________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तत्पाठात् यो धूमवान् सोऽग्निमानितीव व्याप्त्युपस्थितेरावश्यकत्वादिति भावः ॥ ८८-८९ ।।
एतच्च प्रायिकव्यात्यभिधानं तत्त्वार्थटीकाकृन्मतेन, तथा च ते आहुः--" यद्येकस्मिन्न सम्भवति नैतावता भवत्यव्यापिता " [ तत्त्वार्थ० अ० सू० ] इति, एतदेव च सम्प्रदायशुद्धमिति । अत्र मतद्वयमुपन्यस्य दूषयति
आदिष्टजीव-द्रव्याभ्यां, द्रव्यन्यासस्य सम्भवम् । अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च ब्रुवते परे ॥ ९० ॥ तञ्चिन्त्यमुपयोगो यन्नाम द्रव्यार्थिकस्य न । नरादेव्यजीवत्वे, सिद्धे स्याद् भावजीवता ॥ ९१ ॥ आदिष्टद्रव्यहेतुत्वाद्, द्रव्यद्रव्यप्रतिश्रुतौ ।
भावद्रव्यं न किञ्चिद् स्याद्, गुणेऽपि द्रव्यताऽर्पणात् ॥ ९२ ॥ नयामृत-आदिष्टेत्यादिनयेण-परे-आचार्याः, अप्रज्ञाप्ये-वस्तुनि, जिनप्रज्ञारूपनामनिक्षेपस्य सम्भवं ब्रुवते, यत्र न शृङ्गग्राहिकया सङ्केतः कतुं शक्यस्तत्र केवलिप्रज्ञैव नाम तयैव तत्कार्यकरणात्, न च नाम शब्दरूपमेवेति, मौनिकृतलिप्यादौ व्यभिचारात्, मनुष्यादिनीव एव भाषिदेवादिजीवव्याप्तिर्यत्र न व्यभिचारावकाश इत्याशयः । उत्तराई व्याख्यातुमवतारयति-नन्विति । तत्र सामान्यतो व्याप्तौ। अर्य तत्तयभिचारस्थानभेदनिवेशलक्षणः, तदेव सामान्यतो व्याप्तेहिकं प्रमाणमेव । उक्तव्याप्तौ प्रमाणभूतमजुयोगद्वारसूत्रमुल्लिखति-यत्थ य० इति-" यत्र च यं जानीयानिक्षेप निक्षिपेचिरवशेषम् । यत्रापि च न जानीयाश्चतुष्टयं निक्षिपेत् तत्र ॥" इति संस्कृतम् । तत्पाठात् उक्तानुयोगद्वारसूत्रपाठात् ॥८८1८९ ॥ ___ नवतितमपद्यमवतारयति-पतञ्चेति । ते तत्त्वार्थटोकाकाराः । तत्पाठमुल्लिखति-योकस्मिन्निति । एतदेव तस्वार्थटीकाकृन्मतमेव । अत्र एतद्विचारे । मतद्वयमुपन्यस्यति-आदिष्टेत्यादिपयत्रयेणेकं मतम्, अन्ये स्वित्यायेकपद्येन द्वितीयं मतं चोपन्यासपुरस्सर दूषणास्पदं विदधातीत्यर्थः। विवृणोति-आदिष्ठेत्यादिनयेणेति-प्रथममतं न्यस्य निरा. करोतीति दृश्यम् । तत्र नवतितमपद्यव्याख्यानं प्रथममधिकरोति-परे आचार्या इति। अत्र परे के ? इत्याकाहानिवृत्तये आवार्या इति, अस्य 'ब्रवते' इत्यनेन सम्बन्धः । अप्रज्ञाप्यं किमित्याकाङ्क्षोपशान्तये वस्तुनीति । जिनप्रज्ञानाम्न इत्यस्य विवरण-जिनप्रज्ञारूपनामनिक्षेपस्येति । जिनप्रज्ञायाः कथं नामत्वमित्यपेक्षायां नामकार्यकारित्वात् तस्या नामत्व. मित्याह-योति-यस्मिन् प्रज्ञाप्ये वस्तुनीत्यर्थः । शृङग्राहिकयेति-यथा कश्चिद् गोपो निजस्य गोविशेषस्य गवां समूहे स्थितस्य स्वसम्बन्धित्वावगतये शॉ हस्तेन गृहीत्वेयं गौर्मदीयेत्येवं सङ्केतं ग्राहयति तथा यत्र वस्तुनि यस्य पदस्य सङ्केतः करणीयस्तद्वस्त्वसाधारणरूपेणोपादाय तत्र पदविशेषस्य सङ्केतकरणं शृङ्गमाहिकान्यायस्तेनेस्यर्थः। तत्र प्राहिकान्यायन सङ्केतकरणायोग्य वस्तुनि । केवलिप्रव केवलिनः सर्वज्ञस्य यत् तद् वस्तुविज्ञानं तदेव, एवकारेण तदन्यस्य तत्र नामत्वव्यवच्छेदः । नाम नामनिक्षेपः । तयैव केवलिप्रज्ञयव । तत्कार्यकरणात नामनिक्षेपकार्यस्य करणादुत्पादनात् । ननु नाम शब्दस्वरूप प्रज्ञा तु शब्दानात्मिकेति कथं तस्या नामत्वमित्याशङ्कां प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-मौनिकृते. ति-मौनव्रतधारिपुरुषकृतं यदक्षरविशेषसङ्केतितरेखाविशेषात्मकं लिप्यादि शब्दानात्मकेऽपि तत्र शाब्दबोधविशेषजनकत्वेन नामत्वस्य भावन शब्दात्मकत्वस्य तत्राभावेन व्यभिचारान्नाम शब्दरूपमेवेति नियमासम्भवादित्यर्थः । निक्षेपेषु नाम्नः प्राथमिकत्वात् व्यापकत्वशङ्कापनोदकमेव प्रथमं व्याख्येयमित्याशयेनोत्तरार्द्धगतस्यापि तस्य पूर्व व्याख्यानमिति बोध्यम् । दन्यनिक्षेपाम्यापकत्वाशङ्कापनोदकमादिष्टेत्यादिकं पर्यवसितभावार्थकथनेन विवृणोति-मनुष्यादिजीव एवेति-स्पष्टम् ॥