________________
२६८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
अस्मिश्च पक्षे “ व्यक्त्या.ऽऽकृति-जातयः पदार्थः" [न्यायदर्शन० अ-१, सू.] इति गौतमीयसूत्रं यथा त्रिषु पदार्थपर्याप्त्यभिप्रायेण व्याख्यायते तथा " नाम-स्थापना-द्रव्य भावतस्तन्यासः " [ तत्त्वार्थ० अ० १, सू० ५] इत्यस्मदीयं तत्त्वार्थसूत्रमपि चतुर्यु पर्याप्स्यभिप्रायेण व्याख्येयम् , अधिकविषयपक्षपाती च व्यवहारः, नह्याकृतिरिव नामापि स्वरसतः पदान्न प्रतीयते, नवाऽऽकृतिवत्ताया इव नामवत्ताया अपि संशयः शाब्दबोधानन्तरमबतिष्ठत इत्यादिरन्यत्र विसरः ॥ ८७ ॥ __ तदेवं भिन्नद्रव्ये एकद्रव्ये वा चत्वारोऽपि निक्षेपा द्रव्यार्थि के सिद्धाः, एतेषां च सर्वव्यापकत्वं श्रूयते, तद्व्यभिचारशङ्कामुन्नीय प्रायिकव्यात्यभिप्रायेण व्यवस्थापयति
अप्रज्ञाप्याभिधा द्रव्यजीव-द्रव्याद्ययोगतः।
न चाव्यापित्वमेतेषां, तत्तद्भेदनिवेशतः ॥ ८८॥ इति संस्कृतम् । अस्मिंश्च अनन्तरोपदिष्टे च । त्रिषु- व्यक्त्याकृतिजातिषु । पदार्थपर्याप्त्यभिप्रायेण पदार्थत्वं व्यक्त्याकृतिजातिषु पर्याप्तमित्यभिप्रायेण । अस्मदीयं स्याद्वादराद्धान्तकान्तोपासकास्मदाचायश्रीमदुमाखातिभगवद्गुम्फितम् ।
धु नाम-स्थापना-द्रव्य-भावेषु । पर्यापत्यभिप्रायेण नाम-स्थापना-द्रव्य-भावेषु पदार्थत्वं पर्याप्तमित्यभिप्रायेग । ननु स्थापना आकृतिः, द्रव्यमनुगतत्वाजातिः, भावो व्यक्तिः, एतन्त्रितयस्य पदार्थत्वाभ्युपगमो जैन-नैयायिकयोः समानः, नाम्नस्तु पदार्थत्वं न नैयायिकेनाभ्युपगतं जैनेन तु तस्याप्यधिकस्य पदार्थत्वमभ्युपगम्यते, तत्र ।
“शक्तिमहं व्याकरणोपमान-कोशाऽऽप्तवाक्याद् व्यवहारतश्च ।।
वाक्यस्य शेषाद् विवृतेवदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः॥1॥" [ ] इति वचनप्रसिद्धशक्तिप्राहकव्याकरणादिषु मध्ये कस्य बलान्नामिन शक्तिप्रहः, येनाधिकस्य तस्य पदार्थले परीक्षकै. रनुमोदनीयं स्यादित्यत आह-अधिकविषयपक्षपाती च व्यवहार इति-लौकिकव्यवहारे यत्पदाद् यमर्थमवगत्य व्यवहरति पुरुषस्तत्पदस्य तत्र शक्तिरवगम्यते, यथा घटमानयेत्यत्र घटपदाद् घटरूपार्थमनगत्य तदानयनादिव्यवहारमाचरति, एवं घटमुचारयेत्यत्र घटपदादू घकारोत्तराकारोत्तरट कारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति नामावगत्य तदुचारणव्यवहारमाचरतीत्येवं नैयायिकानुमतपदार्थत्रयादधिको नामात्मको यो विषयः, तस्य पदार्थत्वाभ्युपगमके जनपक्षे पतितहान्य विधातुं शीलं यस्य सोऽधिकविषयपक्षपाती, च पुनः, व्यवहारः, तथा च शक्तिग्राहकतया प्रसिदस्य व्यवहारस्य नाम्न्यपि पदस्य शक्तिप्राहकत्वमित्यर्थः। यथा चाकृतिः स्वरसतः पदात् प्रतीयते तथा नामापि स्वरसत एवं पदात् प्रतीयत इत्यतो यथाऽऽकृतौ पदार्थत्वं तथा नाम्न्यपि पदार्थत्वं स्त्रीकरणीयमित्याह-नहीति-द्वौ नौ प्रकृतमर्थ गमयतः' इति वचनाद् 'नहि न प्रतीयते' इति निषेधद्वयात प्रतीयत एवेत्सवमतिः। नवेति-शाब्दबोधानन्तरमाकृति. वत्तायाः संशय इव नामवत्तायाः संशयोऽपि नवाऽवतिष्ठत इत्यन्वयः, घटपदाच्छाब्दबोधे सति घट आकृतिमान् न वेति संशयो यन भवति तत्रेदमेव कारणं-यदुत घरपदादाकृतिमत्तयैव घटस्य निर्णयात्मकः शाब्दबोधः, निर्णयश्च संशयविरोधी, अर्थादाकृतिमत्त्वप्रकारकघटविशेष्यनिर्णय आकृतिमत्त्वप्रकारकघटविशेष्यकसंशयस्य प्रतिबन्धक इति तदभावरूपकारणस्याभावात् तथासंशयो न भवतीति, एवं घटपदाच्छाब्दबोधे जाते घटो नामवान् नवेति संशयोऽपि न भवति, तत्राप्येतदेव कारणं वाच्यं-यद्धटपदात् घटनामवान् घट इति घटनामवत्त्वप्रकारकपटविशेष्यनिर्णयात्मकः शाब्दबोधो घटविशेष्यकघटनामवत्त्वप्रकारकसंशयप्रतिबन्धक इति तदभावरूपकारणाभावाद् घटो घटनामवान् नवेति संशयो न भवतीत्यतो घट पदजन्यशाब्दबोधविषयत्वानाम्नोऽपि पदार्थत्वमित्यर्थः ।। ८७ ॥
अष्टाशीतितमपीकोननवतितमपद्ये अवतारयति-तदेवमिति । एतेषां नाम-स्थापना-द्रव्य भावनिक्षेपाणाम्, सर्व व्यापकत्वं सर्वस्मिन् वस्तुनि नामादयश्चत्वारो निक्षेपाः प्रवर्तन्त इति यत्र यत्र वस्तुत्वं तत्र नामादिनिक्षेपचतुष्टयतत्त्वमित्येवं सर्वव्यापकत्वम् , श्रयते यत्रापि यं जानी याद् , यत्रापि यं न जानीयात् तत्रापि निक्षिपेदित्याद्यागमवचनेन प्रतिपाद्यते।