________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो'
सन्ध्या च सन्ध्या च सन्ध्ये, तयोः सन्ध्ययोः प्रत्यूष-प्रदोषा प्रतिबद्धयोः, सूर्य आदित्योऽदृश्यमानोऽपि प्राप्यं समतीतं च क्षेत्रं यथाऽवभासयति - यथा प्रत्यूषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैवैतदपि प्रक्रान्तं ज्ञातव्यम्, इदमुक्तं भवति - वर्तमानभवस्थितः पुरस्कृतभवं पश्चात्कृतभवं चायुष्कर्मसद्द्रव्यतया स्पृशति प्रकाशेनादित्यवदिति गाथार्थः || ३ || तथापीयं भवद्वयनियतायुष्कर्मघटिता ( तथा ) योग्यता (तया) तथानियमोक्तिर्न तु सर्वत्रानेन नियमेनैव व्यामोहो विषेयः, तीर्थङ्करनामकर्मघटितया योग्यतया नानाभवव्यवधानेनापि मरीचेद्रव्यतीर्थंकरस्वप्रतिपादनात्, “ जे अ अईआ सिद्धा” [ शक्रस्तवे ] इत्यादिना सुदूरव्यवहितानामपि द्रव्यतीर्थकृतां वन्द्यस्त्रप्रतिपादनस्य नानाभवसम्बन्धघटित योग्यतयैवोपपत्तेश्च इत्थमेव पुष्पादिना भगवत्पूजादावुत्क र्षतोऽपार्द्धपुद्गलपरावर्त्तव्यवधानेन भावस्तवरूपफलोपधायकतया द्रव्यस्तवत्वम् अपुनर्बन्धकासुचिताचारे चोत्कर्षतः पुद्गलपरावर्तव्यवधानेन भावाज्ञारूपफलोपधायकतया द्रव्याज्ञात्वमुपदेश पदादावुकं सङ्गच्छते, तत्र समुचितशक्तिरूपाया योग्यतायास्तावत्कालनियताया एव सिद्धेः न च फले पुद्गलपरावर्तव्यवधानमपुनर्बन्धकक्रियाया असिद्धम्, आशातनाब हुलस्योत्कृष्टान्तरस्या पार्द्धपुगलपरावर्तमानस्यैव प्रसिद्धत्वादिति वाच्यम्, बीजादीनां सान्तरेतरत्वभेदश्य तेषामुत्कृष्टान्तरस्यैकपुद्गलपरावर्तमानतायाश्च विशिकायामाचार्यैः प्रतिपादनात् । तदुकं --
16
'बीजाइआ य एए तहा तहा सन्तरेतरा णेया । तहभवत्तखित्ता एगन्तसहावबाधाए ॥ १ ॥ सन्ध्यायाम् । भरतं चेत्यनन्तरमवभासयतीत्यस्यानुकर्षेण सम्बन्धः । प्रदोषसन्ध्यायां सायं सन्ध्यायाम्, तु पुनः, अपरविदेहूं चेत्यनन्तरमपि अवभासयतीत्यस्यानुकर्षेण सम्बन्धः । एतदित्यस्य विवरणं-- प्रक्रान्तमिति । संक्षेपेण निरुक्तगाथार्थमनुगमय्य दर्शयति- इदमुकं भवतीति । इदं वर्तमानभवस्थित इत्यादिनानन्तरमेवाभिधीयमानम्, उक्तम् एतद्द्वाथयोच्चरितम् अन्यत् स्पष्टम् । यद्यपीत्युक्तिव्यपेक्षेयं तथापीत्युक्तिः । इयमित्यस्य नियमोक्तिरित्यनेन सम्बन्धः । न त्वित्यस्य विधेय इत्यनेन सम्बन्धः । कथं भवद्वयनियतायुष्कर्मघटितया योग्यतयैव सर्वत्र वर्तमानभवगतभावस्याव्यवहितभवगतमेव द्रव्यमिति नियमो नेत्याकाङ्क्षायां तत्र हेतुमुपदर्शयति तीर्थङ्करेति । नानाभवसम्बन्धघटितयोग्यतयाऽपि द्रव्यत्वे हेत्वन्तरमप्युपदर्शयति- जे अ० इति जे अ अईआ सिद्धा, जे अ भविस्संति अणागयकाले । संपइ वट्टमाणा सन् तिविहेण वंदामि ॥ इति संपूर्णः पाठः, " ये चातीताः सिद्धा ये च भविष्यन्ध्यनागतकाले सम्प्रति वर्तमानाः सर्वान् त्रिविधेन वन्दे " इति संस्कृतम् । वन्द्यत्वप्रतिपादनस्येत्यस्योपपत्तेरित्यनेन सम्बन्धः । इत्थमेवेत्यस्य सङ्गच्छते इत्यनेनान्वयः । इत्थमेव नानामवसम्बन्धघटितयाऽपि द्रव्यत्वमित्यभ्युपगमप्रकारेणैव । अपार्द्धपुद्गलपरावर्तादिसमयविज्ञानं समयसमुद्रात् कर्तव्यम् । द्रव्यस्तवत्वमित्यस्योपदेशपदादावुक्तमित्यनेन सम्बन्धः । अपुन
"
केति न पुनरपि कर्मबन्धी मोहनीय कर्मोत्कृष्टबन्धनं यस्य सोऽपुनर्वन्धकः तलक्षणं यथा- "पावं न तिव्वभावा कुणइ ण बहु मन्नइ भवं घोरं । उचिअठि च सेवइ, सव्वत्थ वि अपुणबंधोति ॥ यद्वा- " भवाभिनन्दिदोषाणां प्रतिपक्ष गुणैर्युतः। वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः ॥ " इति तत्र अपुनर्बन्धकक्रियायाम्, तावत्कालनियतायाः पुद्गलपरावर्तव्यवधानकालनियतायाः । न चेत्यस्य वाच्यमित्यनेनान्वयः । अपुनर्बन्धक क्रियायाः फले पुद्गलपरावर्त व्यवधानस्यासिद्धत्वे हेतुमुपदर्शयति- आशातना बहुलस्येति | निषेधे हेतुमाह - बीजादीनामिति । सान्तरेतरत्वभेदस्य बीजादीनि सान्तराणि निरन्तराणि चेत्येवं भेदस्य, अस्य विशिकायामाचार्यैः प्रतिपादनादित्यनेन सम्बन्धः । तेषां बीजादीनाम् । उक्तार्थप्रतिपादकं विंशिकागतं गाथात्रितयमुल्लिखति- बीजा इआ य० इति - बीजादिका चैते तथा तथा सान्तरेतरा केयाः । तथा
Br
पिन--3820 २६५
-