनार्थानि वा दृष्टव्यानीति । कथं पुनरत्र प्रकरणान्तरन्यायेन न कर्मान्तरत्वम् , प्रकरणान्तरे प्रयोजनान्यत्वम् ' इत्यत्र ह्येतत् सिद्धम् , यत्र प्रकरणान्तरमनुपादेय. गुणश्च तत्र कर्मान्तरत्वम् , ' सायं प्रातर्जुहोति [.
] इत्यादौ ' यदाहवनीये जुहोति' [कठश्रु-४] इत्यादौ [च] कर्मान्तरविधिवारणाय विशेषणद्वयम् , तदिह 'मासमग्निहोत्रं जुहोति ।
] इत्यत्रेवोभय सत्त्वात् कर्मान्तरत्वं दुर्वारमिति चेत् ?, उच्यते- न तावदन यज्ञादिसंबन्धो विधिः 'जुहोति' इतिवच्छ्रयते, येनापूर्व यज्ञादिविधीयते, कल्पनायां तु लाघवम् । 'जीवातुः'
कर्मादेरेकस्य । उभयरूपत्वे विभिन्नफलजनकतयोभयस्वरूपत्वे । हेतः एकमपि कर्म यद् विभिन्नफलजनकत्वेनोभयरूपं तद्विभिन्नफलविधायकविधिद्वैविध्यादेव । इति एवंस्वरूपः। तदर्थः संयोग-पृथक्त्वमिति न्यायस्यार्थः । उपसंहरति-तदितितस्मात् , एकस्य कर्मणो विधि-पृथक्त्वतो विभिन्नफलजनकत्वेनोभयरूपत्वात् । इह प्रकृते । तत्तत्फलार्थान्यपि प्रतिनियत. स्वस्वफलार्थान्यपि । कर्माणि यज्ञादीनि कर्माणि । तमेतमित्यादिवचनात् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यशेन तपसा कर्मणा नाशकेनेत्यादिवचनात् । ननु दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनि प्रतिनियतफलसम्बन्धबोधकप्रकरणगतानि, तमेतमित्यादिवचनानि तु ब्रह्ममात्रतत्त्वावबोधकप्रकरणगतानि, तथा च विभिन्न प्रकरणपठितत्वेन दर्श-पूर्णमासाभ्यां स्वर्गकामो यजतेत्यादिविधिविहितदीदिकर्मभ्यो भिन्नान्येव तमेतमित्यादिविधिविहितकर्माणि विविदिषाद्यर्थानीति नैकस्योभयरूपत्वं संयोग-पृथक्त्वन्यायनेति शङ्कते-कथं पनरिति-अस्य न कर्मान्तरत्वमित्यनेनान्वयः, तथा च प्रकते कर्मान्तरत्वं स्यादेवेत्यर्थः । प्रकरणान्तरन्यायेन कर्मान्तरत्वं कुत्र व्यवस्थापितमित्यपेक्षायामाह-प्रकरणान्तर इतिप्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यस्य प्रकरणान्तरे प्रयोजनान्यत्वम् , इत्येवं चिह्नित उल्लेखः कर्तव्यः । इत्यत्र एवंस्वरूपमीमांसाधिकरण । एतत् कर्मान्तरत्वम्, सिद्ध व्यवस्थापितम् । निरुताधिकरणविचारमेवावेदयति-यति । प्रकरणान्तरमिति अनुपादेयगुणश्चेति विशेषणद्वयव्यावृत्तिमुपदर्शयति-सायमिति-"सायं प्रातर्जुहोति" इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति पाठो युक्तः । एकस्मिन्नेव प्रकरणे सायं जुहोतीति प्रातर्जुहोतीति च पठितमस्ति, तत्र सन्ध्याकालीनहवनतः प्रात:कालोनवने न कश्चिद् गुणोऽधिकोऽस्ति येन यदेव प्रातःकाले क्रियते हवनं तत्रैव गुणान्तरविधायक विध्यन्तरं स्यादतोऽनुपादेयगुणत्वात् प्रातःकालीनहवनतोऽन्यदेव सायंकालीनं हवन मित्येवं कर्मान्तरत्वं मा प्रसाक्षीदित्येतदर्थ-प्रकरणान्तरमिति,-" सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इतिपाठो युक्तः, एवं च प्रकरणान्तराभावादेकमेव हवनकालविकल्पस्तत्रत्याशयः । सायं जुहोतीत्यादि यत्प्रकरणे पठित तदन्यप्रकरण एवं यदाहवनीये जुहोतीति पठितम् , तथा च प्रकरणान्तरत्वात् सायंकालीनहवनत आहवनीयाग्न्यधिकरणकहवनस्य कमान्तरत्व प्रसक्तमिति तद्वारणाय अनुपादेयगुणश्चेति द्वितीय विशेषणम् , एवं चावनीयाग्न्यधिकरणकत्व
गुणोऽत्रोपादेय इत्यनुपादेय गुणत्वाभावान कर्मान्तरत्वम् . किन्तु यदेव हवन सन्ध्याकालादौ क्रियते तत्रैवाहवनीया. धिकरणकत्वलक्षणो गुणो विधीयत इति । प्रष्टा स्वाभिप्रेतमुपसंहरति-तदिति-तत्- तस्मात् , प्रकरणान्तरपठितस्वादनुपादेयगुणत्वाच । इह प्रकृते, अस्य उभयसरवादित्यनेनान्वयः । मासमग्निहोत्रं जुहोतीत्यवति- सायं जुहो. तीत्यादि यत्प्रकरणे पठित तदन्यप्रकरणे मासमग्निहोत्रं जुहोतीति प्रकरणान्तरमस्ति, गुणान्तरं च न किश्चिदुपादेयमित्यनुपादेयगुणश्चास्तीत्येवमुभयसत्त्वादु यथा तस्य कर्मान्तरत्वं तथा दर्श-पूर्णमासप्रकरणभिन्न प्रकरणमतत्वादनुपादेयगुणत्वाच तमेतमित्यादिवचनविहितस्य यज्ञादिकर्मणः कर्मान्तरत्वं वारयितुमशक्यमित्यर्थः । समाधत्ते-उच्यत इति । नञः श्रयत इत्यनेनान्वयः । "यज्ञादिसंबन्धो" इत्यस्य स्थाने "यज्ञादिसम्बद्धो" इति पाठो युक्तः । जुहोतीतिवदितिजुहोतीत्यत्र हृधात्वर्थहवनक्रियासंबद्ध आख्यातार्थविधिर्यथा वचनेन प्रतिपाद्यते न तथा तमेतमित्यत्र यज्ञादिसंबद्धो विधि बचनेन प्रतिपाद्यत इत्यर्थः । तर्हि वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोगमात्रविधिकल्पना कुतः समागतेत्यत आहकल्पनायां विति-" कल्पनायां तु लाघवम् । ‘जीवातुः' इत्यस्य स्थाने “ कल्पनायां तु लाघवं जीवातुः"