________________
२६६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
बीजस्स वि संपत्ती जायइ चरमम्मि चेव परिअट्टे । अञ्चन्तसुन्दरा जंएसा वि तओ ण सेसेसु ॥२॥५-८ ण य एअम्मि अणन्तो जुज्जइणेयस्स णाम कालु ति । ओसप्पिणी अणन्ता हुन्ति जओ एगपरिअ?"॥३॥
[बीजादिविशिकायाम्-८, ६, ७ ] तस्माद् योग्यता प्रतिकार्य यथासम्प्रदाय द्रव्यव्यवहारहेतुर्विशिष्याश्रयणीया, न तु द्रव्यमेव, (एवमत्रापि ) द्रव्यकार्यादिव्यपदेशहेतुरायुःसम्बन्धघटितैव, तत्तत्पदसमभिव्याहारेण द्रव्यपदस्य नानार्थताद्योतनात् , अन्यथा द्रव्यस्तवादावगतेः, तदिदमुक्तं-" इयरो पुण जोगात्ते चित्ते जयभेयओ मुणेअबो" [
] ' इतरो द्वितीयो द्रव्यपदार्थः, नयभेदश्व प्रस्थकादिन्यायसिद्धः' इत्यादिविपश्चितमस्माभिर्धर्मपरीक्षायामिति विस्तरार्थिनैतत्तत्त्वं तत एवावगन्तव्यम् । रक्तादिको-रक्तादिपर्यायपरिणामः, भावो-भावघटः, तल्लक्षणं चेदम्
" भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः ।
सर्वहरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ” ॥ १ ॥ [ भवनं भावः, स हि वक्तुरिष्ठक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्केन्द्रादिवदिति, अत्रागमतो भावघटो घटपरिज्ञानोपयुक्तः, नोआगमतो भावघटश्च रक्ततादिपरिणामसमूह इति विवेकः । अथ घटोपयोगमात्रात् कथं भावघट इति चेत् ? न-घट-झानयोरतिरिक्तसम्बन्धाभव्यत्वक्षिप्ता एकान्तस्वभावबाधया ॥१॥ बीजस्यापि सम्पत्तिर्जायते चरम एवं परावर्ते । अत्यन्तसुन्दरा यदेषाऽपि ततो न शेषेषु ॥ २ ॥न चेतस्मिन्ननन्तो युज्यते ज्ञेयस्य नाम काल इति। उत्सर्पिण्योऽनन्ता भवन्ति यत एकपरिवर्ते ॥ ३ ॥” इति संस्कृतम्। उपसंहरति--तस्मादिति- योग्यता विशिष्याऽऽश्रयणीयेति सम्बन्धः, एकस्य कारणस्यैकस्मिन् कार्ये द्रव्यन्यवहारहेतुर्या योग्यता सैव नान्यस्य कारणस्य नान्यस्मिन् कार्ये तथा, नवा तस्यैवान्यकायें तथा; किन्तु प्रतिकार्य विभिन्नैव सा तथा, साऽपि यथा सम्प्रदायं सम्प्रदायमनतिक्रम्यैवाश्रयणीयेत्यर्थः । न तु द्रव्यमेवेतिद्रव्यमेवाविशेषितस्वरूप द्रव्यव्यवहारहेतुर्नाश्रयणीयमित्यर्थः। आयःसम्बन्धघटितवत्यनन्तरं योग्यताऽऽश्रयणीयेत्यनुकर्षः । एवं सति नानार्थता द्रव्यपदस्पेष्टेव, किन्तु तद्योतनं तत्तत्पदसमभिव्यावहारेण भवतीत्याह- तत्तत्पदेति । अन्यथा द्रव्यव्यवहारहेतुतया प्रतिकार्य विशिष्य योग्यताया अनाश्रयणे । तत्र संवादं दर्शयति-तदिदमुक्तमिति । इयरो० इति- " इतरः पुनर्योगात्ते चित्तै नयभेदतो ज्ञातव्यः” इति संस्कृतम् । तदिदमुक्तमर्थ दृढी कर्तुमस्मन्निर्मितधर्मपरीक्षाग्रन्थोऽवलोकनीयो विस्तरार्थिनेत्युपदिशति- इत्यादि विपश्चितमिति ॥
भावो रक्ततादिक इति भावनिक्षेपप्रतिपादक वचनं विवृणोति-रकादिक इति- अस्य स्थाने मूलपद्यपाठानुसारात् 'रकतादिक' इति पाठो युक्तः, अस्यार्थकथनम्-रकादिपर्यायपरिणाम इति । भाव इत्यस्य विवरण-भावघट इति । तल्लक्षणं च भावनिक्षेपलक्षणं तु । इदम् अनन्तरमेवाभिधीयमानम् । " भावो विवक्षित." इति पद्यार्थ संक्षेपेण दर्शयति-भवनमिति । स भावः । हि यतः। अत्रेत्यस्य ' इति विवेकः' इत्यनेन सम्बन्धः । अत्र भावनिक्षेपविचारे पटपरिज्ञानोपयुक्तः पुरुषश्चेतनः, घटवाचेतन इति कथं चेतनस्याचेतनभावरूपत्वमित्याशङ्कते- अथेति । समाधत्ते-नेति । घट-ज्ञानयोर्विषयविषयिभावलक्षणसम्बन्धो यद्यतिरिक उपेयते तदा तस्यापि प्रतियोग्यनुयोगिभ्यां घट-ज्ञानाभ्यामसम्बद्धस्य सम्बन्धत्वं न सम्भवतीति तस्याप्यतिरिक्तः सम्बन्धोऽभ्युपेयः, एवं तस्याप्यतिरिक्त इत्यनवस्थानान्न तयोरतिरिकः सम्बन्धः, एवं सति घटज्ञानं पटज्ञानमिति व्यवहारो निनिमितो मा प्रसासोदित्येकाकारतैव विषय-विषयिणोस्तन्नियामिका इति वाच्यम् , तथा चाचेतनस्य घटस्य घटोपयोगस्य च चेतनस्य घटाकारत्वलक्षणभावघटत्वमविशिष्टमिति घटाकारत्वलक्षणभावघटत्वाश्रयणेन घटपरिज्ञानोपयुक्त भावघटत्वाभिधाने बाधकाभावादित्याह- घट-ज्ञानयोरिति । तज्ज्ञाने घटझाने ।