Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२९५
कम् , वैखर्यात्मककब्देनैव सर्वोल्लेखान्मध्यमाख्यशब्दसंस्कृष्टसविकल्पकज्ञानेनैव सर्वार्थग्रहणात् पश्यन्त्या. ख्यशुद्धशब्दात्मकज्ञानेनैव चाखण्डेकस्वरूपनिश्चयात् सर्वत्रानुस्यूतत्वात् सर्वोपादानस्वाच शब्दतत्त्वमखण्डं ब्रह्मेत्यर्थः । एतदेवाह-यदक्षरम्-अकारादि, एतेनाभिधानरूपो विव” दर्शितः । तथा यत् 'अर्थभावेन' तद् विवर्तते, एतेनाभिधेयरूपो विवत्तों दर्शितः । तथा यतो जगतः प्रक्रिया-प्रतिनियता व्यवस्था, भेदानां सङ्कीर्तनमेतदिति । अयं च वर्णक्रमरूपो वेदस्तदधिगमोपायः, प्रतिच्छन्दकन्यायेन तस्यावस्थितत्वात् , तञ्च परब्रह्माऽभ्युदय-निःश्रेयसफलधर्मानुगृहीतान्तःकरणैरवगम्यते, अन्यैस्तु प्रयोगादव. गम्यते, 'शब्द एव जगतस्तत्त्वम्, तद्वाघेऽप्यबाध्य मानत्वात् , अहिरज्जुवत् , प्रामारामादयः शब्दा. इतिधुरां दधतीति सर्वार्थोल्लेखशेखरत्वेन वैखर्याः सर्वार्थव्यापकत्वम् । मध्यमाख्येति- मध्यमासंज्ञको यः शब्दस्तेन संस्पृष्टंतादात्म्येन संबद्धं यत् सविल्पकज्ञानं तेनैव सर्वार्थग्रहणादित्यर्थः, न खल्वर्थमज्ञात्वैव परार्थ शब्दमुच्चारयति सोऽपि पुरुष इति शब्दोच्चारणार्थ तदर्थज्ञानमपेक्षितम्, निर्विकल्पक चार्थज्ञानं न शब्दोचारणायालमिति सविकल्पज्ञानमेव तदर्थमावश्यकम् , तच मध्यमाख्यशब्दसंस्पृष्टमेवेत्येवं सर्वार्थग्रहणपटिष्ठसविकल्पकज्ञानस्वरूपसन्निविष्टत्वान्मध्यमाख्यशब्दस्य सर्वार्थव्यापकत्वम् । पश्यन्याख्यति-पश्यन्तीसंज्ञको यः शुद्ध शब्द:- आनुपूादिलक्षणाशुद्धिरहितत्वाच्छुद्धत्वम् , तदात्मकज्ञानेनैव पुनः अखण्डैकस्वरूपस्य ब्रह्मणो निश्चयादखण्डकब्रह्मस्वरूपमेव सर्व वस्तु परमार्थत इति सर्वस्यापि तदात्मनः पश्यन्त्याख्यशुद्धशब्दात्मकज्ञानेनैव निश्चयादिति तद्वारा पश्यन्त्याख्यशब्दस्यापि सर्वव्यापकत्वम् । एवं च शब्दतत्त्वस्य, सर्वत्र सर्वस्मिन्नर्थे, अनु स्यतत्वात् अनुगतत्वात् , सर्वोपादानस्वाञ्च सर्वस्य वस्तुनस्तत एबोद्भूतत्वेन सर्ववस्तुन उपादानत्वाच्च, अखण्डं ब्रह्म सर्वत्रानुस्यूतं सर्वोपादानं च, शब्दतत्त्वमपि तथेति नेकस्योपादानद्वयमतो यदेव ब्रह्म सर्वानुस्यूतं सर्वोपादानं च तदेव शब्दतत्त्वमिति शब्दतत्त्वमखण्डं ब्रह्म, इति एवंस्वरूपः, अर्थः अनादिनिधनं ब्रह्म शब्दतत्त्वमित्यस्यार्थः। एतदेव ब्रह्म शब्द. तत्त्वमेव, आह कथयति । यदक्षरं यत् शब्दतत्त्वं ब्रह्म, अक्षरमित्यस्य विवरणम्- अकारादीति । एतेन यदक्षरमिल्यनेन शब्दतत्त्वं ब्रहौवाकाराद्यक्षररूपेण निवर्तत इति अकाराद्यक्षरात्मकाभिधानलक्षणो विवर्तः शब्दतत्त्वात्मकब्रह्मणो दर्शित आवेदितः । यत् शब्दतत्त्वं ब्रह्मा, तत् तदेव, अर्धभावेन अर्थात्मना, विवर्तते परिमणते । एतेन विवर्ततेऽर्थभावेनेत्यनेन । यतः शब्दतत्त्वात्मब्रह्मणः सकाशात् । प्रक्रियत्यस्य विवरणम् - प्रतिनियता व्यवस्थेति । एतत्कथनप्रयोजनं दर्शयति-भेदा. नामिति-विशेषाणामित्यर्थः । सङ्कीर्तनं कथनम् । एतत् प्रक्रिया जगतो यत इति वचनम् । शब्दतत्त्वात्मकब्रह्मणोऽवगमे के उपाय इत्यपेक्षायामाह- अयं चेति- इदानीन्तनैरस्माभिरपि प्रत्यक्षेण गोचरीक्रियमाणश्चेत्यर्थः। वर्णक्रमरूपः आनुपूर्वीविशेषविशिष्टवर्गसमुदायात्मकः । तदधिगमोपायः शब्दतत्त्वात्मकब्रह्माधिगमनिबन्धनम् । कथं वेदस्तदधिगमोपाय इत्याकाङ्कायामाह-प्रतिच्छन्दकन्यायेनति--बिम्ब-प्रतिबिम्बन्यायेनेत्यर्थः । तस्य वेदस्थ. प्रतिबिम्ब न बिम्बातिरिफ वस्तुभूतं तथापि बिम्बस्य वस्तुनो ज्ञापकं भवति, प्रतिबिम्बस्य बिम्बमन्तरेणानुपपत्तेः, एवं वेदोऽपि शब्दतत्त्वात्मकब्रह्मणो बिम्बस्थानीयस्य प्रतिबिम्बस्थानीय एवेति भवति तदधिगमसाधनमित्याशयः । किं तदधिगमोपायेन वेदेन सर्वैरेव वेदार्थाभिः शब्दतत्त्वात्मकं ब्रह्माधिगम्यते ? किं वा तत्रापि विशिष्टैरेव कैश्चिदित्यपेक्षायामाह- तच्च परमब्रह्मेति- शब्दतत्वात्मकपरमब्रह्म पुनरित्यर्थः, अस्य ‘अवगम्यते' इत्यनेनान्वयः। अभ्युदयति- अभ्युदयः-स्वर्गादिः, निःश्रेयसं- मोक्षः, अभ्युदय-निःश्रेयसान्यतरत् फलं यस्य सोऽभ्युदय निःश्रेयसफलः, एवम्भूतो यो धर्म:- शमदमादिलक्षणः, योगाभ्यासजनितपुण्यविशेषो वा, तेनानुगृहीतं- तत्सम्बन्धात् पूतम्, अन्तःकरणं-हृदयं येषां तैरभ्युदय-निःश्रेयसफलधर्मानुगृहीतान्तःकरणैः कैश्चिदेव महात्मभिः शब्दतत्त्वात्मकपरमब्रह्मावगम्यत इत्यर्थः। अन्यैस्तु अभ्युदयनिःश्रेयसफलधर्मानुग्रहीतान्तःकरणमिन्नैः पुरुषः पुनः। प्रयोगात् प्रकृष्टयोगात्, अथवा परार्थानुमानस्वरूपत्र्यवयवोपपनवाक्यप्रयोगात् , अवगम्यते शब्दतत्त्वात्मकपरमब्रह्म ज्ञायते । परार्थानुमानात्मकवाक्यप्रयोगस्वरूपो द्वितीयपक्ष एवात्राभिप्रेत इति स एवोपदश्यते-शब्द एवेति- शब्द एव जगतस्तत्त्वमिति प्रतिज्ञा, तद्बाधेऽप्यबाध्यमानत्वादिति हेतुः, जगतो बाधेऽपि शब्दतत्त्वस्याबाध्यमानस्वादिति तदर्थः, अहि. रज्ज्वदिति दृष्टान्तवचनम् , अत्र यद् यदाधेऽप्यबाध्यमानं तदेव तत्त्वं यथा अहेबधिऽपि रज्जुरबाध्यमाना तत्त्वमित्युदाहरणस्वरूपम् । प्रयोगान्तरमाह-ग्रामा-रामादय इति-प्रामा-ऽऽरामादयः शब्दात्मका इति प्रतिज्ञा, तदाकारानुस्यूतत्वादिति हेतुः,

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274