________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तेनान्योऽन्याभ्यासाञ्चिदचिद्रन्थिरूपोऽयमध्यासः समूहालम्बन भ्रम वदवश्यमत्रेतरेतराध्यासस्याभ्युपगन्तव्यत्वात् । अयमेव संसारो मायाशबलाश्चिदात्मना आकाशादिक्रमेण लिङ्गशरीरात्मकापञ्चीकृत
स्वात्, यः परमानन्दरूपो न भवति नासौ परमप्रेमास्पदमपि यथा घटः, तथा चायं परमप्रेमास्पदं न भवतीति न तस्मात् परमानन्दरूपो न भवतीति न । नन्वात्मनि धि मामिति द्वेषस्योपलभ्यमानत्वात् प्रेमास्पदत्वमेवासिद्धम्, कुतः परप्रेमास्पदत्वमित्याशङ्क्य तस्य दुःखसम्बन्धनिमित्तकत्वेनान्यथासिद्धत्वात् प्रेम्णश्चात्मन्यनुभवसिद्धत्वान्मैच मिति परिहरतिमान भूवमिति । हि यस्मात् कारणादात्मनि विषये मा न भूवम् अहं मा भूवमिति न ममासत्वं कदापि मा भूत्, किन्तु भूयासमेव सदा सत्त्वमेव मम भूयादित्येवंविधं प्रेमेक्ष्यते - सर्वैरनुभूयते, अतो नासिद्धिरित्यर्थः । तत्प्रेम्णः परमलप्रतिपादनपरमिदं पद्यम् -
45
' तत् प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि । अतस्तत्परमं तेन परमानन्दताऽऽत्मनः । " [ ] तद्वयाख्यानं यथा - ननु मा भूत् स्वरूपासिद्धिः प्रेम्णः परत्वे भानाद् विशेषणासिद्धिर्हेतोरित्याशयाह- तत्प्रेमेति, अन्यत्र स्वातिरिके पुत्रादौ यत् प्रेम तद् आत्मार्थम् तेषामात्मशेषत्वनिमित्तकमेव न स्वाभाविकम् एवमात्मनि विद्यमानं प्रेमान्यार्थं न, आत्मनोऽन्यशेषत्वनिमित्तकं न भवति किन्त्वात्मत्वनिमित्तकमेव अतो निरुपाधिकत्वात् तत् परमं निरतिशयम् । फलितमाइ - तेनेति - तेन निरतिशयप्रेमास्पदत्वेनात्मनः परमानन्दता निरतिशयसुखस्वरूपत्वं सिद्धम् ॥
पति-जायादीनां सर्वेषामात्म मोगार्थत्वादात्मन एव परमप्रेमास्पदस्वमित्यत्रेदमपि तृप्तिदीपप्रकरणगतं पद्यं साक्षिभावमा श्रयतिपति-जायादिकं सर्वं तत्तद्भोगाय नेच्छति । किन्स्वात्मभोगार्थमिति श्रुतावुद्घोषितं बहु ॥ १ ॥ "
एतद्व्याख्यानं यथा - नन्वात्मनो भोक्तृत्वप्रतिषेधस्तत्प्रसक्तिपूर्वको वक्तव्यः, सा तु न विद्यत असङ्गत्वादात्मन इत्या शङ्कय तस्याः स्वानुभवसिद्धत्वान्मैवमित्यभिप्रेत्य तदनुवादिकां श्रुतिमर्थतोऽनुक्रामति- पतिजायेति - " नवा पत्युः कामाय पतिः प्रियो भवति " इत्यारभ्य " आत्मनस्तु कामाय सर्वे प्रियं भवति " इत्यन्तेन [ पति-जायादिकस्य प्रपञ्चस्यात्मनो भोगायतनत्वं प्रतिपाद्यते, तत आत्मनो मोक्तृत्व प्रसक्तिरित्यर्थः ॥
] वाक्यसन्दर्भेण
तेनेति - चैतन्येऽहङ्कारादेः अङ्कारादौ चैतन्यस्य चाभ्यासेनेत्यर्थः । अन्योऽन्याध्यासात् परस्पराध्यासात् । चिदचिह्नन्थिरूपोऽयमध्यासः अयमनन्तराभिहितोऽन्योऽन्याभ्यासः आत्मा चित्, अहङ्कारादिक्रमचित् तयोप्रन्थिरूपोऽति कठिनबन्धरूपः, चैतन्येऽहङ्कारादेरध्यासो भ्रमोऽहङ्कारादौ चैतन्याध्यासोऽपि भ्रमः सोऽयं भ्रमद्वयात्मकः समूह(लम्बन भ्रमवदवश्यमेषितव्य इत्याह- समूहालम्बनेति । अयमेव संसार चिदचिह्नन्थिरूपो योऽयमध्यासोऽनन्तरमुपदर्शित: स एव संसारः, तत्र कस्य कुत उत्पत्तिर्यतोऽयं विस्तृतस्वरूपश्च कास्तीत्यपेक्षायामुत्पत्तिक्रममुपदर्शयति- मायाशबलादिति - मायासमन्वितादित्यर्थः । चिदात्मना " इत्यस्य स्थाने " चिदात्मनो " इति पाठः समुचितः । आकाशादिक्रमेणेति- मायासंवलिताच्चिदात्मन आकाशः सम्भूतः, आकाशाद् वायुस्सम्भूतः, वायोस्तेजस्सञ्जातम्, तेजसो जलमुश्पन्नम्, जलात् पृथिवी समुत्पन्नेत्येवं क्रमेणेत्यर्थः । लिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्ताविति एतत्तत्त्वाव बोधनाय पञ्चदशीगततवविवेक प्रकरणस्थानि कानिचित् पद्यानि सव्याख्यानान्युपदर्श्यन्ते
66
71
'तमः प्रधान प्रकृतेस्तद्भोगायेश्वराज्ञया । वियत् पवन-तेजोऽम्बु-भुवो भूतानि जज्ञिरे ॥
क्रमप्राप्तं सूक्ष्मशरीरं तदुपाधिकं जीवं व्युत्पादयितुं तत्कारणाकाशादिसृष्टिमाह - तमः प्रधानेति तेषां प्राज्ञानां भोगायसुख-दुःखसाक्षात्कार सिद्धये, तमः प्रधानप्रकृतेः- तमोगुणप्रधानायाः प्रकृतेः पूर्वोक्ताया उपादानकारणभूतायाः सकाशादीश्वराज्ञया- ईशनादिशक्तियुक्तस्य जगदधिष्ठातुराज्ञया ईक्षापूर्वक सर्जनेच्छारूपया निमित्तकारणभूतया वियदादिपृथिव्यन्तानि पञ्च भूतानि जज्ञिरे - प्रादुर्भूतानि उत्पन्नानीत्यर्थः ।
“ सत्त्वांशैः पश्चभिस्तेषां क्रमादीन्द्रियपञ्चकम् । श्रोत्र त्वगक्षि- रसन-प्राणाख्यमुपजायते ॥
"
भूतसृष्टिमभिधाय भौतिकसृष्टिमभिदधान आदौ ज्ञानेन्द्रियसृष्टिमाह- सत्त्वांशैरिति तेषां वियदादीनां पञ्चभिः सत्त्वांश:सत्त्वगुणभागैरुपादानभूतैः, श्रोत्र त्वगक्षि- रसन-प्राणाख्यधीन्द्रियाणि ज्ञानेन्द्रियाणि तेषां पञ्चकं क्रमादुपजायते, एकैकभूतसत्त्वांशादेकैकमिन्द्रियं जायत इत्यर्थः ॥