Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अस्मिन वर्षे प्रदर्शिन्यां कीदृशीनां शाटिकानां प्रदर्शनं भविष्यतीति न ज्ञायते-पत्न्युक्तवती । यत्र कुत्राऽपि गच्छतु नाम; सर्वत्र द्विविधैव शाटिकोपलभ्येते- एका, या भवत्यै न रोचेत । अन्या, यां क्रेतुं मम शक्तिर्न भवेत् ।
एका कुमारिका ईश्वरं प्रार्थितवती - 'भगवन् ! नाऽहं मत्कृते किमपि याचे । केवलं मम मातुः कृते एकमुत्तमं जामातारं ददातु' इति ।
ईश्वरस्तस्याः प्रार्थनां श्रुतवान् । तस्या लघुभगिन्या विवाहः सञ्जातः।
RAM
0
0
0
प्रथमः शीघ्रमहं गृह जिगमिषामि । मम पत्नी प्रतीक्षारता बुभुक्षिता
स्यात् । द्वितीयः भाग्यवान् रे भवानेतादृशीं पत्नीं प्राप्य, यद् भोजनाय सा
त्वां प्रतीक्षते। प्रथमः अरे, नैवं रे ! न भोजनाय प्रतीक्षते, किन्तु नित्यं रसवती
मयैव सज्जीकरणीया किल ! अतः प्रतीक्षते।
विद्यार्थियानस्य समीपात् स्मशानयात्रा निर्गता। विद्यार्थी कश्चित् स्वमित्रं पृच्छति- को मृतः?
मित्रमङ्गुल्या निर्दिश्योक्तवान् - स सुप्तो दृश्यते किल? स एव! ।
७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106