Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
AR
एक: किशोरः कृपणेन स्वपितृव्येन सह वसन्नासीत् । स पितृव्यस्तु तावान् कृपण आसीद् यत् तं स्वभ्रातृजायोदरपूरं भोजनमपि न ददाति स्म । एवमेव सोऽत्यन्तं कृशकायः सञ्जातः । एकदा द्वावपि गृहे उपविष्टावास्ताम् । तावत् कृशकाय एकः शुनकोऽन्तरागतः । तं दृष्ट्वा पितृव्य उक्तवान्- पश्य रे ! अयं शुनकः कीदृशः कृशकायोऽस्ति !
एषोऽपि स्वपितृव्येण सहैव वसन् स्यादिति प्रतिभाति - भ्रातृजस्त्वरितं कथितवान् ।
यात्रिकः [पथिकाश्रमस्य (Hotel) व्यवस्थापकाय] अस्ति वासाय
कश्चिदपवरको रिक्तः? व्यवस्थापकःनाऽस्ति। यात्रिकः यदि प्रधानमन्त्री अत्राऽऽगच्छेत् तर्हि किं भवान् तस्मै अपवरकं
दास्यति? व्यवस्थापकःअवश्यमेव दास्यामि । यात्रिकः तर्हि कृपया तमेवाऽपवरकं मह्यं दीयताम् । प्रधानमन्त्री
नाऽद्याऽऽगच्छति।
भक्तः
भगवान्
भक्तः
भगवन् ! भवतः कृते कोटिवर्षाणां का गणना? वत्स ! क्षणमात्रम् । कोटिरूप्यकाणां च का गणना ? नाणकमात्रमेव । तर्हि भगवन् ! मह्यमेकं नाणकं दीयताम् । क्षणमेकं तिष्ठतु, वत्स !
भगवान्
भक्तः
भगवान्
-
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106