Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ **48.66\EYENTRIEEEENESS | कान्हडोऽवदत् - ममोदरे पीडा भवति, तेनाऽहं मलविसर्जनाय गच्छामि । । ___ ततः कान्हडो गृहं गत्वा सुष्वाप । वेश्या बहु प्रतीक्षितवती किन्तु कान्हडो न प्रत्यागच्छत् । अथ सा चिन्तयति स्म - इदं धनं मया न स्वीकर्तव्यम् । किं करोमि ? ततः सा सर्वमपि निवेद्य राज्ञे तत् सुवर्णमयच्छत् । राजा विचारयति इदं धनं मयाऽपि न ग्रहीतव्यम् । स पटहमवादयत् - ★ वेश्याया गृहे निशि योऽगच्छत् स राजसभामागच्छतु । पटहं श्रुत्वा कान्हडो ** भूपतिसमीपमागच्छदकथयच्चाऽहं निशि वेश्यागृहेऽगच्छम् । राजा वेश्यामाह्वयद- ** ० पृच्छच्च - किमयं जनस्तव गृहे निश्यागच्छत् ? वेश्या कथयामास - आम्... स कान्हडं पप्रच्छ - त्वमिदं सुवर्णं कया रीत्या आनीतवान् ? कान्हडः : कथयामास - श्रेष्ठिना सह चन्दनकाष्ठपुञ्जस्य विनिमयेन मयेदं सुवर्णं लब्धम् । मापतिः श्रेष्ठिनमाह्वयति पृच्छति च स्म - भो श्रेष्ठिन् ! - किमयं काष्ठहारकः सत्यं वदति ? श्रेष्ठी कथयामास - आम्... अथ कान्हडं पप्रच्छ - त्वं वेश्याया गृहात् केन कारणेन पलायनमकरोः ? कान्हड आह - पूर्णिमातमस्विन्यां बह्मचर्यव्रतपालनस्य नियमो मया स्मृतः, तेन मया पलायनं कृतं । राजा हृष्टः । कान्हडाय सर्वं सुवर्णमन्यमुपहारं च दत्तवान् । सर्वे जनाः सानन्दाश्चर्यान्विता बभूवुः । अथ कान्हडः सुन्दरं गृहं निर्मापितवान् । उत्तमया कन्यया सहोद्वाहं च कृतवान् । तथाऽपि सदा स पूर्णिमातमस्वत्यां ब्रह्मचर्यपालनं चकार । एकदा तस्मिन्नगरे ज्ञानी मुनिः समवसृतः । राज्ञा सह सर्वे नगरजनास्तस्य मुनेर्देशनां श्रोतुमाजग्मुः । देशनानन्तरं राजा मुनि पप्रच्छ - कान्हडस्योदन्ते वेश्या श्रेष्ठा ? श्रेष्ठी वा श्रेष्ठः ? उत कान्हड: श्रेष्ठ । मुनिः कथयामास-वेश्या, कान्हडः, श्रेष्ठी त्वं चेति सर्वेऽपि श्रेष्ठाः । ततस्ते सर्वेऽपि दीक्षां जनहुरात्मकल्याणं च चक्रुः । ****6...:LSHSMSTISMISISTISTSMAD ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106