Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ एकाधिपतित्वतन्त्रीयस्य (DICTATORSHIP) कस्यचिद् देशस्य न्यायालये कञ्चिद् विद्रोहिणमाश्रित्याऽभियोगः प्रवृत्त आसीत् / विद्रोही स तद्देशस्य सर्वसत्ताधीशस्य कृते धूर्तो-मूढ-इति शब्दप्रयोगं - कृतवानासीत्। न्यायालये स स्वकीयं विधानं सत्यापयितुं सवितर्क वादं प्रस्तुतवान् / / न्यायाधीशस्तस्य वादं श्रुतवानपि / अपि च, सोदाहरणं कतिपयघटना उल्लिख्य स साधितवानपि यत् तत्रत्यः सत्ताधीशो धूर्तोऽस्ति मूढश्चाऽप्यस्त्येवेति।। अन्ततस्तमपराधिनं निश्चित्य न्यायाधीशो दण्डं श्रावितवान्। न्यायाधीश उक्तवान् - तवाऽपराधस्तावान् गम्भीरो भयानकश्च यद् दण्डद्वयं तदर्थं / निश्चीयते / एकोऽपराधस्तावद् दण्डयोग्य एव, अपरश्च शूलारोपणपात्रम्। विद्रोही (साश्चर्यम्) किन्तु, महाशय ! कोऽपराधोऽत्र केवलं दण्डपात्रम् ? न्यायाधीशः देशस्य सर्वोच्चपदस्थितव्यक्तेः कृते त्वया धूर्तो मूढश्चेति शब्दौ प्रयुक्तौ / विद्रोही तहि शूलारोपणार्हो दण्डः कः? न्यायाधीशः अनेन राष्ट्रस्याऽतिगुप्त रहस्यं त्वया प्रकटीकृतम्, इति। Jain Education International Fon Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106