Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 58
________________ RAIGADRAGENDRISTARTERSTAGRLD - मृषाभूतमनुपयोगि च किञ्चन वक्ति, तस्य प्रतिवादः, खण्डनं वा न कदापि क्रियते, प्रत्युत बहवश्चाटुकारास्तस्य समर्थनायाऽप्युत्सहन्ते । एकदा केनचन सत्ताधारिणा स्वकीये भाषणे पलाण्डुभोजनस्य प्रशंसा कुर्वाणेन कथितं यत् पलाण्डुः कन्दानां राजा, सर्वविधांश्च गुणान् बिभर्ति, अतस्तत्सेवनं मनुजानां कृते हितकरम् । एतदुपरि 2 बहुभिश्चाटुकारैरेतस्य समर्थनं कृतम् । अपरस्मिन् दिने तेनैवाऽपरस्मान्मञ्चात्प्रोक्तं यत् लि पलाण्डुसेवनं सुतरां गर्हितमतोऽस्माभिस्त्याज्यम् । तदुपर्यपि तैरेव बहुभिश्चाटु कारैरस्याऽपि वक्तव्यस्य समर्थनमकारि । यदा ते पृष्टा यद् "ह्यस्तु भवता पलाण्डोः प्रशंसा कृताऽभूत्, अद्य किमिति तस्य निन्दा क्रियते ?" तैः प्रत्युत्तरे सूचितं"बन्धो ! सोऽयं वक्ता ममोच्चाधिकारी वर्तते, येन ह्यः पलाण्डुप्रशंसा कृता, अद्य निन्दा । अहं पलाण्डो सेवकस्तु नाऽस्मि, एतस्य सेवकोऽस्मि । अत एतस्य विचारैः सह मम सहमतिः स्यात्तर्हि किमत्र चित्रम् ?" बहुभिः प्रबन्धनकलाकुशलैरिदं 2 सूत्रमप्युपदिश्यते यदुच्चाधिकारिणां मतं कीदृशमपि स्यात्, तस्य प्रतिवादो न श्रेयस्करः !! बहुभिस्त्वधीनस्थैः स्वाभिमतं स्वच्छन्दतया, निर्द्वन्द्वतया च लि प्रस्तोतुमादिष्टैरपि प्रायस्तदिदमेव कथ्यते - "My lord ! your lordship's views km Sare my views !!" अर्थात् "किं भवतामभिमतम् ?' इति पृष्टेनाऽधीनस्थेन * तदिदमेवोत्तरं दीयते "श्रीमन् यच्छ्रीमतामभिमतं, तदेव तु ममाभिमतम् ।" इति' । तदिदं श्रुत्वा भव्येशस्य सुता रोहिणी या खल्वेतदवधि मौनं स्थिता सर्वं ल संलापं शृण्वन्त्यासीत्, हिन्दीचलचित्रस्यैकस्य किञ्चन गीतं स्मृतवती, सहसैव तदुद्धरन्ती 2 तारस्वरेणाऽगायत्- 'सर्वमिदमुपलक्ष्यैव हिन्दीफिल्मनिर्मात्रा यदिदं गीतं प्रचारितं तदद्य साफल्यसूत्रत्वेन सुतरां स्मरणीयं सञ्जातम् - "जो तुमको हो पसन्द, वही वात कहेंगे। तुम दिन को अगर रात कहो, रात कहेंगे।" अर्थात् – यद् भवते रोचते, तदेव वक्ष्यामः, यदि भवान् दिवसं रात्रि व्यपदिशेद् ॐ वयमपि तं रात्रिरित्येव वक्ष्यामः ।' मत्पत्नी लेखिकाऽस्ति, पत्र-पत्रिकादीनां प्रत्यहं वाचनं चाऽपि करोति । ल 22 तया विनोदविधया सूचितं यत् - 'चाटुपटुत्वस्येकमन्यन्निदर्शनं गतेषु दिवसेषु दृष्टिपथमायातम् । बहवः पत्र-पत्रिकापाठकाः पत्रिकाया अङ्कविशेषं वाचयित्वा स्वाभिमतं प्रकटयितुं यत् पत्रं सम्पादकाय लिखन्ति तस्मिन्नन्यां सर्वामपि मुद्रितां सामग्रीमनभिधाय "सम्पादकीय"स्यैव प्रशंसामवश्यं कुर्वन्ति । अहं गतेषु पञ्चाशद् Q302020202020202020201020RDROPDORO2021 ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106