Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(२) बुद्धिरेव श्रेयसी
नदीतटे छगनश्च मगनश्च गगनश्च मिलिताः । छगनादयश्चिन्तयन्ति - वयं महतीं सरितं कथं पारयेम ? छगनो भगवन्तं प्रार्थयत् -
हे भगवन् ! मम दीक़ पादावर्पय, येन सरितं पारयाणि । छगनस्य पादौ :0 दीर्घावभवताम्, नदीं चाऽवतीर्णो छगनः । ततः....
मगनो भगवन्तं प्रार्थयत् - मम दी? हस्तावेकां च नावमर्पय येन नदी * पारयाणि, मगनस्येष्टं मिलितं, नदीं चाऽवतीर्णो मगनः ।
गगनो विचारयति- दीर्घहस्ताभ्यां दीर्घपादाभ्यां च जीवितव्यस्य काठिन्यं ::: भावि, ततो गगनो भगवन्तं प्रार्थयत् - मे बुद्धि देहि, येन नदी पारयाणि ।
ततो गगनो दूरे एकं सेतुं दृष्टवान् । गगनः सेतुना नदीमपारयत् ।
GIRIRIRBIRTRAIATED::..
*****6*6.0.1STSMSTISMISISTISTISTIAD
पूर्णिमाया रजनी एकस्मिन्नगरे कान्हडनामा काष्ठहारको वसति स्म । स प्रतिदिवसं वने HRS काष्ठकर्तनाय गच्छति स्म, काष्ठपुजं च विक्रीय स्वजीवनं निर्वहति स्म ।
एकदाऽस्मिन्नगरे एको मुनिराट् समागतः । तदा कान्हडो विचारयति - अद्याऽहं मुनिराजस्य देशनां श्रोतुं गमिष्यामि । तदा तस्य सहचरः कथयामास - -
चल, वने काष्ठकर्तनाय गच्छावः । कान्हडः प्रतिकथयामास - अहं नाऽऽगच्छामि 4 अद्याऽहं मुनिराजस्य देशनां श्रोतुं गच्छामि । तस्य सहचरः पुनः कथयामास - ★ यदि त्वं वने नाऽऽगच्छेस्तर्हि बुभुक्षितः स्याः । कान्हडः प्रतिकथयामास-यद्भाव्यं ★
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106