Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ * वाचश्चमत्कृतिः मुनिधर्मकीर्तिविजयः । कश्चित् पराक्रमी राजाऽऽसीत् । स दयालुनिरभिमानी चाऽऽसीत् । प्रजाजनानां CAN सुखे एव स्वसुखमस्तीति मन्वानः स निरन्तरं प्रजाजनानां हितार्थे प्रयतते स्म । प्रजाजना हा अपि तस्याऽनुशासने शान्तिमनुभवन्ति स्म । एकदा सुखेन कालं यापयता तेनैकः स्वप्नो दृष्टो यद्- मम सर्वेऽपि दन्ताः केनचित् त्रोटिता इति । एतादृशं स्वप्नं निरीक्षमाणः सन्नुत्थितवान् चिन्तितवाँश्च स"यौवनकाले दन्तशून्यवदनोऽहं कीदृशो दृश्येयम् ? मम शोभा का ? एष स्वप्नः शुभोऽशुभो वा भविष्यती"ति । स्वप्नफलं ज्ञातुमुत्सुकेन तेन राज्ञा स्वराज्यात् परराज्याच्च सर्वेऽपि विश्वविश्रुता दैवज्ञा आहूताः । नियतकाले ते सर्वेऽपि राजसभायामागतवन्तः । स्वप्नवार्ता तेभ्यो ज्ञापयित्वा स्वप्नफलं पृष्टवान् राजा । एकोऽवदत् - भविष्यत्काले भवतो हानिर्भविष्यतीति सूचयत्येष स्वप्नः । अन्य उवाच- स्वप्नो दुःखदोऽस्ति । भवतः कुटुम्बे मृत्युभविष्यतीति । मुखं विकृत्याऽपरेण गदितं- राजन् ! किं कथयानि ? भवतो नयनसमक्षमेव सर्वेऽपि परिवारजना मरिष्यन्ति । एतच्छ्रुत्वा सर्वेऽपि राजकौटुम्बिका नगरजनाश्च भयविह्वलाः स्तब्धाश्च जाताः । कौटुम्बिकास्तु रोदितुमारब्धाः । राजाऽप्यधोमुखो भूत्वा ललाटे च हस्तं संस्थाप्याऽऽसीनोऽस्ति । वातावरणे शोक औदास्यं च प्रवर्तते स्म । तदैवैको ज्योतिर्विदुत्थितवानुक्तवाश्च - हे राजन् ! चिन्तां मा कुरु । नैष स्वप्नो भयङ्करफलदोऽस्ति । "भवान् दीर्घायुष्कोऽस्ति, ततो न केऽपि कौटुम्बिकजना भवतो मृत्यु द्रक्ष्यन्ती'"ति सूचयत्येष स्वप्नः । एतन्निशम्याऽतीवाऽऽनन्दमनुभवता राज्ञा त्वरितमेव स्वकण्ठस्थिता मुक्ताफलमाला निष्कास्य तस्य कण्ठे आरोपिता । तदा सर्वेऽपि ज्यौतिषाचार्याः परस्परं मुखं पश्यन्त उक्तवन्तश्च - अहो ! । फलादेशस्त्वेक एव किन्तु तत्प्रकटनकरणे कियदन्तरमस्ति ! वागेवाऽमृतमपि विषं करोति । तथा विषमप्यमृतं करोति । एषैव वाचश्चमत्कृतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106