Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 116
________________ २६६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । बीजस्स वि संपत्ती जायइ चरमम्मि चेव परिअट्टे । अञ्चन्तसुन्दरा जंएसा वि तओ ण सेसेसु ॥२॥५-८ ण य एअम्मि अणन्तो जुज्जइणेयस्स णाम कालु ति । ओसप्पिणी अणन्ता हुन्ति जओ एगपरिअ?"॥३॥ [बीजादिविशिकायाम्-८, ६, ७ ] तस्माद् योग्यता प्रतिकार्य यथासम्प्रदाय द्रव्यव्यवहारहेतुर्विशिष्याश्रयणीया, न तु द्रव्यमेव, (एवमत्रापि ) द्रव्यकार्यादिव्यपदेशहेतुरायुःसम्बन्धघटितैव, तत्तत्पदसमभिव्याहारेण द्रव्यपदस्य नानार्थताद्योतनात् , अन्यथा द्रव्यस्तवादावगतेः, तदिदमुक्तं-" इयरो पुण जोगात्ते चित्ते जयभेयओ मुणेअबो" [ ] ' इतरो द्वितीयो द्रव्यपदार्थः, नयभेदश्व प्रस्थकादिन्यायसिद्धः' इत्यादिविपश्चितमस्माभिर्धर्मपरीक्षायामिति विस्तरार्थिनैतत्तत्त्वं तत एवावगन्तव्यम् । रक्तादिको-रक्तादिपर्यायपरिणामः, भावो-भावघटः, तल्लक्षणं चेदम् " भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वहरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ” ॥ १ ॥ [ भवनं भावः, स हि वक्तुरिष्ठक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्केन्द्रादिवदिति, अत्रागमतो भावघटो घटपरिज्ञानोपयुक्तः, नोआगमतो भावघटश्च रक्ततादिपरिणामसमूह इति विवेकः । अथ घटोपयोगमात्रात् कथं भावघट इति चेत् ? न-घट-झानयोरतिरिक्तसम्बन्धाभव्यत्वक्षिप्ता एकान्तस्वभावबाधया ॥१॥ बीजस्यापि सम्पत्तिर्जायते चरम एवं परावर्ते । अत्यन्तसुन्दरा यदेषाऽपि ततो न शेषेषु ॥ २ ॥न चेतस्मिन्ननन्तो युज्यते ज्ञेयस्य नाम काल इति। उत्सर्पिण्योऽनन्ता भवन्ति यत एकपरिवर्ते ॥ ३ ॥” इति संस्कृतम्। उपसंहरति--तस्मादिति- योग्यता विशिष्याऽऽश्रयणीयेति सम्बन्धः, एकस्य कारणस्यैकस्मिन् कार्ये द्रव्यन्यवहारहेतुर्या योग्यता सैव नान्यस्य कारणस्य नान्यस्मिन् कार्ये तथा, नवा तस्यैवान्यकायें तथा; किन्तु प्रतिकार्य विभिन्नैव सा तथा, साऽपि यथा सम्प्रदायं सम्प्रदायमनतिक्रम्यैवाश्रयणीयेत्यर्थः । न तु द्रव्यमेवेतिद्रव्यमेवाविशेषितस्वरूप द्रव्यव्यवहारहेतुर्नाश्रयणीयमित्यर्थः। आयःसम्बन्धघटितवत्यनन्तरं योग्यताऽऽश्रयणीयेत्यनुकर्षः । एवं सति नानार्थता द्रव्यपदस्पेष्टेव, किन्तु तद्योतनं तत्तत्पदसमभिव्यावहारेण भवतीत्याह- तत्तत्पदेति । अन्यथा द्रव्यव्यवहारहेतुतया प्रतिकार्य विशिष्य योग्यताया अनाश्रयणे । तत्र संवादं दर्शयति-तदिदमुक्तमिति । इयरो० इति- " इतरः पुनर्योगात्ते चित्तै नयभेदतो ज्ञातव्यः” इति संस्कृतम् । तदिदमुक्तमर्थ दृढी कर्तुमस्मन्निर्मितधर्मपरीक्षाग्रन्थोऽवलोकनीयो विस्तरार्थिनेत्युपदिशति- इत्यादि विपश्चितमिति ॥ भावो रक्ततादिक इति भावनिक्षेपप्रतिपादक वचनं विवृणोति-रकादिक इति- अस्य स्थाने मूलपद्यपाठानुसारात् 'रकतादिक' इति पाठो युक्तः, अस्यार्थकथनम्-रकादिपर्यायपरिणाम इति । भाव इत्यस्य विवरण-भावघट इति । तल्लक्षणं च भावनिक्षेपलक्षणं तु । इदम् अनन्तरमेवाभिधीयमानम् । " भावो विवक्षित." इति पद्यार्थ संक्षेपेण दर्शयति-भवनमिति । स भावः । हि यतः। अत्रेत्यस्य ' इति विवेकः' इत्यनेन सम्बन्धः । अत्र भावनिक्षेपविचारे पटपरिज्ञानोपयुक्तः पुरुषश्चेतनः, घटवाचेतन इति कथं चेतनस्याचेतनभावरूपत्वमित्याशङ्कते- अथेति । समाधत्ते-नेति । घट-ज्ञानयोर्विषयविषयिभावलक्षणसम्बन्धो यद्यतिरिक उपेयते तदा तस्यापि प्रतियोग्यनुयोगिभ्यां घट-ज्ञानाभ्यामसम्बद्धस्य सम्बन्धत्वं न सम्भवतीति तस्याप्यतिरिक्तः सम्बन्धोऽभ्युपेयः, एवं तस्याप्यतिरिक्त इत्यनवस्थानान्न तयोरतिरिकः सम्बन्धः, एवं सति घटज्ञानं पटज्ञानमिति व्यवहारो निनिमितो मा प्रसासोदित्येकाकारतैव विषय-विषयिणोस्तन्नियामिका इति वाच्यम् , तथा चाचेतनस्य घटस्य घटोपयोगस्य च चेतनस्य घटाकारत्वलक्षणभावघटत्वमविशिष्टमिति घटाकारत्वलक्षणभावघटत्वाश्रयणेन घटपरिज्ञानोपयुक्त भावघटत्वाभिधाने बाधकाभावादित्याह- घट-ज्ञानयोरिति । तज्ज्ञाने घटझाने ।

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274