Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। २८९ पाषाणत्वादिना भेदप्रत्यक्षे सति स्वरसतो नोदयतीत्याहार्य एव सम्पादनीयः, आहार्यत्वं चेच्छाजन्यत्वम् , इच्छा चेष्टसाधनताज्ञानसाध्येतीष्टसाधनताज्ञानसम्पादनाय प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपये दिति विधिः कल्पनीयः । तथा चाहार्यभगवदभ्यारोपविषयप्रतिमापूजनत्वादिना फलविशेषहेतुत्वे आहार्यत्व. प्रयोजकेच्छाजनकज्ञानजनकविशेष्यतावच्छेदककुक्षिप्रविष्टत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्व. मित्युक्तं भवति, प्रतिष्ठितं पूजयेदित्यत्रापि क्तप्रत्ययस्य खण्डशः शक्क्या लक्षणादिना वा प्रतिष्ठाप्रयुक्कातत्र काष्ठत्व-पाषाणत्व-मृत्त्वज्ञाने सति परमात्मस्वरूपाद् भगवतो भेदप्रत्यक्षमेव जायते, सति च तस्मिन् प्रतिमायां भगबदभेदज्ञानमनाहार्यरूपं न सम्भवति, अनाहार्य-तद्भेदज्ञानस्यानाहार्यतदभेदज्ञानं समानधर्मिकं प्रति प्रतिबन्धकत्वादतो बाधकाले आहार्यज्ञानमेव सम्पादयितुं शक्यमित्याह-काष्ठ-पाषाणत्वादिनेति । स्वरसतः इच्छादिकमनपेक्ष्य स्वभावतः। नोदयति नोत्पद्यते, अत्रापि स चेत्यस्यान्वयः । आहार्यत्वं किमित्यपेक्षायामाह-आहार्यत्वं चेच्छाजन्यत्वमितिसमानविषयकप्रत्यक्षा-ऽनुमितिसामग्योः सत्योः समानविषयकप्रत्यक्षमेव भवति न स्वनुमितिरिति समानविषयकानुमिति प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिका, एवं भिन्न विषयकानुमितिप्रत्यक्षसामग्योः सत्योर्मिन्नविषयकानुमितिरेव भवति न तु भिन्नविषयकप्रत्यक्षमिति भिन्नविषयकप्रत्यक्ष प्रति भिन्नविषयकानुमितिसामग्री प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे व्यवस्थितेऽपि समानविषयकप्रत्यक्षसामग्रीसत्त्वेऽपि समानविषयकानुमितीच्छायां सत्यां समानविषयकानामति सामग्रीतः समानविषय कानुमितिरुपजायत इति तां प्रतीच्छा कारणम् , एवं विभिन्न विषयकानुमिति सामग्रीसत्त्वेऽपि विभिन्न विषयकप्रत्यक्षेच्छाबलाद् विभिन्नविषयकप्रत्यक्षसामग्रीतो विभिन्नविषयकप्रत्यक्षमुपजायत इति तत् प्रतीच्छा कारणम् , तथा च तादृशानुमिति. प्रत्यक्षयोरिच्छाजन्यत्वेऽपि नाऽऽहार्यत्वमतो नेच्छाजन्यत्वमानमाहार्यत्वम् , किन्तु बाधकालीनेच्छाजन्यत्वमाहार्यत्वमिति, यद्यपि स्वविरोधिर्मितावच्छेदककस्वप्रकारकज्ञानमाहार्यमितीच्छाजन्यत्वाघटितमप्याहार्यलक्षणं सम्भवति तथापि तादृशलक्षणलक्षितमप्याहार्यज्ञानं नेच्छामन्तरेणेतीच्छाजन्यत्वं तस्यावश्यकमिति बोध्यम् । इच्छा चेष्टसाधनताशानसाध्येति-इच्छा द्विविधा- फलेच्छा उपायेच्छा चेति, तत्र फलेच्छां प्रति फलज्ञानं कारणम् , उपायेच्छां प्रति चेष्टसाधनताज्ञानं कारणम् , प्रतिमायां भगवदभेदाध्यारोपात्मकज्ञानं च न सुखं नापि दुःखाभाव इति न फलं सुख-दुःखाभावान्यतरस्यैवान्येच्छानधीनेच्छाविषयत्वेन फलत्वात् , किन्तु सुख-दुःखाभावान्यतरात्मकफलसाधनत्वेनोपायरूपं तदिति तदिच्छा इष्टसाधनताज्ञानसाध्येत्यर्थः । इति एतस्माद्धेतोः । इष्टसाधनताहानसम्पादनाय प्रतिमायां भगवदभेदारोपे इष्टसाधनताज्ञानसम्पादनाय, प्रतिमायां भगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकज्ञानसम्पत्तये इति यावत् । इष्टसाधनत्वं विधेरर्थ इति विधिवाक्यादेवेष्टसाधनताज्ञानं भवितुमर्हतीति यादयविधिवाक्यं प्रतिमायां भगवदभेदाध्यारोपस्थेष्टसाधनत्वं बोधयितुं समर्थ तादृशं विधिवाक्य कल्पनीयमित्याशयेन कल्पनीयविधिस्वरूपमुल्लिखति-प्रतिष्ठितां प्रतिमामिति । तथाच निरुतविधिकल्पन या प्रतिष्ठितप्रतिमागतभगवदभेदाध्यारोपस्येष्टसाधनत्वबोधने तत्प्रभवेच्छाजन्यत्वेन निरुताभेदारोपस्याहार्यत्वव्यवस्थितौ च । आहायतिआहार्यो यो भगवतोऽभेदेन प्रतिमायामध्यारोपस्तद्विषयीभूता या प्रतिमा तत्पूजनस्वादिनेत्यर्थः, आदिपदात् तदर्शनत्व-तद्वन्दनत्वादीनामुपग्रहः । फलविशेष हेतुत्वे फलविशेष प्रति निरुक्तप्रतिमापूजनादीनां कारणत्वे सति । आहार्यत्वेति- प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपस्य यदाहार्यत्वं तत्प्रयोजिका बेच्छा प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपो जायतामित्याकारिका, तज्जनकं यज्ज्ञानं प्रतिष्ठितप्रतिमाविशेष्यकभगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकम् ,तजनकं प्रतिष्ठित प्रतिमाविशेष्यकभगवद. भेदप्रकारकज्ञानम् , तन्निरूपितविशेध्यता प्रतिष्ठितप्रतिमात्वावच्छिन्नविशेष्यता, तदवच्छेदककुक्षौ-तदवच्छेदकशरीरे प्रविष्टत्वेनेत्यर्थः, प्रयोजकत्वं प्रतिमापूजनादिफलं प्रति प्रयोजकत्वम् । यदपि प्रतिष्ठितं पूजयेदिति विधिः कल्पितश्चिन्तामणिकृद्भिस्तत्राप्युक्तदिशैव फलहेतुतेत्याह- प्रतिष्ठितं पूजयेदित्यत्रापीति । कप्रत्ययस्य प्रतिष्ठितमित्येतद्घटकक्तप्रत्ययस्य, खण्डशः शक्त्या प्रयुक्त आहार्य भारोपविषये च क्तप्रत्ययस्य पृथगेव शक्तिस्तथा, वा अथवा, लक्षणादिना प्रयुक्त हार्यारोपविषये प्रत्ययस्य लक्षणादिना । प्रतिष्ठेति-सूत्रबोधितसविधिप्रतिष्टया प्रयुक्तो जनितो यः प्रतिमायां भगवतो. उभेदेनाहार्य आरोपस्तद्विषयप्रतिमापूजनत्लादिनैव फलहेतुतेत्यर्थः, प्रतिमापूजनत्वादिनैवेत्येवकारेण प्रतिष्ठाकालीनयावदस्पृश्य

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274