________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
इति, आख्याता समानाधिकरणव्यवहितपरामर्शसमर्थ सुबन्तपरामृष्टानां कर्मणां फलसंबन्धमात्रविधानोपपत्तौ नान्यत् कल्पयितुं युक्तम्, आख्यातसमानाधिकरणो हि मासमग्निहोत्रमिति शब्दस्तत्परतन्त्रत्वान्न व्यवहितमित्यग्निहोत्रं परामृशति, यज्ञेनेत्यादि सुबन्तस्त्वा ख्यात समानाधिकरणो व्यवहितपरामर्शे समर्थं इति परमार्थः । नतु किमत्र पशुकामस्योद्विचित्रादिष्विव विविदिषादिकामस्य यज्ञादिषु भिन्नवाक्योपान्तत्वादविकल्पः ?, यथा- • दध्यादीनामग्निहोत्रहोमे, उत स्वर्गकामस्यानेयादिष्विव समुचयः ? इति चेत् ? अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः । तत्र कथमेकवाक्यतेति विचार्यते- अर्थैकत्वाइति पाठो युक्तः, कल्पनायां तु वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोग मात्र विधिकल्पनायां पुनः लाघवम् अतिरिकयज्ञादितत्फलविविदिषादिसंयोगविधिद्वय कल्पनापेक्षया वचनान्तरप्राप्तस्य यज्ञादिकर्मणः केवलविविदिषादिफलसंयोगविधिकल्पने लाघवं सुव्यक्तमेव, जीवातुः जीवनं प्रमाणसहकारीति यावत् । नन्वन्यत्रापि वचनान्तर प्राप्तस्यैव कर्मणः फलविशेषसम्बन्धमात्रविधानं लाघवादुपेयताम्, नेत्थं चेत् किमपि विनिगमकमुपदर्शनीयमित्यत आह- आख्यातेति- आख्यातासमानाधिकरणो व्यवहितपरामर्शसमर्थश्च यः सुबन्तस्तत्परामृष्टानामित्येवमन्वयगमनिका । मासमग्निहोत्रं जुहोतीत्यादौ नेदं विनिगमकमतस्तत्र कर्मान्तरविधानमित्युपदर्शयति- आख्यातसमानाधिकरणो द्वीति - हि यतः, मासमग्निहोत्रमिति शब्द आख्यातसमानाधिकरणः, जुहोतीत्याख्यातपदप्रतिपाद्यहवनाभिक्षमासाधिकरणका ग्निहोत्ररूपार्थकत्वात् तथा । कथमाख्यातसमानाधिकरण इत्यपेक्षायामाह तत्परतन्त्रत्वादिति- जुहोतीत्याख्यातपरतन्त्रत्वात्, अत एवाग्निहोत्रमपि न व्यवहितमित्यव्यवहितस्याग्निहोत्रस्य परामर्शकं मासमग्निहोत्रमिति शब्दो न व्यवहितपरामर्शसमर्थ इति निरुक्तविनिगमकाभावान्न तत्र फलसम्बन्धमात्रविधानं किन्तु कर्मान्तरस्यापि विधानमित्यर्थः । प्रकृते तु निरुक्तविनिगमकसत्वात् फलसम्बन्धमात्रविधानमित्याह - यज्ञेनेत्यादीति - " यज्ञेनेत्यादिसुबन्त स्वाख्यात समानाधिकरणो " इत्यस्य स्थाने " यज्ञेनेत्यादिसुबन्तस्त्वाख्यातासमानाधिकरणो " इति पाठ: समीचीनः, आख्यातपदमत्र विविदिषन्तीति तत्प्रतिपाद्यं न यज्ञादि, किन्तु विविदिषैति आख्यातप्रतिपाद्यार्थाप्रतिपादकत्वाद् यज्ञेनेत्यादिशब्दस्याख्यातासामानाधिकरण्यम्, व्यवहितं यद् दर्श- पूर्णमासाभ्यां यजेतेत्यादिवचनप्रतिपाद्यं दर्शादि तस्य परामर्शे समर्थोऽपीति तत्परामृष्टानां दर्शादिकर्मणां फलसम्बन्धमान्न विधानम् । इति परमार्थः एवंस्वरूपोऽत्र वास्तविकोऽर्थः । ननु तमेतमिति वचने यज्ञेन दानेन तपसेत्यनेन फलान्तरजनकतया विहितानां दर्शादियज्ञ-दान-तपसामशेषाणां परामर्शे विविदिषादिकामस्तेषामन्यतमं कञ्चनैक यज्ञं दानं तपो वाऽनुतिष्ठन् विविदिषादिफलमासादयति किम् ?, यथाऽग्निहोत्रहोमं केनचिद् दध्याचे केनानुतिष्ठन् तत्फलमासादयतीति विकल्पोऽत्राभिप्रेतः, किं वा स्वर्गकाम आग्नेयादिषट्कमनुतिष्ठन्नैव तत्फलमासादयति यथा, तथा विविदिषादिकामो यज्ञ-दानादिकं सर्वमनुतिष्ठमेव तत्फलमासादयतीति अमेयादिसमुच्चयवद् यज्ञ दानादिसमुच्चयोऽभिप्रेतः ? इति प्रश्नयति- नन्विति । किमत्रेत्यस्य विकल्प इत्यनेन समुच्चय इत्यनेन चान्वयः । उद्भिच्चित्रादिष्विवेति- “पशुकाम उद्भिदा यजेत [ ] इति " पशुकामचित्रया यजेत " इत्यादिभिन्नवाक्योपात्तत्वाद् उद्भिद्याग- चित्रायागादिषु पशुकामस्य यथा विकल्पः - उद्भिद्याग- चित्रायागादीनां मध्यादेकमनुतिष्ठन्नपि पशुकाम इष्टफलमवाप्नोति तथा यज्ञेन दानेन तपसेति भिन्नवाक्योपात्तत्वाद् यज्ञादिषु विकल्प:यज्ञादीनां मध्यादेकमनुतिष्ठन्नपि विविदिषादिकाम इष्टफलमनुभवतीत्यर्थः । विकल्पे दृष्टान्तमाह-यथेति - अत्र " यथा वा " इति पाठो भवितुमर्हति । द्वितीयपक्षमावेदयति- उतेति । आग्नेयादिष्विवेति- दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र दर्श अमावास्यायां क्रियमाणं यज्ञत्रयं दर्शयाग इति कथ्यते, पूर्णिमायां क्रियमाणं यज्ञत्रयं पौर्णमासयाग इति कथ्यते, ततः षड्भ्यो दर्शपौर्णमासनामधेयेभ्यो यागेभ्यः स्वर्गकामस्य स्वर्गो भवति, न तु तन्मध्यादेकै कस्मादाग्नेयादियागात् स्वर्गफलमुपजायते, तत्र मीमांसकानामियं प्रक्रिया- दशैं क्रियमाणयागत्रयमध्यादेकैकस्माद् यागादेकैमपूर्वमुत्पद्य तदपूर्वन्नितयमङ्गापूर्वमिति कथ्यते, समुदितेभ्यश्च निभ्यो यागेभ्य एकमपूर्वमुत्पद्यते तदपूर्वं प्रधानापूर्वमुच्यते एवं पूर्णिमा यां क्रियमाणयागत्रयात् प्रत्येकमपूर्वत्रयमुपजायते तदपूर्वमनापूर्वशब्दव्यपदेश्यम्, समुदिताच्च यागश्रयादेकमपूर्वमुपजायते तदपूर्व M प्रधानापूर्वमुच्यते, आभ्यां च प्रधानापूर्वाभ्यां यज्ञान्तक्रियमाणदक्षिणादानजन्याना पूर्व सहकृताभ्यामेकमपूर्वमुजायते तदपूर्व परमापूर्वमुच्यते, तदेव परमापूर्वं स्वर्गादिफलमुपजनयतीति स्वर्गादिफलं जनयित्वैव विनश्यतीति एवं च स्वर्गकामस्या
३२६