________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो मयोपदेशः ।
२६७
भावेन घटाकारतायास्तज्ज्ञानेऽवश्यं स्वीकर्तव्यत्वात् तादृशभावमपेक्ष्य घटोपयुक्तेभ्यश्च भावघटत्वोक्तो बाधकाभावात् , अग्न्युपयुक्तस्य भावाग्नित्वे बाधकमुक्तमेव तदन्यत्रापि समानमिति चेत् ? सत्यमुक्तम्परमयुक्तम्-नह्यनलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको भस्माच्छन्नाग्निना व्यभिचारात् , ज्ञानाद्वैतनयमतमेतदिति चेत् ? किं ततः ? सर्वनयमये भगवत्प्रवचने [ ] यथाधिकारं यथेष्टतयाश्रवणे दोषाभावादिति किमतिप्रसक्तानुप्रसत्या ॥ ८६ ।। तदेवं भिन्ने वस्तुनि निक्षेपचतुष्टयमवतारितम् , अथैकस्मिन्नैव तदवतारयन्नाह
एकद्रव्येऽप्यात्मनामा-कृति-कारण-कार्यता।
पुरस्कृत्य महाभाष्ये, दिष्टाः पक्षान्तरेण ते ॥ ८७॥ नयामृत-एकद्रव्येऽपीति-एकस्मिन्नपि द्रव्ये, आत्मनो-विवक्षितपदार्थस्य, नाम-अभिधायकं पदम् , आकृतिः-संस्थानम् , कारणता-तत्पर्यायजननशक्तिः, कार्यता-तपेमाभिव्यक्तिः, एताः पुरस्कृत्य मेलयित्वा, पक्षान्तरेण-भिन्नपक्षाभिप्रायेग, ते-नामादयश्चत्वारोऽपि निक्षेपाः, महाभाध्ये
wom दिष्टा:-प्रतिपादिताः, तथा च तगाथा"अहवा बत्थुभिहाणं नामं ठवणा य जो तयागारो। कारणया से दव्वं कज्जावन्नं तयं भावो ॥"
[विशेषावश्यकभाष्ये गा० ६०] इति,
ommmmmmmm......... तादृशभावं घटाकारत्वलक्षणभावम् । “घटो यश्च" इत्यस्य स्थाने "घटोपयुक्त" इति पाठो युक्तः । यथाऽग्न्युफ्युक्तस्य पुरुषस्य भावाग्नित्वेऽग्निना यथा दहनकार्यमुपजायते तथाऽग्न्युययुक्तपुरुषेणापि दहन कार्य स्यादित्यापत्तिलक्षणबाधकाद् यथाऽग्न्युपयुक्तस्य न भावाग्नित्वं तथा घटोपयुक्तस्य जलाहरणादिकार्यकारित्वप्रसझलक्षणबाधकान्न भाव. घटत्वमित्याशङ्कत- अग्न्युपयुक्तस्येति । तत् तस्कार्यकारित्वलक्षणबाधकम् । अन्यत्रापि घटपरिज्ञानोपयुक्तस्य भाव. घटत्वेऽपि । प्रमाधत्ते-सत्यमुक्तमिति- नोक्तं भवता तदिति न किन्तु उक्तमेवेत्यर्थः । परं किन्तु । अयुतत्वे हेतुमाहनहीति- यत्र यत्रानलत्वं तत्र दहमाद्यर्थक्रियासाधकत्वमिति नियमो नास्तीत्यर्थः । तत्र हेतुमाह-भस्मेति-भस्माच्छादितोऽप्यग्निरग्निर्भवत्येव न च स दहनाद्यर्थक्रियासाधक इत्येवं व्यभिचारादित्यर्थः। बाधघटस्य ज्ञानात्मकत्वं न सम्भवतीति न बाह्यपदार्थाभ्युपगन्तृमते भावघटरूपता घटोपयोगस्य, किन्तु सर्वस्थ वस्तुनो ज्ञानाकारत्वाज्ज्ञानरूपत्वमेवे. त्यभ्युपगन्तयोगाचारमत एवं घटोपयोगस्य भावघटत्वमिति तथाऽभ्युपगमे योगाचारमतप्रवेशः स्यादित्याशङ्कते-ज्ञाना. द्वैतेति । समाधत्ते-किं तत इति-भवत्वेतस्य ज्ञानाद्वैतनयमतत्वं तस्मात् किं नः सर्वनयमयभगवत्प्रवचनाधितानां छिन्नमित्यर्थः । “यथेष्टतयाश्रवणे" इत्यस्य स्थाने " यथेष्टनयाश्रयणे" इति पाठः सम्यक् ॥ ८६ ॥
सप्ताशीतितमपद्यमवतारयति-तदेवमिति । भवतारितं योजितम् । एकस्मिन्नेवेत्यनन्तरं वस्तुनीति दृश्यम् । तत निक्षेपचतुष्टयम् । विवृणोति-एकद्रव्येऽपीतीति । विवक्षितपदार्थस्य यथा घटस्य नामनिक्षेपादिचतुष्टयविवक्षायां नामादिनिक्षेपचतुष्टयास्पदतया विवक्षितस्य घटपदार्थस्य, यदभिधायकं घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपर्यवच्छिन्नं घटेति पदं तद् घटस्य नामनिक्षेपः, तस्य यत् कम्बुग्रीवाद्यवयवसन्निवेशविशेषविशिष्टपृथुबुध्नायाकारलक्षणं संस्थानं तद् घटस्य स्थापनानिक्षेपः, घटस्य या कारणतोत्तरोत्तरप्रतिक्षणभाविपर्यायजननशक्तिः सैव घटस्य द्रव्यनिक्षेपः, घटस्य घटरूपेण याऽभिव्यक्तिस्तद्रपा कार्यतैव तस्य भावनिक्षेप इत्यर्थः । पताः आत्मनामाऽऽकृति-कारण-कार्यताः । पुरस्कृत्येत्यस्य विवरण-मेलयित्वेति । पक्षान्तरेणेत्यस्य विवरण-भिन्न पक्षाभिप्रायेणेति । ते इत्यस्य विवरण मामादयश्चत्वारोऽपि निक्षेपा इति । दिष्टा इत्यस्य विवरणं-प्रतिपादिता इति । तदाथा महाभाष्यगाथा । अहवा. इत्ति-" अथवा वस्त्वभिधानं नाम स्थापना च यस्तदाकारः । कारणता तस्य द्रव्यं कार्यापनं तकतू भावः ॥"