SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ AR एक: किशोरः कृपणेन स्वपितृव्येन सह वसन्नासीत् । स पितृव्यस्तु तावान् कृपण आसीद् यत् तं स्वभ्रातृजायोदरपूरं भोजनमपि न ददाति स्म । एवमेव सोऽत्यन्तं कृशकायः सञ्जातः । एकदा द्वावपि गृहे उपविष्टावास्ताम् । तावत् कृशकाय एकः शुनकोऽन्तरागतः । तं दृष्ट्वा पितृव्य उक्तवान्- पश्य रे ! अयं शुनकः कीदृशः कृशकायोऽस्ति ! एषोऽपि स्वपितृव्येण सहैव वसन् स्यादिति प्रतिभाति - भ्रातृजस्त्वरितं कथितवान् । यात्रिकः [पथिकाश्रमस्य (Hotel) व्यवस्थापकाय] अस्ति वासाय कश्चिदपवरको रिक्तः? व्यवस्थापकःनाऽस्ति। यात्रिकः यदि प्रधानमन्त्री अत्राऽऽगच्छेत् तर्हि किं भवान् तस्मै अपवरकं दास्यति? व्यवस्थापकःअवश्यमेव दास्यामि । यात्रिकः तर्हि कृपया तमेवाऽपवरकं मह्यं दीयताम् । प्रधानमन्त्री नाऽद्याऽऽगच्छति। भक्तः भगवान् भक्तः भगवन् ! भवतः कृते कोटिवर्षाणां का गणना? वत्स ! क्षणमात्रम् । कोटिरूप्यकाणां च का गणना ? नाणकमात्रमेव । तर्हि भगवन् ! मह्यमेकं नाणकं दीयताम् । क्षणमेकं तिष्ठतु, वत्स ! भगवान् भक्तः भगवान् - ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy