________________
२७०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
मपिण्डो द्रव्यघट इतिवत् द्रव्यपट इत्यस्याप्यापत्तेः, कार्यमात्रे कालोपाधिविधयापि तस्य पटहेतुत्वादिति विभावनीयं सुधीभिः ॥ ९० ।। ९१ ॥ ९२ ॥
अन्ये तु द्रव्यजीवो धीसन्यस्तगुण-पर्ययः ।
तदसन्न धिया तेषां, सन्यासः स्यात् सतां यतः ॥ ९३ ॥ नयामृत-अन्य इति । अन्ये त्वाचार्याः, धिया-बुद्ध्या सन्न्यस्ता गुण पर्याया यस्य स तथा, गुण-पर्यायवियुक्तः प्रज्ञास्थापित इति यावत्, तादृशो जीवो द्रव्यजीव इति व्याचक्षते, तदसत्- यतः सतां तेषां-गुण-पर्यायाणां धिया सन्न्यासो न स्यात् , नहि यादृच्छिकज्ञानायत्ताऽर्थपरिणतिरस्ति । जीवशब्दार्थज्ञस्तत्रानुपयुक्तः, जीवशब्दार्थज्ञस्य शरीरं वा जीवरहितं द्रव्यजीव इति मृपिण्डस्य कश्चिदपि कारणत्वाभावादित्यत आह -कार्यमात्र इति । "कार्यमात्रे कालोपाधिविधयाऽपि तस्य पटहेतुत्वादिति" इत्यस्य स्थाने "कार्यमाञ जन्यमात्रस्य कालोपाधिविधया हेतुत्वेन पटं प्रत्यपि तस्य हेतुत्वादिति" इति पाठो युक्तः, कार्यमा प्रति कालस्य कारणत्वमुररीक्रियते. तत्र कार्यकारणभावश्च कार्यत्वावच्छिन्नकार्यतानिरूपितकालत्वावच्छिन्न कारणत्वमित्येवंरूपः, नित्यस्य कालस्य विशिष्टस्यैकरूपत्वाद्वैमन्तिकवासन्तिककार्य मेदनिमित्तत्वं न भवेदिति हेमन्तादिकालभेद एव कारणम् , तस्य कालो गधिरूपत्वादेव कालत्वम् , तदेव कालत्वं तत्र कारणतावच्छेदकम् , तच जन्यमात्र एवेति कार्यतावच्छेदकं कार्यत्वं कार्यमाने. कारणतावच्छेदकं च कालोपाधित्वलक्षणं कालत्वं जन्यमात्र इति पटस्यापि कार्यतावच्छेदककार्यत्वधर्माऽऽक्रान्तत्वात् कार्यता, मृपिण्डस्यापि जन्यमात्रमतकालोपाधित्वलक्षणकालत्वधर्मा ऽऽकान्तत्वात् कारणतेति भवति पटं प्रति कालोपाधिविधया मृत्पिण्डस्य कारणत्वमिति निरुक्त कार्यकारणभावं समाश्रित्य मृत्पिण्डो द्रव्यपट इत्यपि प्रसज्येत, तत्परिहाराय निरुक्तनियमोऽवश्यमभ्युपेय इति जीवत्वस्य कार्यतानवच्छेदकत्वेन तदवच्छिन्नकार्यवासिद्ध्या तनिरूपितकारणत्वस्याप्यसिद्धितो मनुष्यो द्रव्यजीव इत्येवं जीवे द्रव्यनिक्षेपो न सम्भवतीत्यर्थः ॥ ९० ॥११॥ ९२॥
उपन्यासपूर्वकं मतान्तरस्य दुष्टत्वावेदकं त्रिनवतितमपद्यं विवृणोति-अन्य इतीति । धीसभ्यस्तगुण-पर्यय इति समस्तस्य व्यासचनमन्तरेण नार्थाभिव्यक्तिः समासस्यानेकविधस्यापि सम्भवादतो बहुव्रीहिरत्र समास इत्यावेदयितुं विग्रहवाक्यमुपदर्शयति-धियेति-अस्य विवरण-बुद्धयेति न तु तस्य विग्रहघटकतेति बोध्यम् । तथा धीसग्न्यस्तगुणपर्ययः, एतावताऽपि समासार्थो न स्पष्टं प्रतीयते इत्यत आह-गुणपर्यायविमुक्तः प्रज्ञास्थापित इति यावदितिपर्यायस्य पर्यायान्तरकथने यावच्छब्दः प्रयुज्यते, प्रकृते समासवाक्यस्य समानार्थकत्वाद् विग्रहवाक्यं पर्यायस्तत्पर्यायकथन चेदमिति युक्तो यावच्छब्दप्रयोगः, द्रव्यस्य गुण-पर्यायाभ्यां सह कथञ्चित्तादात्म्यलक्षणाविध्वम्भावसम्बन्धो न कदाचिद. पगच्छतीति यद् द्रव्यं याभ्यां गुणपर्यायाभ्यामविष्वम्भावसम्बन्धेन समन्वितं ताभ्यां तत् सर्वदैव युक्तं न तु कदाचिदपि क्युिक्तमिति जीवः स्वगुण-पर्यायाभ्यां वियुक्तो न सम्भवत्यत उक्तम्-प्रज्ञास्थापित इति-स्वगुणपर्याययुक्त एव जीव: केवलं बुद्धया गुण-पर्यायवियुक्त इति कल्पित इत्यर्थः । तादृशः निरुतस्वरूपधीसन्न्यस्तगुणपर्ययः । जीव इति पूरणम् । इति व्याचक्षते इत्यपि पूरितमेव, अत्र ' अन्य त्वाचार्या' इत्यस्यान्वयः । तदसत् उक्तमतं न समीची. नम् । तत्र हेतुमुपदर्शयति-यत इति । असतां बुद्धया निषेधः सम्भवति न तु सतां वस्तुभूतानामित्याह-सतामिति, तेषामित्यस्य विवरण-गुण-पर्यायाणामिति । सन्न्यासः निषेधः । कथं सतां बुद्धया न सन्न्यास इत्यपेक्षायामाहनहीति-हि-यतः, अर्थपरिणतिर्यादृच्छिकशानायत्ता नास्तीत्यन्वयः, यथाभूतं वस्तु तथाभूतं तद् व्यवस्थापयितुं प्रगल्भते ज्ञानम्, न तु सन्तमर्थमसन्तं विधातु ज्ञानस्य सामर्थ्य मस्ति, तथा च गुणपर्यायवन्तं जीवं गुणपर्यायवियुक्तं कर्तु कथं बुद्धिः प्रगल्भतामिति धीसन्न्यस्त गुणपर्ययस्य जीवस्याभावान्न तस्य द्रव्यजीवता वक्तुं शक्येत्याशयः। मतान्तरमुपदश्ये तत्राप्यरुचिमुपदर्शयति-जीवशन्नार्थ इति । तत्र जीवशब्दार्थे । जीवशब्दार्थाभिज्ञः पुरुषो यदा जीवपदार्थोपयोगत्यस्तदा स द्रव्यजीव इत्यर्थः । जीवशम्दार्थस्येति, वा अथवा, जीवशब्दार्थाभिज्ञस्य पुंसो यजीवरहितं शरीरं