________________
गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
पर्यायहेतुत्वाद् द्रव्यजीवो, मृदादिद्रव्यमेव आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वाद् द्रव्यमिति वक्तुं शक्यत्वादिति भावः॥
तद्-एतन्मतं, चिन्त्यम्, यद्-यस्माद्, द्रव्यार्थिकस्य नयस्य मते, उपयोगो नाम न भवति, शाब्दबोधनजनकाक्षरलिप्यादेरेव तेन नाम्नः स्वीकारादिति द्रव्यार्थिकविषयनिरूपणे केवलिज्ञानरूपं नामातिरिकं वाचादिष्टम् , ( अप्रज्ञाप्यवस्तुनि नाम न भवति ), जीवहेतुतया नरादेव्यजीवत्वे चाभ्युपगम्यमाने सिद्ध भावजीवत्वं स्यात् तत्रादिष्टे द्रव्यहेतुत्वाभावादिति संसारिजीवमात्रे भावजीवत्वाभिधायकसिद्धान्तब्याकोप: स्यात् ॥ आदिष्टद्रव्यहेतुत्वाद्धेतोः द्रव्यद्रव्यस्य प्रतिश्रुतौ-स्वीकारे च भावद्रव्यं किमपि न स्यात् , यदेव भावद्रव्यं स्वीक्रियतेऽन्यावयव्यादि, तत्रापि तद्गतगुणे द्रव्यतामर्पयि. स्वादिष्टद्रव्यहेतुतया द्रव्यद्रव्यव्यपदेशस्य कर्तुं शक्यत्वात् । किञ्च, स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्नकर्मतानिरूपितकारणताबोधन एव द्रव्यस्य साकाङ्कृत्वान्मनुष्यो द्रव्यजीव इत्यादि दुर्वचम् , अन्यथा
प्रथमपद्योपदिष्टमतदूषणपरं द्वितीयपद्य विवृणोति-तदिति-अस्य विवरणम्-एतन्मतमिति । एतन्मतस्य चिन्त्यत्वे हेतुमाह-यदिति-तदर्थो यस्मादिति । नयस्य मते इति शेषः कृतः। द्रव्यार्थिकमते कुत उपयोगो नाम न भवतीत्याकालायामाह-शाब्दबोधेति-शाब्दबोधजनकं यदक्षरलिप्यादि तस्यैव नाम्नो नामरूपस्य तेन द्रव्यार्थिकनयेन स्वी. कारादभ्युपगमादित्येतस्मात् कारणाद् द्रव्यार्थिकनयविषयस्य नाम्नो निरूपणे प्रकान्ते केवलिज्ञान-कवलिसम्बन्धि ज्ञानरूपं नामातिरिक्तमपि वाचादिष्ट-वचनमात्रेणादिष्टं न तु युक्तियुपपन्नम् , कुत्र वाचादिष्टमित्याकाडानिवृत्तये-अप्राप्यवस्तुनीति, तनाम नामनिक्षेपो न भवतीत्यर्थः । जीवहेतुतया देवादिजीवकारणत्वेन नरादेरादिपर्यायापन्नजीवस्य द्रव्यजीवत्वे स्वीक्रियमाणे पुनः सिद्ध सिद्धावस्थे जीवे, भावजीवत्वं स्यात् । कथं सिद्धजीवस्यापि भावजीवत्वमित्यपेक्षायामाह-तत्रेतिसिद्धे इत्यर्थः । " आदिष्टे द्रव्यहेतुत्वाभावादिति" अस्य स्थाने " आदिष्टद्रव्यहेतुस्वाभावादिति" इति पाठ: समुचितः, आदिष्टव्यस्य जीवत्वेनादिष्टस्य द्रव्यस्य जीवस्य हेतुत्वाभावात् . नहि सिद्धपर्यायस्योत्तरं कोऽपि जीवपर्यायो यत्कारणत्वं सिद्धस्य स्यादित्यर्थः । भवतु सिद्धमात्रस्यैव भावजीवत्वम् , संसारिजोवस्य तु द्रव्यजीवत्वमेव का नो हानिरित्यत आह-संसारिजीवमात्र इति “संसार्यसंसारिजीवमात्रे” इति पाठः सम्यग् उपयोगलक्षणो जीवः स संसारी सिद्धश्चेत्यादिकस्य संसार्यसंसारिजीवमात्रे भावजीवत्वाभिधायकस्य सिद्धान्तस्य व्याकोपो व्याघातः स्यात् सिद्धमात्रस्य भादजीवत्वाभ्युपगम इत्यर्थः ॥
तृतीयपद्यं विवृणोति-आदिष्टद्रव्यहेतुत्वादिति । प्रतिश्रुतावित्यस्य विवरणं स्वीकारे चेति । नन्ववयवानात्मकावयविखरूपस्य घटादेर्न द्रव्यं प्रति कारणत्वमिति तस्य भावद्रव्यत्वं भविष्यत्यत आह-यदेवेति । अन्त्यावयवित्वमक्यवानात्म. कावयविस्वम् । तत्रापि अन्त्यावयव्यादिद्रव्येऽपि । तद्गतगुणे अन्त्यावयव्यादिगतगुणे । द्रव्यतामर्पयित्वा गुण-गुणिनोरभेद इत्यभ्युपगन्सृनये गुणिनो द्रव्यत्वे तदभिन्नस्य गुणस्यापि द्रव्यत्वमित्येवं द्रव्यतामर्पयित्वास आदि द्रव्यहेततया भादिष्टद्रव्यं यदवयवादिगतगुणस्तस्य कारणत्वेन । मनुष्यजीवस्य देवात्मकजीवकारणत्वाद् द्रव्यजीवत्वं प्रकारान्तरेण दूषयतिकिति । स्वसमभिव्याहतेति-"कर्मता" इत्यस्य स्थाने " कार्यता" इति पाठः सम्यग् , मनुष्यो द्रव्यजीव इत्यत्र स्वं द्रव्यपदं तत्समभिव्याहृतं जीवपदं तदर्थावच्छेदकं जीवत्वं न तु देवत्वमिति जीवत्वावच्छिन्न कार्यताया अप्र. सिद्धत्वादु देवत्वावच्छिन्नकार्यताया ग्रहीतुमशक्यत्वान्मनुष्यो द्रव्यजीव इति वक्तुमशक्यम् , मृत्पिण्डो द्रव्यघट इति च वक्तं शक्यते. तत्र स्वं द्रव्यपदं तत्समभिव्याहृतं घटपदं तदर्थतावच्छेदकं घटत्वं तदवच्छिन्नकार्यतानिरूपितकारणत्वस्य मृत्पिण्डे सत्त्वादित्यर्थः । अन्यथा स्त्रसममिव्याहृत पदार्थतावच्छेदकावच्छिन्न कार्यतानिरूपितकारणताबोधन एव द्रव्यपदस्य साकारत्वमिति नियमस्यानभ्युपगमे । मृरिपड इति-यथा मृत्पिण्डो द्रव्यघट इति प्रयोगो भवति तथा मृस्पिण्डो द्रव्यपट इति प्रयोगस्यापि प्रसङ्गादित्यर्थः । ननु मृस्पिण्डो द्रव्यघट इत्यस्य घटकारणं मृत्पिण्ड इत्यर्थः, सच घटं प्रति मृत्पिण्डस्य कारणत्वात् सम्भवति. मृस्पिण्डो द्रव्यपट इत्यस्य तु पटकारणं मृत्पिण्ड इत्यर्थः स्यात् , न च स सम्भवति, पटं प्रति