Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समाकर्ण्य च तद्वचनं, 'सत्यं(त्यो) भवतु श्रीचरणानामयमादेश' इति निगद्य, 'महाराज ! भीतभीत इव लज्जया परीत एष जन इदानीं शरशत(५००)परिमितमेव द्रव्यं दित्सति, तत्र करुणावरुणालयेन श्रीमता क्षान्तेन भवितव्य'मिति निवेदयन् तूष्णीम्बभूव ।
यतिरपि तदीयसत्यं निर्व्याजं च वचनमाकर्ण्य प्रसन्नतया तमेव द्रव्यमेकस्मिन् 65 भाजने निःक्षिप्या'ऽप्रतिबन्धव्यापारेण तत्रत्यशिल्पकर्म कुर्वतां जनानामसङ्ख्यातमेव द्रव्यं वितर, लप्स्यते च ते यथाप्राप्यम् । न च कदाचिदपि तद्भाजनस्य द्रव्यं कियदिति परिगणनीय'मिति समुपदिदेश।
अथ च तदीयमादेशं शिरसाऽभिनन्द्य बाण-मुनि-रस-भूसुरेश(१६७५)परिमिते वर्षे तदीयकार्यजातमाररम्भत् । अचिरेणैव च प्रतिष्ठायोग्यकार्य सम्पाद्य १) वसु-समुद्र-रस-आकाश(१६७८)परिमिते संवत्सरे श्री१०८स्वयम्भूपार्श्वनाथ-(8)
प्रतिकृति प्रातिष्ठपत् । प्रतिष्ठानन्तरमनेकवर्षपर्यन्तं तत्रत्यकार्यजातं तथैव निराबाधं निरन्तरं समजायत ।
अथैकदा भाविविधिघटनाप्राबल्येन तन्मूलकं यतिवरवचनं विस्मृत्य तद्भाजनस्थं द्रव्यं कियदिति परिज्ञातुमगणयत् । गणयश्च तदेव पञ्चशतपरिमितं
द्रव्यमुपलभ्य जाततत्कालस्मृतिर्बहुतरनिन्दितस्वकीयव्यापारः प्रशंसितदैवमाहात्म्यश्च । तदानीमेव सर्वकार्यजातमवारुन्धत् । तद्दिनादारभ्य तदवशेषीभूतमेवाऽऽसीत् । मध्ये
चाऽनेकविधपाखण्डिजनानां विहारभूमिरभवत् । दृष्ट्वा च तत् प्रान्तीयजनाः ) केवलं दुःखमेवाऽनुभूयाऽप्रतीकार्यतया तूष्णीमासीषुः ।
अथैवं गतवति बहुतरसमये समयानुकूलतया नु, मरुदेशस्य भाग्योदयान्नु, अत्रत्यलोकपापक्षयान्नु, तेषां भाग्योदयान्नु, श्रीमत्पार्श्वनाथप्रभावान्नु कदाचिन्निजसद्धर्मपद्धतिमनुसरन् विचरन् भुवनतलमनेकानेकविद्वज्जनजनताजनजेगीयमानश्रुतिस्मृतिपुराणेतिहास-काव्यनाटकाख्यान-काव्यायिकालेखपटुताद्यनेकचातुर्यचु(च)ञ्चुचरणकमल-चरणकमलचञ्चरीकायमानानवरतशिष्टविशिष्टविनीतशिष्योपशिष्यसमाजसमाराधितपादमूल-पादमूलोपगतानेकतरराजराजन्मस्तकालङ्कारप्रभापटलप्रद्योतितदशदिग्भागाविरतजैनशासनशासितप्रभूतजनसमाजसभाजितसंसत्-स्वकीयामृतरसकल्पनिरवसानव्याख्यानविख्यापितसद्धर्माचरणपूतकीर्तिकीर्तिदूतकाभिसारिताष्टा(ष्ट)सिद्धि-समस्तमुनिजनहृत्पुण्डरीकविकाशविकाशितज्ञानप्रकाशतरणितरुणतेजःप्रकाशप्रभावपिहितान्तेवासिमानसतमःसञ्चार
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106