Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
झांसीराज्ञी लक्ष्मीबाई
राजेशकुमारमिश्रः . १८५७ तमवर्षस्य क्रान्तेरग्रसारिणी वीराङ्गना लक्ष्मीबाई आसीत् । तस्या माता भागीरथीबाई पिता च मोरोपन्त ताम्बे आस्ताम् । अस्या जन्म वाराणस्यां १९-११-१८३५ तमे दिनाङ्के बभूव । बाल्ये सा स्वमात्रा पित्रा च सह वाराणसीत: कर्णपुरसमीपे विठूरमागता । तस्याः शैशवं क्ठूिरे व्यतीतम् । समये यौवनमारुह्य सा सुन्दरी मनोहरा च जाता । अस्याः सौन्दर्यमवलोक्य झांसीराजो गङ्गाधररावो मोहितो बभूव । तेन तस्या मातापितरौ कथितौ यद् भवन्तौ स्वपुत्रीविवाहं यदि तेन सह करिष्यतः, तहि युवयोः पुत्री लक्ष्मी झासीराज्यस्य राशी भविष्यति ।
राज्ञो गङ्गाधररावस्य लक्ष्मीविवाहप्रस्तावं श्रुत्वा तौ प्रसन्नौ जातौ । ततः समये सा लक्ष्मीर्गङ्गाधररावेन सह विवाहिता, परं तस्याः कोऽपि सन्तानो नाऽभवत् । १८५३ तमे वर्षे गङ्गाधररावस्य देहावसानानन्तरं सा लक्ष्मीझाँसीराज्यस्य शासिका
बभूव, किन्तु आङ्ग्ल(अंग्रेज)शासकैस्तस्याः शासनाय मान्यता न दत्ता, न च । 9 तस्या दत्तकपुत्रो भाविशासको मानितः । ततः सा क्रान्तिकारिणी बभूव । तयोद्घोषणा कृता यत् सा झांसीराज्यमाङ्ग्लशासकाय न दास्यतीति ।
तया लक्ष्म्या महिलासेना स्थापिता, यस्या नाम 'दुर्गादलम्' आसीत् । दुर्गादलस्य नेतृत्वं झलकारीबाई कृतवती । झलकारीबाय्या मुखाकृतिर्लक्ष्मीबाय्या मुखाकृतिसमानाऽऽसीत् । आङ्ग्लैर्यदा झांसी समाक्रान्ता, तदा झलकारीबाई दुर्गादलेन सह तानाक्रान्तवती । युद्धे सा वीरगति प्राप्तवती । ततो लक्ष्मीः स्वपुत्रं पृष्ठे बद्ध्वा समरभूमिं गतवती । तत्र आङ्ग्लसेनया सह युद्धं कुर्वती सा कालपी गता, यत्र तात्याटोपे मिलितः । तेन सह सम्मील्य तया ग्वालियरप्रासादोऽधिकृतः आङ्ग्लैरपि तस्याः पराक्रमः सम्मानितः । अन्ते तया १८-६-१८५८ तमे वर्षे स्वप्राणास्त्यक्ताः । आङ्ग्लसेनापतिना ह्यूरोजेन तस्याः पराक्रमः प्रशंसितः । तेनोक्तम् - 'अत्र या वीराङ्गना सुप्ता, सा वीरेष्वेकवीर आसीत्' ॥
७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106