Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 121
________________ गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । पर्यायहेतुत्वाद् द्रव्यजीवो, मृदादिद्रव्यमेव आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वाद् द्रव्यमिति वक्तुं शक्यत्वादिति भावः॥ तद्-एतन्मतं, चिन्त्यम्, यद्-यस्माद्, द्रव्यार्थिकस्य नयस्य मते, उपयोगो नाम न भवति, शाब्दबोधनजनकाक्षरलिप्यादेरेव तेन नाम्नः स्वीकारादिति द्रव्यार्थिकविषयनिरूपणे केवलिज्ञानरूपं नामातिरिकं वाचादिष्टम् , ( अप्रज्ञाप्यवस्तुनि नाम न भवति ), जीवहेतुतया नरादेव्यजीवत्वे चाभ्युपगम्यमाने सिद्ध भावजीवत्वं स्यात् तत्रादिष्टे द्रव्यहेतुत्वाभावादिति संसारिजीवमात्रे भावजीवत्वाभिधायकसिद्धान्तब्याकोप: स्यात् ॥ आदिष्टद्रव्यहेतुत्वाद्धेतोः द्रव्यद्रव्यस्य प्रतिश्रुतौ-स्वीकारे च भावद्रव्यं किमपि न स्यात् , यदेव भावद्रव्यं स्वीक्रियतेऽन्यावयव्यादि, तत्रापि तद्गतगुणे द्रव्यतामर्पयि. स्वादिष्टद्रव्यहेतुतया द्रव्यद्रव्यव्यपदेशस्य कर्तुं शक्यत्वात् । किञ्च, स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्नकर्मतानिरूपितकारणताबोधन एव द्रव्यस्य साकाङ्कृत्वान्मनुष्यो द्रव्यजीव इत्यादि दुर्वचम् , अन्यथा प्रथमपद्योपदिष्टमतदूषणपरं द्वितीयपद्य विवृणोति-तदिति-अस्य विवरणम्-एतन्मतमिति । एतन्मतस्य चिन्त्यत्वे हेतुमाह-यदिति-तदर्थो यस्मादिति । नयस्य मते इति शेषः कृतः। द्रव्यार्थिकमते कुत उपयोगो नाम न भवतीत्याकालायामाह-शाब्दबोधेति-शाब्दबोधजनकं यदक्षरलिप्यादि तस्यैव नाम्नो नामरूपस्य तेन द्रव्यार्थिकनयेन स्वी. कारादभ्युपगमादित्येतस्मात् कारणाद् द्रव्यार्थिकनयविषयस्य नाम्नो निरूपणे प्रकान्ते केवलिज्ञान-कवलिसम्बन्धि ज्ञानरूपं नामातिरिक्तमपि वाचादिष्ट-वचनमात्रेणादिष्टं न तु युक्तियुपपन्नम् , कुत्र वाचादिष्टमित्याकाडानिवृत्तये-अप्राप्यवस्तुनीति, तनाम नामनिक्षेपो न भवतीत्यर्थः । जीवहेतुतया देवादिजीवकारणत्वेन नरादेरादिपर्यायापन्नजीवस्य द्रव्यजीवत्वे स्वीक्रियमाणे पुनः सिद्ध सिद्धावस्थे जीवे, भावजीवत्वं स्यात् । कथं सिद्धजीवस्यापि भावजीवत्वमित्यपेक्षायामाह-तत्रेतिसिद्धे इत्यर्थः । " आदिष्टे द्रव्यहेतुत्वाभावादिति" अस्य स्थाने " आदिष्टद्रव्यहेतुस्वाभावादिति" इति पाठ: समुचितः, आदिष्टव्यस्य जीवत्वेनादिष्टस्य द्रव्यस्य जीवस्य हेतुत्वाभावात् . नहि सिद्धपर्यायस्योत्तरं कोऽपि जीवपर्यायो यत्कारणत्वं सिद्धस्य स्यादित्यर्थः । भवतु सिद्धमात्रस्यैव भावजीवत्वम् , संसारिजोवस्य तु द्रव्यजीवत्वमेव का नो हानिरित्यत आह-संसारिजीवमात्र इति “संसार्यसंसारिजीवमात्रे” इति पाठः सम्यग् उपयोगलक्षणो जीवः स संसारी सिद्धश्चेत्यादिकस्य संसार्यसंसारिजीवमात्रे भावजीवत्वाभिधायकस्य सिद्धान्तस्य व्याकोपो व्याघातः स्यात् सिद्धमात्रस्य भादजीवत्वाभ्युपगम इत्यर्थः ॥ तृतीयपद्यं विवृणोति-आदिष्टद्रव्यहेतुत्वादिति । प्रतिश्रुतावित्यस्य विवरणं स्वीकारे चेति । नन्ववयवानात्मकावयविखरूपस्य घटादेर्न द्रव्यं प्रति कारणत्वमिति तस्य भावद्रव्यत्वं भविष्यत्यत आह-यदेवेति । अन्त्यावयवित्वमक्यवानात्म. कावयविस्वम् । तत्रापि अन्त्यावयव्यादिद्रव्येऽपि । तद्गतगुणे अन्त्यावयव्यादिगतगुणे । द्रव्यतामर्पयित्वा गुण-गुणिनोरभेद इत्यभ्युपगन्सृनये गुणिनो द्रव्यत्वे तदभिन्नस्य गुणस्यापि द्रव्यत्वमित्येवं द्रव्यतामर्पयित्वास आदि द्रव्यहेततया भादिष्टद्रव्यं यदवयवादिगतगुणस्तस्य कारणत्वेन । मनुष्यजीवस्य देवात्मकजीवकारणत्वाद् द्रव्यजीवत्वं प्रकारान्तरेण दूषयतिकिति । स्वसमभिव्याहतेति-"कर्मता" इत्यस्य स्थाने " कार्यता" इति पाठः सम्यग् , मनुष्यो द्रव्यजीव इत्यत्र स्वं द्रव्यपदं तत्समभिव्याहृतं जीवपदं तदर्थावच्छेदकं जीवत्वं न तु देवत्वमिति जीवत्वावच्छिन्न कार्यताया अप्र. सिद्धत्वादु देवत्वावच्छिन्नकार्यताया ग्रहीतुमशक्यत्वान्मनुष्यो द्रव्यजीव इति वक्तुमशक्यम् , मृत्पिण्डो द्रव्यघट इति च वक्तं शक्यते. तत्र स्वं द्रव्यपदं तत्समभिव्याहृतं घटपदं तदर्थतावच्छेदकं घटत्वं तदवच्छिन्नकार्यतानिरूपितकारणत्वस्य मृत्पिण्डे सत्त्वादित्यर्थः । अन्यथा स्त्रसममिव्याहृत पदार्थतावच्छेदकावच्छिन्न कार्यतानिरूपितकारणताबोधन एव द्रव्यपदस्य साकारत्वमिति नियमस्यानभ्युपगमे । मृरिपड इति-यथा मृत्पिण्डो द्रव्यघट इति प्रयोगो भवति तथा मृस्पिण्डो द्रव्यपट इति प्रयोगस्यापि प्रसङ्गादित्यर्थः । ननु मृस्पिण्डो द्रव्यघट इत्यस्य घटकारणं मृत्पिण्ड इत्यर्थः, सच घटं प्रति मृत्पिण्डस्य कारणत्वात् सम्भवति. मृस्पिण्डो द्रव्यपट इत्यस्य तु पटकारणं मृत्पिण्ड इत्यर्थः स्यात् , न च स सम्भवति, पटं प्रति

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274