________________
२६९
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः । इतीयं प्रायिकी व्याप्तिरभियुक्तैर्निरूप्यते ।
यत्तत्पदाभ्यां व्याप्तिश्चानुयोगद्वारनिश्चिता ॥ ८९ ।। नयामृत-अप्रज्ञाप्येति, इतीयमिति । एतेषां-नामादीनां चतुर्णा निक्षेपाणाम् , अप्रज्ञाप्ये वस्तुनि, अभिधाया-नाम्नोऽप्रयोगात् , जीव द्रव्ययोश्च जीवत्वेन द्रव्यत्वेन च भूत-भविष्यत्पर्यायभावेन तत्कारणस्वाभावाद् द्रव्यनिक्षेपस्यायोगात् , न चाव्यापित्वमाशङ्कनीयम् , कुतः ? तब्यभिचारस्थानभेदस्य निवेशात् , इति-हेतोः, इयं-यद् यद् वस्तु तत् तन्निक्षेपचतुष्टयवद् इत्याकारा व्याप्तिः प्रायिकी, अभियुक्तैः-पण्डितैर्निरूप्यते, व्याप्यतावच्छेद केऽप्रज्ञाप्यजीवद्रव्यादिभेदनिवेशात् , ननु यदि सामान्यतो व्याप्तेहिकं प्रमाणं स्यात् तदा तत्रायं सङ्कोचः कर्तुं शोभते तदेव तु किमित्याशङ्कायामाह-व्याप्तिश्च, यत्तत्पदाभ्यामनुयोगद्वारसूत्रादेव निश्चिता ।
" जत्थ य ज जाणिज्जा निरकेवे हिरवसेसं । जस्थ वि य न जाणिज्जा चउकयं गिरिकवं तत्थ ।।" [ अनुयोगद्वारे सू० १ ] इति ।
तत् सर्वनिक्षेपाणां सर्वव्यापकत्वम् , अस्य व्यवस्थापयतीत्यनेनान्वयः। व्यभिचारशङ्काम् अप्रज्ञाप्यादिवस्तुनि नामादिनिक्षेपाभावतो यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवत्त्वमिति नियमाभावशङ्कायाम् । उन्नीय उद्भाव्य। विवृणोति-अप्रज्ञाप्येतीतिप्रथमपद्यप्रतीकधारणम्, इतीयमितीति-द्वितीयपद्यप्रतीकधारणम् । एतेषामित्यस्य विवरणम्-नामादीनां चतुर्णी निक्षेपाणामिति । अप्रज्ञाप्ये विशिष्य प्रतिपादकवचनाभावाद् वचनेन ज्ञापयितुमशक्ये । वस्तुनीत्युक्त्या यदक्तुमशक्यं तच्छशशृङ्गवदनुपाख्यत्वाद् वस्त्वेव न भवतीत्यभिमानस्य व्यवच्छेदः, दधि-दुग्ध-गुड-सिता-शर्करादीनामन्योऽन्यविल. क्षणमाधुर्यस्य प्रमात्रानुभूयमानस्य वस्तुनोऽपि विशिष्य वचनेन प्रतिपादयितुमशक्यत्वात् , अभिधाया अयोगोऽप्रयोग एव, यन्नाम तत् प्रयुज्यत एव इत्याशयेन नाम्नोऽयोगादिति वक्तव्ये नाम्नोऽप्रयोगादित्युक्तम् । जीव-द्रव्ययोश्चेत्यादि भ्याख्यानप्रन्थस्वारस्यान्मूले "अप्रज्ञाप्यामिधाद्रव्यजीवद्रव्याद्ययोगतः” इत्यस्य स्थाने " अप्रज्ञाप्याभिधाजीवद्रव्यद्रव्याययोगतः" इति पाठो भवितुमर्हति । " भूतभविष्यत्पर्यायभावेन" इत्यस्य स्थाने “भूत-भविष्यत्पर्याया. भावन" इति पाठो युक्तः, जीवस्य जीवत्वेन भूतस्य भाविनो वा पर्यायस्याभावेन द्रव्यस्य द्रव्यत्वेन भूतस्य भाविनो या पर्यायस्याभावेन चेत्यर्थः, नहि जीवस्य जीवलक्षणः पर्यायो भूतो भावी वा, नवा द्रव्यस्य द्रव्यलक्षणः पर्यायो भूतो भावी वेति । तत्कारणत्वाभावात् जीवात्मक-द्रव्यात्मकपर्यायकारणत्वाभावात् । द्रव्यनिक्षेपस्यायोगादिति-जीवो जीवस्य कारणं यदि भवेत् तदा जीवकारणीभूतो जीवो द्रव्यजीवो भवेत् , जीवश्चानादिनिधनत्वात् कार्यमेव न भवतीति न तं प्रति जीवस्य कारणत्वमिति जीवात्मकवस्तुनि द्रव्य जीव इत्येवंरूपस्य द्रव्यनिक्षेपस्याभावात् , एवं द्रव्यं प्रति द्रव्यं यदि कारणं स्यात् तदा द्रव्यकारणीभूतं द्रव्यं द्रव्यद्रव्यं भवेत् , द्रव्यं च ध्रौव्यस्वभावत्वात् कार्यमेव न भवतीति न तत् प्रति द्रव्यस्य कारणत्वमिति द्रव्यात्मकवस्तुनि द्रव्यद्रव्यमित्येवरूपस्व द्रव्यनिक्षेपस्याभावादित्यर्थः, एतच्चाव्यापित्वमित्यत्रान्वेति । अव्यापित्वं निक्षेपचतुष्टयस्य वस्तुत्वाव्यापकत्वम् , न चाशनीयमित्यन्वयः। पृच्छति-कुत इति-कुतोऽव्यापित्वं नाशकू. नीयमित्यर्थः। उत्तरयति-तद्वयभिचारस्थानभेदस्य निवेशादिति-यत्र यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवस्वमिति नियमे व्यभिचारस्थानमप्रज्ञापनीयादि सद्भेदस्य निवेशात् , अप्रज्ञापनीयादिभिन्नत्वे सति वस्तुत्वे यत्र तत्र निक्षेपचतुष्टयवश्वमित्येव हि नियमः, तत्र न व्यभिचार इत्यर्थः ॥
इसीयमित्यत्रेतिशब्दो हेतुपर इत्याशयेनाह-इति हेतोरिति । इयमित्यस्य विवरणं-यद् यद् वस्तु तत् तद् निक्षेपचतुष्टयवदित्याकारेति । व्याप्तिर्नियमः । प्रायिकी सम्भावितार्थस्वभावा । अभियुक्तरित्यस्य विवरणंपण्डितैरिति । कथं निरूप्यते ? इत्याकालानिवर्तकं यत्तद्भेदनिवेशत इति, तस्यैव हेतोः स्पष्टीकरणं-व्याप्यता. बच्छेदकेऽप्रयाप्य जीवद्रव्यादिभेदनिवेशादिति-तथा च किश्चिद्विशेषप्रदानेन सोचमानीता व्याप्तिः प्रकृते प्रायिकी